________________
२४०
साहित्यदर्पणः।
[ दशमःइह बिम्बप्रतिबिम्बताऽऽक्षेपं विना वाक्यार्थापर्यवसानम्, दृष्टान्ते तु पर्यावसितेन वाक्याथेन सामर्थ्यात् बिम्बप्रतिबिम्बताप्रत्यायनम् । नापीयमापत्तिः, तत्र 'हारोऽयं हरिणाक्षीणाम् । इत्यादौ सादृश्यपर्यवसानाभावात् ।
१३३ आधिक्यमुपमेयस्योपमानान्यूनताऽथवा ॥१०५॥ व्यातरेका
१३४ एक उक्तेऽनुक्ते हेतौ पुनस्विधा ।
___चतुर्विधोऽपि साम्यस्य बोधनाच्छन्दतोऽर्थतः ॥ १०६ ॥ वदने वृषदंशकस्य बिडालस्य वदनं मुखं तत्र । वृषदंशक आखुभुक् ।' इत्यमरः । क्षिपसि । मृगादनरदने मृगादनस्य मृगभक्षकस्य तरक्षो रदनं तत्र । 'तरक्षुस्तु मृगादनः ।' इत्यमरः । मृगम् । अर्पयसि। महिषविषाणे महिषशृङ्गे । तुरगम् । वितरसि । कस्यापि महतः शिष्यं संसारत उपरमयितुमिच्छोरुक्तिरियम् । पज्झटिकावृत्तम् , 'प्रतिपदयमकितषोडशमात्रा नवमगुरुत्वविभूषितगात्रा । पज्झटिकाया एष विवेकः क्वापि न मध्यगुरुगण एकः ॥' इति च तल्लक्षणम् ॥ १७६ ॥'
उदाहृते निदर्शनां निरूपयति-इहोदाहृते पद्ये ।-बिम्बप्रतिबिम्बताऽऽक्षेपं बिम्बं प्रकृतमुपमेयं भोगेषु चित्तनिधानरूपम् , प्रतिबिम्बमप्रकृतमुपमानं मृगादनवदनादिषु शुकक्षेपादिरूपं च तयोर्भावस्तत्ता तस्या आक्षेपः । कल्पनयाऽङ्गीकारस्तम् । विना । वाक्यार्थापर्यवसानं वाक्यार्थस्योदाहृतपद्यरूपवाक्यतात्पर्य्यस्यापर्यवसानं सम्ब. न्धोपपत्त्याऽसिद्धान्तः । 'अतो निदर्शनेय'मिति शेषः । यत्रयत्र बिम्बप्रतिबिम्बभावस्य सत्यां कल्पनायामेव वाक्यार्थः सङ्गच्छते तत्रैव निदर्शनायाः स्वीकारादिति तत्त्वम् । ननु प्रकृताप्रकृतयोबिम्बप्रतिबिम्बत्वेन दृष्टान्त एवायं किन्न स्यादित्याशङ्कयाह-दृष्टान्ते । तु । पर्य्यवसितेन समुपपन्नसम्बन्धतयाऽभिमतेन । वाक्यार्थेन तदभिन्नादिति यावत् । अभेदे तृतीयेयम् । सामर्थ्यात् । बिम्बप्रतिबिम्बताप्रत्यायनं सादृश्यस्य ज्ञापनम् । तथा च-यत्र प्रकृताप्रकृतयोर्बिम्बप्रतिबिम्बत्वमाक्षिप्यैव वाक्यार्थोपपत्तिः सा निदर्शना, यत्र पुनर्वाक्यार्थोपपत्त्यनन्तरमेव प्रकृताप्रकृतयोर्बिम्बप्रतिबिम्बत्वोपपत्तिः स दृष्टान्त इत्यनयोर्भेदात्, प्रकृते च दृष्टान्तलक्षणासम्भवात् एतल्लक्षणसम्भवाच्च निदर्शनैवेति -निष्कृष्टोऽर्थः । नन्वेवं दण्डापूपन्यायेन अर्थापत्तिरेव स्वीक्रियतामित्याशङ्कयाह-इयं निदर्शना । अर्थापत्तिः । अपि । न । हेतुं निर्दिशति-तत्र तस्यामर्थापत्तावित्यर्थः । 'हारोऽयं हरिणाक्षीणाम'इत्यादौ । आदिपदेन 'लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः ॥' इति ग्रहणम् । सादृश्यपर्यवसानाभावात् । अत्र च सादृश्यपर्यवसानमिति निदर्शनैवेयम्, इति सिद्धम् । अथ-अत्रैकस्य प्रकृतस्यानेकेषां प्रकृतानामन्वयित्वेन मालारूपात्वमित्यपि बोध्यम् ।
व्यतिरेकं लक्षयति-१३३ उपमानात उपमानापेक्षया । उपमानं चात्र प्रसिद्वमेव प्राह्यम् । उपमेयस्य आधिक्यम् । अथवा । न्यूनता न्यूनत्वम् । व्यतिरेकः । व्यतिरेचनं व्यतिरिक्तत्वेन भवनम् इति व्यतिरेकः, प्रकृते च उपमानात् उपमेयस्य, उपमेयाद्वोपमानस्य, सोऽपि आधिक्यकृतो न्यूनत्वकृतश्च, तत्र-यत्र उपमानादुपमेयस्याधिक्ये व्यतिरेकस्तत्रोपमेयापेक्षयोपमानस्य न्यूनत्वम् , यत्रोपमानांदुपमेयस्य न्यूनत्वे व्यतिरेकस्तत्र उपमेयापेक्षयोपमानस्याधिक्यम्, इति लाघवात्सुतीम्-आधिक्यमित्यादि । उत्कर्षापकर्षभावश्च न रूपके, न वोपमायां,नापि परिणामादाविति विभाव्यम् ॥ १०५॥
अस्य प्रभेदान्निर्दिशति-स व्यतिरेकः । च । १३४ हेतौ उपमानादुपमेयस्योपमेयाद्वोपमानस्योत्कर्षसाधके । उक्ते । एक एकविधः । अनुक्ते । पुनः। विधा, उपमेयाधिक्ये तस्योपमेयमात्रोत्कर्षसाधकत्वेनोपमानमात्रापकर्षसा. धकत्वेनोपमेयोत्कर्षपूर्वकोपमानापकर्षसाधकत्वेन च;उपमानाधिक्ये पुररुपमानमात्रोत्कर्षसाधकत्वेनोपमेयमात्रसाधकत्वेनोपमानोत्कर्षपूर्वकोपमेयापकर्षसाधकत्वेन च; त्रिविधत्वात् । इत्येवम्-चतुर्विधः। अपि । शब्दतः शब्दात् । अर्थतोऽर्थात् ।