________________
साहित्यदर्पणः ।
[द्वितीयः२४ तदेवं लक्षणाभेदा-श्चत्वारिंशन्मता बुधैः ॥ १४ ॥ रूढावष्टौ, फले द्वात्रिंशत्, इति चत्वारिंशद्भेदाः । किश्च
२५ पदवाक्यगतत्वेन प्रत्येकं ता प द्विधा ।। ता अनन्तरोक्ताश्चत्वारिंशद्भेदाः । तत्र-पदगतत्वे, यथा-'गङ्गायां घोषः' इति । वाक्यगतस्वे, यथा-'उपकृतं बहु तत्र...'इत्यादौ
एवमशीतिप्रकारा लक्षणाः। विशेषावधारणायासां सङ्ख्यामनुस्मारयति-२४ तदेवमित्यादिना ।
२४ तत् तस्मात् । एवम् । बुधैरालङ्कारिकैः । चत्वारिंशत् । मताः स्वीकृताः । ‘स्मृता' इति पाठान्तरम् ॥ १४ ॥
आसामपि पुनद्वैविध्यं दर्शयति-२४ तदेवमित्यादिना । स्पष्टम् । विविच्योक्तमर्थ स्पष्टयति-रूढावित्यादिना । स्पष्टम् । आसामपि द्वैविध्यमाह-किश्चेत्यादिना। किश्चान्यदपि वक्तव्यमस्तीत्यर्थः । किमित्याह- २५ पद.. इत्यादि ।
२५ ताः पूर्वमुक्ताश्चत्वारिंशद्भेदा लक्षणा इत्यर्थः । अपि । प्रत्येकं प्रतिभेदं कृत्वेत्यर्थः । पदवाक्यगतत्वेन पदगतत्वेन वाक्यगतत्वेन चेत्यर्थः । 'द्वन्द्वान्तं पदं प्रत्येकमभिसम्बध्यते'इति नयेन 'गतत्वेने ति पदवाक्ययोरुभयोरन्वेतीति बोध्यम् । द्विधा द्विप्रभेदाः । 'मता वुधः' इति तु पूर्वतोऽन्वेति । इदं बोध्यम्-यद्यपि अभिधाया इव लक्षणाया अपि पदधर्मत्वमेव, तथाऽपि यत्र वाक्यघटकेषु अनेकेषु पदेषु तस्याः सद्भावस्तत्र तस्यास्तादवस्थ्यमुफ्चर्यते । इति ।
सन्देहापनोदाय कारिकास्थं 'ता'इति पदं व्याचष्टे-ता इत्यादिना । स्पष्टम् । दिङ्मात्रमुदाहरति-तत्रेत्यादिना।
तत्र तयोर्लक्षणानां पदगतत्ववाक्यगतत्वयोर्मध्य इति यावत् । पदगतत्वे 'सती'ति शेषः । यथा-'लक्षणा' इति शेषः । 'गङ्गायां घोषः' इति । अत्र हि गङ्गापदस्यैव वसम्बन्धिनि त लक्षणा, न तु घोषपदस्यापि । तस्मादस्याः पदगतत्वमिति बोध्यम् । यद्यपि घोषपदस्य मत्स्यादी लक्षणेति वक्तुं शक्यते, तथाऽपि तत्र वक्तुस्तात्पर्य्याभावान्नाङ्गीक्रियते, अङ्गीकारेऽपि पदगतत्वमक्षतम् । एवम्-'कुन्ताः प्रविशन्ती' त्याद्यन्यासामुदाहरणम्। इति च बोध्यम् । वाक्यगतत्वे । सतिसप्तमीयम् । 'पुनर्लक्षणा' इति शेषः । यथा-'उपकृतं बहु तत्र..'इत्यादौ। अस्यार्थः प्राक प्रतिपादितः । अत्र हि सर्वमपि वाक्यं विपरीतार्थलक्षकमिति वाक्यगतत्वम् । इति बोध्यम् ।
एवं लक्षणाभेदानुक्त्वा तत्सख्यां स्मारयति-एवमित्यादिना ।
एवं चत्वारिंशद्भेदानां द्वैविध्येनेत्यर्थः । अशीतिप्रकाराः । लक्षणाः। सम्पद्यन्त इति शेषः । तथाहि-रूढौ सारोपोपादानलक्षणा, यथा-'अश्वः श्वेतो धावती'ति' रूढौ सारोपलक्षणलक्षणा, यथा-'कलिङ्गः पुरुषो युध्यत' इति २, रूढौ साध्यवसानोपादानलक्षणा, यथा-'श्वेतो धावती'ति ३, रूढौ साध्यवसाना लक्षणलक्षणा, यथा-'कलिङ्गः साहसिक' इति, ४ रूढौ गौणी सारोपोपादानलक्षणा, यथा-'एतानि तैलानि हेमन्ते सुखानि'इति ५, रूढौ गौणी सारोपा लक्षणलक्षणा, यथा-'राजा गौडेन्द्रं कण्टकं शोधयती'ति ६, रूढौ गौणी साध्यवसानोपादानलक्षणा, यथा-'तैलानि हेमन्ते सुखानी'ति ७, रूढी गौणी साध्यवसाना लक्षणलक्षणा, यथा-'राजा कण्टकं शोधयतीति ८ इत्येवं रूढावष्टौ भेदाः । प्रयोजने सारोपोपादानलक्षणा, यथा-एते कुन्ताः प्रविशन्ती'ति१,प्रयोजने सारोपा लक्षणलक्षणा, यथा-'आयुर्घत'मिति२,प्रयोजने साध्यवसानोपादानलक्षणा, यथा-'कुन्ताः प्रविशन्तीति ३,प्रयोजने साध्यवसाना लक्षणलक्षणा, यथा--'गङ्गायां घोष'इति४, प्रयोजने गौणी सारोपोपादानलक्षणा, यथा-'एते राजकुमारा गच्छन्ती' ति ५, प्रयोजने गौणी सारोपा लक्षणलक्षणा, यथा-'गौबाहीक'इति ६, प्रयोजने गौणी साध्यवसानोपादानलक्षणा, यथा-'राजकुमारा गच्छन्तीति ७, प्रयोजने गौणी साध्यवसाना लक्षणलक्षणा, यथा-'गौर्जल्पतीति ८इत्येवमष्टौ प्रयोजनलक्षणाः, ताश्च प्रत्येकं गूढा अगूढाथेति द्वैविध्ये षोडश भेदाः, एताश्च प्रत्येक