________________
mr
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । आद्यशब्दाद्विप्रलम्भाद्याः। उक्तं हि'संयोगो विप्रयोगश्च साहचर्य्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति ।
'सशङखचक्रो हरिः' इति शङ्खचक्रसंयोगेन हरिशब्दो विष्णुमेवार्थमभिधत्ते, 'अशङ्खचको चानेके चेत्यनेके, अर्थों चार्थाश्चेत्यर्थाः । एवं चानेकार्थशब्दयो: 'सरूपाणामेकशेषः' इत्येकशेषे रूपमिदम् । शब्दस्य । एकत्रैकस्मिन् विवक्षितरूप इति यावत् । 'सप्तम्यास्त्रल्' ५।३।१० इति त्रल् । अर्थे वाच्यार्थे सतीत्यर्थः । अन्यधीहेतुरन्यस्यानियन्त्रितस्याविवक्षितस्यार्थस्य धीनिं तस्या हेतु: कारणं तद्रूपेत्यर्थः । सा प्रसिद्धा । अभिधाऽऽश्रयाऽभिधाऽऽश्रयो मूलं यस्याः सा । व्यञ्जना । 'मते'ति शेषः । अयम्भाव:-प्राकरणिकापरपर्सायं विवक्षितमर्थ बोधयित्वाऽभिधायां विरतव्यापारायां सत्यां तदितरमर्थ बोधयितुं प्रवृत्ता शक्तिर्व्यञ्जना, असौ चाभिधाऽन्तरमाश्रित्यवोत्तम्भितशरीरेत्यस्या अभिधाऽऽश्रयत्वम् । ननु संयोगादिना नियन्त्रितस्याप्राकरणिकस्यार्थस्य बोधनार्थ प्रवर्त्तमानाया व्यञ्जनायाः कथमभिधाऽन्तरसाचिव्यमिति चेत्, संयोगादिनाऽभिधायाः स्वातन्त्र्येणार्थान्तरबोधने नियमनात् । न चाभिधैव प्राकरणिकमप्यर्थ बोधयतु किं व्यञ्जनया, किं वा संयोगादिना तन्नियन्त्रणस्य कल्पनात् इति शङ्कयम् , अभिधयैव द्वितीयस्यार्थस्य बोधे प्राकरणिकत्वाप्राकरणिकत्वभेदापह्नवद्वारा प्राकरणिकस्येवाप्राकरणिकस्याप्यर्थस्याखादानुभवावैषम्ये तत्र च सहृदयसाक्षिकस्यास्वादानुभवभेदस्यापलपितुमशक्यतया बोधनाय वैज़ात्यस्यावश्यम्बोध्यत्वेन तस्य च कारणविशेषाधीनशक्तिकतया व्यञ्जनास्वीकारौचित्यात् , अभिधयैव उभयोरर्थयोर्बोधे प्राकरणिकस्याप्राकरणिकत्वेऽप्राकरणिकस्य च प्राकरणिकत्वेऽतिप्रसङ्गव्यावृत्तये संयोगादिना तनियन्त्रणस्य अवश्य वाच्यत्वात् । इति दिक् ॥१७॥
कारिका सुगमयितुं तत्कठिनार्थीशभूताद्यपदार्थ लक्षयति-आद्यशब्दादित्यादिना ।
आधशब्दात्संयोगाद्यैरित्यंशभूतस्याद्यशब्दस्य प्रयोगादिति भावः । विप्रलम्भाद्या विप्रलम्भसाहचर्यादय इत्यर्थः । 'ग्राह्या इति शेषः।
ननु के ते, कथं वा तेषामभिधानियामकत्वमभ्युपगच्छेमेत्याशङ्कयाह-उक्तं हीत्यादि । हि यतः । उक्तंभर्तृहरिणा भगवता वाक्यपदीय'इति शेषः । 'नहि प्रतिज्ञामात्रेणार्थसिद्धि' रिति तद्वाक्यमवतारयति-संयोगो..इत्यादिना ।
'संयोगःप्रसिद्धः सम्बन्धः । विप्रयोगो विश्लेषः । च । साहचर्य परस्परापेक्षित्वं, सहावस्थानं वा। विरोधिता प्रसिद्ध वैरं, सहानवस्थानं वा । अर्थश्चतुर्थीविभक्तितुमुन्प्रत्ययादि बोध्य प्रयोजनम् । प्रकरणं प्रसङ्गः, वक्तश्रोतृबुद्धिस्थविषयत्वमिति यावत् । लिई संयोगातिरिक्तसम्बन्धेन परपक्षव्यावृत्तो धर्मः, अन्यस्य च सानिध्येनापरस्य विवक्षिताथतोपस्थापकस्येत्यर्थः । शब्दस्य । सन्निधिः सन्निधानम् । 'शब्दस्यान्यस्य सन्निधिनियतार्थकशब्दान्तरसामानाधिकरण्य' मिति तु प्राश्वः । 'देवः पुरारि' रित्यत्र नियतार्थत्वं पुनः 'कस्येति त एव जानन्ति । सामर्थ्य कारणत्वम् ।
औचिती योग्यता । देशो रहोवनादिः । कालो वसन्तादिः समयः । व्यक्तिः पुंल्लिङ्गत्वस्त्रीलिङ्गत्वादिरूपं चिह्नम् । स्वरादय उदात्तादिनामान: खराः । आदिपदेनाभिनयापदेशी गृह्येते, तत्राभिनयः साक्षादिवाकारादिप्रदशिका हस्तादिक्रिया, अपदेशोऽभिमतनिर्देशः । शब्दार्थस्य शब्दस्यानेकार्थस्य शब्दस्यार्थस्तस्य । अनवच्छेदे निश्चयाभावे । विशेषस्मृतिहेतवो विशेषस्य स्मृतिः स्मरणं तस्या हेतवः। 'भवन्ति' इति शेषः॥' इति । इदमुक्तम्-‘अनेकार्थस्य शब्दस्य कतरोऽर्थों विवक्षितः ? इति सन्देहापनोदाय संयोगाद्यास्तन्नियामकाः खीक्रियन्ते, एते ह्यविवक्षितमथै निरुन्धाना विवक्षितमेवाथै नियमेनोपस्थापयन्ति । एषां क्वचित् पार्थक्येन क्वचिच्चान्यथा नियामकत्वम् । एवं सति यत्र संयोगादीनां नियन्त्रणाभावस्तत्र श्लेषस्यावसरः प्रसरति, यत्र पुनर्नियन्त्रणेऽपि अविवक्षितोऽर्थः प्रस्फुरति, तत्र व्यअनाया अवसरः, किन्वेषाऽभिधामूला । इति ॥' इति ।
कथं संयोगादयोऽभिधां नियमयन्तीति सन्देहापनोदायाह- सशङ्खचक्रो। हरिः।' इत्यादि । 'सशङ्खचक्र: शङ्खचक्राभ्यां पाञ्चजन्यसुदर्शनाभ्यां सह वर्तत इति तथोक्तः । न तु शङ्खचक्रेण मूढसमुदायेन सह वर्तत'इति, हरिपदार्यन तस्यार्थस्य स्फुटमसङ्गतेः । 'सहस्य सः सज्ञायाम्।' ६।३।७८ इति सः । 'शङ्खः कम्बो निधौ मूर्खे भालास्थिनखरेषु च ।' इति गोपालः । 'चक्रः कोके पुमान् क्लीबं व्रजे सैन्यरथाङ्गयोः ।..' इति मेदिनी। हरिर्विष्णुः । 'हार