________________
परिच्छेद ।
रुचिराख्यया व्याख्यया समेतः। १३५ सहार्थस्य बलादेकं यत्र स्यावाचकं द्वयोः ।
सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् ॥ १०८॥ अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला, कार्यकारणपौर्वापर्यविपर्ययरूपाचा अभेदाध्यय. सायमूलाऽपि श्लेषभित्तिका, अन्यथा च । क्रमेणोदाहरणम्___ 'सहाधरदलेनास्या यौवने रागभाक् प्रियः।' । रुपमानस्योत्कृष्टत्वम् , तव्यतिरेकेणोपमेयस्य नलस्यापकृष्टत्वं च प्रतीयते । अत्र दूतयोरुपमानोपमेयभावविलक्षणत्वेऽ. प्युपमानस्यैवाधिक्यम्, नतपमेयस्य ।' इति ।
अयं पालोक:-क्षीणःक्षीणोऽपी'ति पद्यमुपमानाधिक्यव्यतिरेकानुगृहीतमित्यलङ्कारसर्वस्वकाराणां सिद्धान्तः, एते हि-शशिनः क्षैण्येऽपि पुनर्वृद्धिरित्यस्योपमानस्योत्कर्षः, यौवनस्य क्षैण्येऽसत्त्वमेव, किं पुनस्तस्योत्थानम् ; इत्यस्योपमेयस्यापकर्षः। एवं सत्युपमानापेक्षयोपमेयन्यूनत्वमुपमेयापेक्षयोपमानाधिक्यं चेति तद्पोऽत्र व्यतिरेकः । इत्याहुः । प्रकाशानुयायिनां पुनः-उपमेयादुपमानाधिक्यरूपो व्यतिरेक एव न, का पुनस्तत्सत्त्वासत्त्वचर्चा ? 'क्षीणः क्षीणोपी' त्यपि पधमुपमेयाधिक्यव्यतिरेकानुगृहीतमेवेति सिद्धान्तः, एते हि-अत्र न शश्यपमानभूतः, न वा यौवनमुपेमेयभूतम् , उभयोः सादृश्यस्यैवाविवक्षितत्वात् । किन्तु तत्तदोः क्षीणत्वे उपमानोपमेयभूते, शशिक्षीणत्वस्योपमानत्वेन यौवनक्षीणत्वस्यो. पमेयत्वेन च विवक्षितत्वात् । एवं यौवनक्षीणत्वस्यापुनरावर्तनशीलतयाऽऽधिक्य, शशिक्षीणत्वस्य पुनर्निवर्तनीयतया न्यूनत्वम् । इत्युपमेयस्यैवोपमानापेक्षयाऽऽधिक्यम् । इत्याहुः । क्षीणत्वं दोषस्तस्याधिक्यमपकर्षावहत्वेन स्वानुगृहीतस्य न्यूनत्वकृते एवेत्युपमेयस्य यौवनस्य न्यूनत्वम्, नचात्र यौवनमुपमेयभूतमेव नेति वाच्यम् , क्षीणत्वस्य यौवनसम्बन्धित्वेन पृथनिर्देशाभावात् , क्षीणत्वशालितयैव यौवनस्य च निर्देशात् । अत्रैवापित्वोरप्यानुकूल्यम् । इति कविराजानुसारिण आहुः । वयं तु ब्रूमः-अस्तु वा तत्र सर्वत्रानैकान्त्यम् , किंतु-'असौरभं मुखं तस्या नाजवत् सुरभि श्रितम् ।' 'सुचारुरूपं वदनं मृगीदृशां सुधानिधित्वेन कलाऽधिरभ्यभूताकुचौ सुवर्णावपि नामलाननौ सुवर्णकुम्भाविव हन्त सर्वतः॥" 'सुरम्यमपि ते वकं चन्द्रश्चन्द्रः सुविश्रुतः ।' इत्यादौ न कथमपि सहृदयेतरेणोपमेयाधिक्यमभिधातुं शक्यते । इत्युपमेय. मात्राधिक्येऽस्य स्वीकारः सर्वथाऽऽग्रहमूलः । इति दिक् ।
सहोक्तिं लक्षयति-१३५ यत्र । सहार्थस्य सहार्थकस्य शब्दस्य सह समं साध साकमित्याद्यन्यतमस्य पदस्येति यावत् । बलात् सामर्थ्यात् । एकं 'पद'मिति शेषः । द्रयो रथयो'रिति शेषः । वाचकं लक्षणया बोधकम् । तेन-एकस्यार्थस्य वाचकम् अपरस्यार्थस्याक्षेपकमिति फलितोऽर्थः । यद्वा-एकं 'वस्तु'इति शेषः, द्वयोः प्रधानाप्रधानयोः, वाचकं लक्षणयाऽनुबन्धि । अन्यत्पूर्ववत् । इत्यर्थः । स्यात् । सा ।यदा मूलभूतातिशयोक्तिर्मूलभूता विच्छित्तिविशेषाधायकतयोपस्कारिकातिशयोक्तिर्यस्यास्तादृशी । तदा-सहोक्तिः । 'अलङ्कृतिरिति व्यपदिश्यत'इति शेषः । भवेत् ॥१०८॥
अस्या उपस्कारिकामतिशयोक्तिं विशिष्य निर्दिशति-अतीत्यादिना । स्पष्टम् । अत एवोक्तं पण्डितराजैः-'गुणप्रधानभावावच्छिन्नसम्बन्धः सहोक्तिः।' इति सूत्रयित्वा 'हृद्यत्वं चालङ्कारसामान्यलक्षणगतं सकलालङ्कारसाधारणमेवेत्य. सकृदुक्तम् । तच्चात्र-'कार्यकारणपौर्वापर्य्यविपर्ययात्मिकया श्लेषभित्तिकाभेदाध्यवसानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्याऽनुप्राणने भवतीति वदन्तीति । एवं च-अत्रातिशयोक्तिमूलक एव चमत्कार इति सूचितम् । अत्रेदं तत्त्वम्-'सहयुक्तेऽप्रधाने ।' २।३।१९ इति सूत्रेण यत्र तृतीया विधीयते, यत्र वा वृद्धो यूना...।' १।२।६५ इति निर्देशात् तत्रास्य सम्भवः, गुणप्रधानभावावच्छिन्नयोः शाब्दार्थमादयैकधर्माभिसम्बन्धस्य तत्रैवावस्थितेः । एतेन'शशिना च निशा निशया च शशी शशिना निशया च विभाति नभः । पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ॥ मणिना वलयं वलयेन मणिर्मणिना वलयेन विभाति करः । भवता च सभा सभया च भवान् भवता सभया च विभाति गृहम् ॥ इत्यादौ नायं । तेन तृतीयाया अनुपपत्तेः, 'हैतौ' । २।३।२३ इति सूत्रेण उपपत्तेः । 'पुत्रेण सहागतः पिता'इत्यादौ पुनश्चमत्काराधायिकाया अतिशयोक्तेरभावान्नायम् । 'चैत्रमैत्री सह गच्छतः' इत्यादी अपि नायम् , सहार्थसामर्थ्याभावेऽपि उभयान्वयित्वोपपत्तेः । इति दिक् ।
उदाहरति-क्रमेणेत्यादिना । स्पष्टम् । 'सहेत्यादि । व्याख्यातपूर्वमिदम् ॥'