________________
६२
तत्र
साहित्यदर्पणः ।
२७ अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा ॥ १६ ॥
अभिधामूलामाह
[ द्वितीय:
२८ अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते ।
एकत्रार्थेऽन्यथीहेतु र्व्यञ्जना साऽभिधाऽऽश्रया ॥ १७ ॥
शब्दस्य सकृदेवार्थावगमकत्वं, सकृदेव तस्य व्यापारोन्मुखत्वात् । नहि सकृद्वयापृतस्य शब्दस्यासकृद्वयापारः सम्भवति, तस्य तत्रैव हतशक्तिकत्वात् । घटाद्याकारेण च परिणता बुद्धिः घटादिमेवावगमयति, न तु पटादिम्, तदाकारेण तस्या अनवस्थानात् । पचनाद्यात्मिका चैवं क्रिया स्वानुकूलं व्यापारं दर्शयित्वा क्षीणा न भोजनादि स्वप्रतिकूलं व्यापारं दर्शयितुमीष्टे । अतः शब्दानामेकैकव्यापारजनकत्वादमिधाऽऽद्यासु स्वस्वव्यापारं सकृदुद्भाव्य क्षीणासु कथं ता एव व्यापारान्तमुद्भावयेयुः ? एवं सति वृत्त्यन्तरमेव व्यापारान्तरे हेतुः तत्र, या कल्पनीया वृत्तिः सा व्यञ्जना नाम, असौ चाभिधाssदिवन्न शब्दार्थमात्र निष्ठा, किन्तु प्रकृतिप्रत्ययादिनिष्ठाsपि । इति । इदच बोध्यम्- 'अन्नम्भुङ्क्ष्य' इत्यादिशब्दः स्वार्थ श्रोतुरन्तः स्थापयित्वा विरमति, तदर्थाकारा बुद्धिरन्नभोजनक्रियायां श्रोतारं प्रवर्त्य विरमति, साऽपि क्रिया स्वव्यापारं प्रदर्य विरमति, तदेषां यथाविरामानन्तरं न व्यापारः, तथाऽभिधाऽऽदीनामपि स्वस्वव्यापारानन्तरं विरामः, न पुनर्व्यापारान्तरोन्मुखत्वम् । व्यञ्जना तु सर्वाभ्यस्ताभ्यो विलक्षणा, न केवलं सा शब्दवृत्तिरर्थवृत्तिर्वा, किन्तु चेष्टाssदिवृत्तिरपि । तत्र शब्दानां पदपदांशादिभेदादनेकभेदा शब्दवृत्तिः, असौ यथा'न्यक्कारो ह्ययमेव.. ' इत्युदाहृते पधे, अर्थवृत्तिञ्चार्थानां वाच्यादिभेदात्रिविधा, यथा- 'माए ! घरोवअण्णं अज्ज हु णत्थिति साहिअं तुमए । ता भण किं कर णिज्जं ? एमेअ ण वासरो ठाई ॥' इति । स्वैरिण्या उक्तिरियम्, अतो वाच्योर्थः 'उपपतिसङ्गमार्थिनीयमिति श्रोतारं प्रत्याययति, लक्ष्यवृत्तिर्यथा - 'साहन्ती सहि ! सुहअं खणे खणे दूम्मिआसि मज्झए । सब्भावणेहकर णिज्जसरिसअं दाव विरइअं तुमणो' इति, नायकेन क्रीडित्वाऽऽगतां दूर्नी प्रत्युक्तिरियम् । अत्र सख्यादीनां पदानां विरुद्धो लक्ष्योऽर्थः सम्बोध्याया अविश्वसनीयत्वं नायकस्य चापराधित्वं व्यञ्जयति । व्यङ्गथवृत्तिर्यथा - 'उअ णिच्चलणिप्पंदौ । इत्युदाहरिष्यमाणे, चेष्टावृत्तिरप्यत्रैवोह्या, यथा वा - ' गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम् । दरकुण्डलताण्डवं नतभ्रूलतिकम्मामवलोक्य घूर्णिताऽऽसीत् ॥' इति, सखायं प्रत्युक्तिरियम् । अत्र च निहननादिना स्वागमनादिगुरुजनतन्त्रत्वाद्यवगम्यते । इति दिक् । अन्यत्सर्वमवदातम् । इति ।
अथ व्यञ्जनाया द्वैविध्यं दर्शयति तत्रेत्यादि ।
तत्र तास्वनेकविधासु मध्य इति यावत् । २७, अभिधालक्षणामूलाऽभिधामूला लक्षणमूला चेत्यर्थः । शब्दस्य शब्दसम्बन्धिनी शब्दवृत्तिरिति यावत् । व्यञ्जना द्विधा द्विविधा' ज्ञेये 'ति शेषः ॥ १६ ॥
तत्रायां लक्षयितुं प्रतिजानीते - तत्रेत्यादिना ।
अभिधामूलां शब्दवृत्ति व्यञ्जना' मिति शेषः । आह-२० अनेकार्थस्येत्यादिना ।
२० संयोगाद्यैः संयोगविप्रलम्भादिभिरित्यर्थः । नियन्त्रिते नियन्त्रणां प्रापिते नियततयोपस्थापिते इति यावत् । अनेकार्थस्यानेके विवक्षिताविवक्षिता अर्था वाच्या यस्य तस्य । अनेकत्र गृहीतशक्तिकस्येत्यर्थः । अनेकौ
१ 'मातः ! गृहोपकरणम् अथ खलु नास्तीति साधितं त्वया । तद्भण किं करणीयम् ? एवमेव न वासरः स्थायी ॥' इति संस्कृतम् । अत्र च गाथाछन्दः । २ साधयन्ती सखि ! सुभगं क्षणेक्षणे दूनाऽसि मत्कृते । सद्भाव स्नेहकरणीयसहशकं तावद् विरचितं त्वया ॥ ' इति संस्कृतम् । अत्र च गीतिश्छन्दः । ३ ' पश्य निश्चलनिष्पन्दा..' इति संस्कृतम् । 'भिसिणीपत्तम्मि रेहइ बलाआ । णिम्मलमरगअभाअणपरिहिआ संखसुप्ति व्व ॥ ' इत्यवशिष्टस्यांशस्य तु 'बिसिनीपत्रे राजते बलाका | निर्मूलनरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥' इति संस्कृतम् । आर्य्या छन्दः । ४ भामिनीविलासस्येदं पद्यम् । औपच्छन्दसिकंवृत्तम् ।