________________
परिच्छेदः ]
रुचिराख्यया व्याख्या समेतः। आक्षेपाच द्वादशधा श्लेषेऽपीति त्रिरष्टधा ।
प्रत्येकं स्यान्मिलित्वाऽष्टचत्वारिंशद्विधः पुनः ॥ १०७॥ . उपमेयस्योपमानादाधिक्ये हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणं च । तयो. ईयोरप्युक्तावेकः प्रत्येकं समुदायेन वा अनुक्तौ त्रिविधः, इति चतुर्विधेऽप्यस्मिन्नुपमानोपमेयस्य निवेदनं शब्देनोक्षेपेण चेति द्वादशप्रकारोऽपि श्लेषेऽपि'शब्दादश्लेषेऽपीति चतुर्विंशतिप्रकारः । उपमानान्यूनतयिामप्यनयैव भङ्गया चतुर्विंशतिप्रकारतेति मिलित्वा अष्टचत्वारिंशत्प्रकारो व्यतिरेकः। उदाहरणम्
'अकलङ्कं मुखं तस्या न कलङ्की विधुर्यथा ।' अत्रोपमेयगतमकलङ्कत्वमुपमानगतं च कलङ्कित्वं हेतुद्धयमप्युक्तम्। यथाशब्दप्रतिपादनाच्च शान्दमौपम्यम् । अत्रैव 'न कलङ्कि विधूपमम् ।' इति पाठे आर्थम्, 'जयतीन्दु कलङ्किनम् ।' इति पाठे तु इववत्तुल्यादिपदविरहादाक्षिप्तम् । अत्रैवाकलङ्कपदत्यागे उपमेयगतोत्कर्षकारणानुक्तिः, कलङ्किपदत्यागे च उपमानगतनिकर्षकारणानुक्तिः, द्वयोरनुक्तौ द्वयोरनुक्तिः । श्लेषे यथा-- 'अतिगाढगुणायाश्च नाब्जवद्भकुरा गुणाः।'
आक्षेपात् । च । साम्यस्य । बोधनात । साम्यबोधकस्य शब्दार्थाक्षेपत्रैविध्येन त्रैविध्यादिति भावः। द्वादशधा । एष च-श्लेषे श्लेषसद्भावे । अपि 'श्लेषाभावे तु भवत्येवेति शेषः । इति एवं द्विविधः सन्नित्यर्थः । त्रिः त्रिवार कृत्वा । अष्टधा । चतुर्विंशतिधा भवतीति निष्कर्षः । प्रत्येकं व्यतिरेकस्य भेदयोरेकैकमपेक्ष्येति भावः । पुनः। 'चतुर्विशतिविधत्वात्'इति शेषः । मिलित्वा चतुर्विंशतिविधानामुपमेयाधिक्यनिबन्धनव्यतिरेकाणां, तावतामेवोपमानाधिक्यनिबन्धनव्यतिरेकाणां चैकत्र व्यतिरेकाभिन्नत्वेनाकलनादिति भावः । अष्टचत्वारिंशद्विधः । 'व्यतिरेक' इत्यनुक्रमप्राप्तः । स्यात् ॥ १०६ ॥१०॥
कारिकाऽर्थ विवृणोति-उपमेयस्येत्यादिना । स्पष्टम् ।
उदाहर्तमाह-उदाहरणमिति । 'दिङमात्रं यथेति शेषः । 'तस्या नायिकायाः । मुखम् । अकलई कलङ्क (मालिन्यांश ) शून्यम् । विधुः। यथा । कलङ्की । तथा-न । 'अकठोरा तनू तन्व्या नामृद्वी हेममूर्तिवत् ।' इति शेषः ॥
अनेकान् भेदानत्रैव निर्देष्टुमाह-अत्रोदाहृते पद्यांशे इति भावः । उपमेयगतं मुखनिष्ठम् । भकलङ्कत्वम् । उपमानगतं चन्द्रनिष्ठम् । च । कलङ्कित्वम् । इति-हेतुदयम् । अपि । उक्तम् । इत्यसावुपमेयाधिक्य उक्तहेतुको व्यतिरेक इति बोध्यम् । यथाशब्दप्रतिपादनात् 'साम्यस्येति शेषः । च । शाब्दम् । औपम्यम् । अयं च श्लेषमन्तरैवेत्यूह्यम् । अत्रोदाहृतपद्यांशे । एव । 'विधूपमं विधुरिव । कलङ्कि । न ।' इति । पाठे । 'परिवृत्त'इति शेषः । आर्थम् । 'साम्य'मिति शेषः। 'कलङ्किनम् । इन्दुम् । जयति।' इति । पाठे । तु। इववनुल्यादिपदविरहात् । आक्षिप्तम् । 'साम्य मिति शेषः । अथ-अत्र । एव । अकलङ्कपदत्यागे। 'किन्तु-'ललनाया मुखं तस्या' इति पाठे'इति शेषः । उपमेयगतोत्कर्षकारणानुक्तिः । कलङ्किपदत्यागे। च । न विभाति विधुर्यथा' इति पाठे पुनः इति भावः । उपमानगतनिकर्षकारणानुक्तिरुपमानगतो विधुनिष्ठो यो निकोऽपकर्षस्तस्य कारणं ( कलङ्कित्वं ) तस्यानुक्तिरिति तथोक्ता । द्वयोरुपमेयगतोत्कर्षकारणस्याकलङ्कित्वस्योपमानगतापकर्षकारणस्य कलङ्कित्वस्य चेत्यर्थः । अनुक्तौ । द्वयोः 'पुनरिति शेषः । अनुक्तिः । 'यथा- 'रमणीयं मुखं तस्या न विभाति विधुर्यथा ।' इत्यत्रे'ति शेषः । श्लेषे । 'सती'ति शेषः । यथा व्यतिरेकः इति शेषः । 'अतिगाढगुणाया अत्यन्त गाढा दृढा गुणा अनुरागादयो धर्मा यस्यास्तथाभूतायाः । 'तस्या' इति शेषः । च । अन्जवदजं कमलं तस्येव । 'अब्जं पद्मे विधावन्ज' इति गोपालः । 'तत्र तस्येव ।' ५।१।११६ इति वतिः । भङ्गराः क्षयशीलाः । गुणा अनुरागादयस्तन्तुविशेषा वा । न । 'वामाया