________________
૨૪૨ साहित्यदर्पणः।
दशम:अत्रेवार्थे वतिरिति शाब्दमौपम्यम्, उत्कर्षनिकर्षकारणयोर्द्धयोरप्युक्तिः । गुणशब्दः ग्लिष्टः । अन्ये भेदाः पूर्ववदूह्याः। एतानि चोपमेयस्योपमानादाधिक्य उदाहरणानि न्यूनत्वे दिङ्मात्रं यथा
'क्षीणःक्षीणोऽपि शशी भूयोभूयोऽभिवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु ॥ १७७ ॥' अत्रोपमेयभूतयौवनास्थैर्यस्याधिक्यम् । तेनात्र 'उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेक'इति केषाञ्चिल्लक्षणे 'विपर्यये वे'तिपदमनर्थक मिति यत् केचिदाहुः, तन्न विचारसहम् । तथा हि-अत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते। अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव । अस्तु वा, अत्रोदाहरणे यथाकथञ्चिद्गतिः, किन्तु
- 'हनूमदाद्यैर्यशसा मया पुनर्दिषां हसै तपथः सितीकृतः॥'
इत्यादिषु का गतिरिति सुष्टुक्तं 'न्यूनताऽथवा इति । भ्रकुटी वामे नावामे मधुपालिवत् ।' इति तत्पूर्वार्द्धम् ॥' अत्र । इवार्थे । वतिः । इति । शान्दम् । औपम्यम । उत्कर्षनिकर्षकारणयोः। द्वयोः । अपि । उक्तिः। तथाऽत्र-गुणशब्दः। श्लिष्टः। अथ-अन्ये हेत्वनुक्तिनिबन्धनात्रय इति भावः । भेदाः । पूर्ववत् । ऊह्याः। ते हि क्रमेण यथा-'कुरङ्गायतनेत्राया नाब्जवर्द्रगुरा गुणाः' इति, 'अतिगाढगुणायाश्च नाब्जवसुमते ! गुणाः।' इति, 'कुरङ्गायतनेत्रायास्तन्वङ्गथा नाब्जवद्गणाः। इति च ।
एवमदाहृत्य कस्यैतान्युदाहरणानीति बोधसौकायाह-एतानि । उदाहरणानि । च । उपमेयस्य । उपमानात् । आधिक्ये 'ऊह्यानी'ति शेषः ।
उपमेयादुपमानाधिक्यमुदाहत्तुं प्रवृत्त आह-न्यूनत्वे 'उपमेयस्योपमाना'दिति शेषः । उपमानादुपमेयन्यूनत्वमुप. मेयादुपमानस्याधिक्यं तस्मिन् सति व्यतिरेक इति भावः । दिङ्मात्रम् । यथा
क्षीणःक्षीणोऽत्यन्तं कृशः । अपि । शशी चन्द्रः । भूयोभूयः पुनःपुनः । अभिवर्द्धते । इति-सत्यम् । है सुन्दरि ! मानात्-विरम । प्रसीद । यातं गतम् । यौवनम् । तु पुनः । अनिवति न' प्रत्यागन्तृ । रुद्रटालङ्कारस्येदं पद्यम् । अत्रा-छन्दः ॥ १७७ ॥'
सङ्गमयति । अत्रोदाहृते पद्ये। उपमेयभूतयौवनास्थैर्य्यस्योपमेयभूतं यद् यौवनं तस्यास्थैर्य्यमुपमानभूतचन्द्रापेक्षया न्यूनत्वावसायि चाचल्यं तस्य । आधिक्यमतिशयः । अयम्भावः-चन्द्रस्योपमानभूतस्यास्थैर्यरूपदोषन्यूनत्वेनोत्कृप्रम.यौवनस्योपमेयभूतस्यास्थैर्य्यरूपदोषाधिक्येनापकृष्टत्वम् ; अत एवान व्यतिरेक उपमानाधिक्यनिबन्धनः । इति ।
अस्यानुषणिकमपि फलं दर्शयति-अत्र। तेनोपमानाधिक्येन (उपमेयन्यूनत्वेन च)। 'उपमानात् । उपमे. यस्य । आधिक्ये उत्कर्षे। विपर्ययेऽनाधिक्येऽनुत्कर्ष इति यावत् । वा। व्यतिरेकः।' इति । केषाश्चिद लङ्कारस खकारादीनाम् । लक्षणे व्यतिरेकलक्षणे। 'विपर्ययेऽनाधिक्ये । वा, इतिपदम् । अनर्थकमनुपयुक्तम् 'उपमानाधिक्ये ( उपमेयन्यूनत्वे) व्यतिरेकस्यैवाखीकारा'दिति शेषः ।' इति । यत् (कर्म)। केचित् प्रकाश
रानुबन्धिन इति भावः । आहुः। तत् । न । विचारसहम् । तथाहि 'उपपाद्यते'इति शेषः । अत्र । अधिकग्यतत्वे 'उपमानोपमेययो'रिति शेषः । सत्त्वासत्त्वे स्थैर्यास्थैर्ये । एव । विवक्षिते । अत्र । च पुनः । चन्द्रा पेक्षयोपमानापेक्षया । यौवनस्योपमेयस्य । असत्त्वमस्थैर्य्यम् । स्फुटम् । एव 'अत उपमेयस्य न्यूनत्वमुपमानस्य श्वाधिक्यमिति भावः । ननु आधिक्यमात्रस्य व्यतिरेकानुबन्धित्वं स्वीकृत्य यौवनास्थैर्याधिक्यस्येवोपमेयाधिक्यं स्वीक्रियतां को दोषः? इत्याशङ्कयाह-अस्तु । वा । अत्र । उदाहरणे । यथाकथञ्चित । गतिनिर्वाह उपमेयाधिक्यस्वीकारः । किन्तु ।-'हनुमदाद्यैर्हनुमत्प्रभृतिभिः । यशसा स्वस्वामिनो यथाऽभिमतार्थानुष्ठानजन्यया प्रशंसया। दतपथो दूतमार्गः । सितीकृत उज्वलीकृतः । मया । पुनः। द्विषां शत्रूणाम् । हसैहस्यैिः । 'नतु थशसे'तिशेषः।सितीकृत इति पूर्वतोऽन्वेति। खनाम यन्नाम मुधाभ्यधामहो महेन्द्रकायें महदेतदुज्झितम् । इति तत्पूर्वार्द्धम् । दमयन्ती प्रति दौत्येन प्रेषितस्य दौत्येऽक्तार्थत्वेन विषण्णस्य नलस्योक्तिरियम् । वंशस्थं वृत्तम्, तलक्षणं चोक्तं प्राक् ॥' इत्यादिषु । का । गतिः 'न काऽपि गति'रिति भावः । इति । सुष्टु । उक्तम् 'विपर्यये वा । इति परिष्कुर्वद्भिरस्माभिरितिशेषः । 'न्यूनताऽथवा' इति । विवृतिकाराः प्राहा-'अत्र प्रभुप्रयोजननिष्पादकत्वेन हनूमदादे.