________________
रुचिराख्यया व्याख्यया समेतः ।
यथा वा
'जन्मेदं वन्ध्यतां नीतं भवभोगोपलिप्सया । काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया ॥ १७३ ॥ अत्र भवभोगलोभेन जन्मनो व्यर्थताऽऽनयनं काचमूल्येन चिन्तामणिविक्रय इवेति पय्यैवसानम् । एवम् -
'क सूर्य्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ १७४॥' अत्र मन्मत्या सूर्यवंशवर्णनमुडुपेन सागरतरणमिवेति पर्य्यवसानम् । इयं च क्वचिदुपमेयवृत्तस्योपमानेऽसम्भवेऽपि भवति । यथा
परिच्छेदः ]
२३९
'योऽनुभूतः कुरङ्गाक्ष्यास्तस्या मधुरिमाधरे । समास्वादि स मृद्वीकारले रसविशारदैः ॥ १७५ ॥१ अत्र प्रकृतस्याधरस्य मधुरिमधर्मस्य द्राक्षारसेऽसम्भवात् पूर्ववत्साम्ये पर्यवसानम् । मालारूपाप्येषा, यथा मम --
'क्षिपसि शुकं वृषदंशकवदने मृगमर्पयसि मृगादनरदने । वितरसि तुरगं महिषविषाणे निदधच्चेतो भोगविताने ॥ १७६ ॥ '
.
प्रकारान्तरेणोदाहर्तुमाह-यथा । वा - ' इदम् । जन्म । भवभोगोपलिप्सया भवः संसारस्तस्य भोगस्तस्य उपलिप्सा लम्पटता तया । वन्ध्यतां निष्फलताम् । नीतम् । हन्त । मया तथा जन्म वन्ध्यतां नीतवतेति भावः । काचमूल्येन | चिन्तामणिस्तदाख्यं मनोरथपूरकं रत्नम् । हन्त कष्टम् । विक्रीतः । वीतरागस्येयमुक्तिः ॥ १७३॥' उदाहृतमर्थं निर्दिशति - अत्रेत्यादिना । स्पष्टम् । इदं तु बोध्यम् - पूर्वत्र यद्वाक्यार्थस्य तद्वाक्यार्थस्य च सत्त्वेनानेकवाक्यगतत्वम्, अत्र पुनर्यत्तदोरभावेऽपि पूर्वार्धोत्तरार्द्धयोर्वाक्ययो रेवानैक्यम् । इति ।
प्रसिद्धोदाहरणमपि स्मारयति - एवम् -'सूर्य्यप्रभवः सूर्यः प्रभव उत्पत्तिस्थानं यस्य तादृशः । वंशः । क? अल्पविषयाऽल्पो विषयो ज्ञेयोऽर्थो यस्याः सा । मतिर्बुद्धिः । च । क ? ( क्कशब्दद्वयमिदं महदन्तर सूचकम् ) । दुस्तरम् । सागरम् । मोहात् अज्ञानात् । उडुपेन चर्मावनद्धवंशपात्रेण 'चर्मावनद्धमुडुपं लवः काष्ठकरण्डवत् ।' इति सज्जनः । तितीर्षुस्तरितुमिच्छुः । अस्मि । रघुवंशस्येदं पद्यम्, स्वौद्धत्यमपहर्तुकामस्य कालिदासस्येयमुक्तिः ॥ १७४ ॥'
उदाहृतमर्थ निर्दिशति - अत्रेत्यादिना । स्पष्टम् । इदं तत्त्वम् - सूर्यप्रभवस्यास्य रघुवंशस्यातिविस्तृततया सर्वथा गणनमपि न सम्भवति, तत्पुनः तस्य मदीययाऽनया सुकुमारया बुद्धया वर्णनं नितान्तमसम्भवम्; इत्येवं प्रस्तूय 'तितीर्षु' रित्यादि प्रस्तुतम् अनयोश्च परस्परमसम्बद्धत्वमेव उडुपेन सागरतरणमिव मदीयया बुद्ध्या सूर्यप्रभव ( रघु ) वंशवर्णनमसम्भवमिति बिम्बप्रतिबिम्बत्वं कल्पयति । इति ।
एवं प्राचां निदेशानुसारं भेदद्वयमुदाहृत्य नव्यसिद्धान्तेन भेदान्तरमुदाहर्तुकामस्तावदाह - इयं निदर्शना । च । क्वचित् । उपमेयवृत्तस्योपमेयस्य वृत्तं धर्मस्तस्य । उपमाने । असम्भवे । अपि । भवति सम्भवति । यथा'तस्याः । कुरुङ्गाक्ष्या मृगलोचनायाः कान्तायाः । अधरे । यः । मधुरिमा माधुर्य्यम् । अनुभूतः । स 'मधुरिमे 'ति शेषः । रसविशारदै रसे आखादने विशारदाश्चतुरास्तै, रसमर्मज्ञैरिति भावः । मृद्वीकारसे मृद्वीकाया द्राक्षाया. रसस्तत्र । 'मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च ।' इत्यमरः । समास्वादि ॥ १०५ ॥
उदाहृतमर्थं सूचयति - अत्र । प्रकृतस्योपमेयस्य । अधरस्य ' तत्सम्बन्धिन' इति शेषः । मधुरिमधर्मस्य । द्राक्षार से 'प्रस्तुते ( उपमाने )' इति शेषः । असम्भवात् । पूर्ववत् पूर्वमुदाहृते पद्य इव । साम्ये बिम्बप्रतिबिम्बत्वकल्पने । पय्र्यवखानम् । इदं तत्त्वम्-अधरद्राक्षामधुरिम्णोर्भिन्नत्वेनाधरमधुरिम्णो द्राक्षारसमधुरिमरूपेणासम्भवेऽपि रसानुभवितृ सूचितरीत्या सम्भवसूचनमसम्बद्धं माभूदित्यनयोः साम्यं कल्पयति । इति ।
उपमेयवृत्तस्यैव तूपमेयेऽसम्भवे नेयं, किं तूपमैव; यथा- 'मुखं ते चन्द्रम;स्पर्धि पङ्कजद्वेषि लोचनम् ॥' इति । अत्र हि स्पर्द्धाद्वेषयोश्चेतनविशेषधर्मत्वान्मुखलोचनयोरसम्भवादुपमायां पय्र्यवसानम् ।
भेदान्तरं दर्शयितुं प्रवृत्त आह-एषा | मालारूपा । अपि 'इय मिति शेषः । यथा । मम-भोगविताने भोगानां विषयाणां वितानं विस्तारस्तत्र । चेतः । निदधत् । 'त्व' मिति शेषः । शुकं तदाख्यं पक्षिणम् । वृषदंशक