________________
परिच्छेदः 1
रुचिराख्यया घ्याख्यया समेतः।
अथ व्यञ्जना
२६ विरतास्वभिधाऽद्यासु ययाऽर्थों बोध्यते परः ॥ १५ ॥
सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च । । 'शब्दबुद्धिकर्मणां विरम्य व्यापाराभाव' इति नयेनाभिधालक्षणातात्पर्य्याख्यासु वृत्तिषु स्वस्वमर्थ बोधयित्वोपक्षीणासु ययाऽन्योऽर्थो बोध्यते, सा शब्दस्यार्थस्य चेष्टाऽऽदिकस्य (प्रकृतिप्रत्ययादेश्च ) च शक्तिर्व्यञ्जनगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम । धमिंगता धर्मगताश्चेति द्वैविध्ये द्वात्रिंशद्भेदाः,रूढिमूलानामष्टानां प्रयोजनमूलानां च द्वात्रिंशता मेलने चत्वारिंशत्त्वम्, एवं पुनश्चत्वारिंशद्भेदानां प्रत्येकं पदगततया वाक्यगततया च द्वैविध्येऽशीतिभेदाः । तत्र रूढिमूलाः पदगता लक्षणा अष्टौ, रूढिमूला वाक्यगता लक्षणाश्चाष्टाविति षोडशभेदा अव्यङ्गयाः । प्रयोजनमूला गूढव्यङ्गया अष्टौ, प्रयोजनमूला अगूढव्यङ्गचाश्चाष्टौ, इति षोडशभदा धम्मिगता धर्मगताश्चेति द्वैविध्ये द्वात्रिंशत् प्रकाराः, एताः पुनः पदगता वाक्यगताश्चेति द्वैविध्येन चतुःषष्टयः । षोडशानां चतुःषष्टीनां चासां मिलितानामशीतिभेदत्वम् । इति सर्वमवदातम् ।
एवं लक्षणां सप्रपञ्चं दर्शयित्वा व्यञ्जना दर्शयितुमुपक्रमते-अथेत्यादिना । अथ लक्षणां निरूप्य प्रदर्शनानन्तरम् । व्यञ्जना। 'निरूप्यत'इति शेषः । २६ विरतास्वित्यादिना ।
२६ अभिधाधास्वभिद्याऽऽद्या यासां (अभिधालक्षणातात्पर्य्याणा) तासु । वृत्तिष्विति शेषः। विरतासूपरतासु स्वखव्यापारपराङ्मुखामु सतीष्विति यावत् । यया। परोऽन्यो विलक्षण इति यावत् । अर्थः । बोध्यते न त्वभिधीयते, लक्ष्यतेऽभिप्राप्यते वेति शेषः । सा। शब्दस्य । अर्थादिकस्य । आदिना चेष्टादीनां ग्रहणम् । च । वृत्तिापारः शक्तिरिति यावत् । व्यञ्जना । नाम प्रसिद्धा अयम्भावः-संयोगादिभिर्नियम्यमाना सङ्केतितमर्थ प्रतिपादयितुं प्रभवति केवलं या साऽभिधा, अतः सङ्केतितव्यतिरिक्तार्थप्रतिपादिका वृत्तिर्व्यञ्जना, स्वव्यापारप्रतिपाद्याभिधाया विरतत्वात् , विरतायाश्च पुनरुत्थानासम्भवात् , एवं लक्षणाऽपि केवलम्मुख्यार्थस्य तात्पर्योपघातादिना बाधमुद्दिश्य रूढे: प्रयोजनाद्वा तत्सम्बन्धिनमपरमर्थ लक्षयति, विरमति च, अतो मुख्यार्थासम्बद्धमर्थान्तरं प्रतिपादयितुमीशाना व्यञ्जना, तस्मादियमेव 'गङ्गायां घोष' इत्यादौ मुख्यार्थबाधे लक्षणया तीरादौ घोषाद्यधिकरणत्वादिनोपस्थापिते तस्य तस्य शीतलत्वाद्यतिशयरूपं प्रयोजनमवगमयति । नहि शक्यार्थसम्बद्धस्यैवार्थस्योपस्थापकत्वात् प्रयोजनस्य च शक्यार्थासम्बद्धत्वाल्लक्षणायास्तदवगमकत्वं सम्भवति । अथैवमाभ्यां स्वं खमर्थमुपस्थापयत्स्वपि तेषु तेषु शब्देषु समष्टयाऽभिप्रायमुन्नेतुमप्रभवत्सूपस्थाप्यैव तात्पाऽपि निवर्त्तते । अतः समष्टया वाचिकैलाक्षणिकैर्वा तयोपस्थाप्यमानादभिप्रायावगमाद् व्यतिरिच्यमानं कमपि कमनीयं चमत्कारविशेषं प्रत्याययतीति व्यञ्जना नामान्यैव वृत्तिः । यथोक्तं ध्वनिकारैः-'प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥' इति । तदेवमानन्दस्येव व्यगाथस्य वाच्यत्वादिविलक्षणत्वात्सहृदयहृदयङ्गमत्वमवदातम् । इति ॥ १५ ॥
तदेव विवृणोति- 'शब्द...'इत्यादिना ।
शब्दबुद्धिकर्मणां शब्दस्य बुद्धेः (ज्ञानस्य) क्रियायाश्चेत्यर्थः । विरम्य 'स्थिताना' मिति शेषः । व्यापाराभावो व्यापारान्तरे शक्त्यभाव इत्यर्थः। इति । नयेन । अभिधालक्षणातात्पर्य्याख्यासु । तिसृषु । वृत्तिषु । स्वं स्वं स्वकीयं स्वकीयम् । 'स्वः स्यात् पुंस्यात्मनि ज्ञातौ त्रिष्वात्मीये धनेऽस्त्रियाम् ।' इति मेदिनी। 'आनुपूये द्वे वाच्ये' इति द्विर्भावः । अर्थ वाच्यं लक्ष्यं तात्पर्य्य वेति भावः । बोधयित्वा । उपक्षीणासु विरतव्यापा-. रासु सतीवित्यर्थः । यया । अन्यो भिन्नो वाच्यादिभ्यो व्यतिरिक्तः । अर्थः । बोध्यते । सा शब्दस्य वाचकादिरूपस्य । अर्थस्य वाच्यादिरूपस्य । च तथा चेष्टादिकस्य।आदिपदेन देशकालादीनां ग्रहणम् । (प्रकृतिप्रत्ययादेः। प्रकृत्यादेः शब्दत्वेऽपि गोबलीवन्यायेन भेदो बोध्यः । आदिपदेन निपातवचनादीनां ग्रहणम् । तत्र प्रकृति म अर्थावगमहेतुः प्रत्ययविधानावधिभूतः शब्दविशेषः, प्रत्ययः पुनः प्रकृति निमित्तीकृत्य विधीयमानः स्वार्थावगमकः शब्दविशेषः । तथोक्तं-'यः शब्दः स्वेतरस्यार्थे स्वार्थस्यान्वयसाधने । यदपेक्षस्तयोः पूर्वी प्रकृतिः, प्रत्ययः परः ॥' इति । च।) शक्तिः । व्यञ्जना । नाम । इदं निवेदनीयम्-'सकृदुचरितः शब्दः सकृदेवार्थमवगमयतीति नयेन सकृदुश्चरितस्य