________________
साहित्यदर्पणः।
[द्वितीय:हरिः' इति शङ्खचक्रविप्रयोगेन हरिशब्दो विष्णुमेव, “भीमार्जुनौ' इति भीमसाहचर्येण अर्जुनः पार्थमेव, 'कर्णार्जुनौ' इत्यर्जुनविरोधितया कर्णः पृथाया ज्येष्ठपुत्रमेव, 'स्थाणु वन्दे भवच्छिदे' इति , भवच्छेदनार्थेन स्थाणुः शिवमेव, 'सर्व जानाति देव' इति प्रकरणेन देवो भवन्तमेव, 'कुपितो मकरध्वज' इति कोपलिङ्गेन मकरध्वजः काममेव, 'देवः पुरारिः' इति देवशब्दसन्निधिना पुरारिः
विष्णौ यमे वह्नौ चन्द्रसिंहांशुजिष्णुषु ।..' इति गोपाल: । इति 'अत्रेति शेषः । शङखचक्रसंयोगेन शङ्खचक्रयो: संयोग: धाय॑धारकत्वरूपः सम्वन्धस्तेन । हरिशब्दः । विष्णु, विष्णुपदार्थम् । एव न तु यमाद्यर्थमिति भावः । अभिधत्ते। शखिचक्रित्वेन हरिर्विष्णुरेव प्रथित इति हरेर्विष्णुवाचकत्वमिति भावः । यथा वा--'सशङ्खचक्रः सगदः सपनः पीताम्बरः कौस्तुभमादधानः । श्रीवत्सचिडून सुचारुवक्षा नियाजमव्यादनिशं हरिनः॥' इति । एवमेव-'वज्री हरिः', 'पाशी हरिः' 'शिखी हारः' 'केसरी हरिः' इत्यादौ वज्रादिसंयोगेन हरिरन्द्रादिवाचकः । इति दिक् । 'अशङ्खचक्रः शहखचक्ररहितः । हरिः ।' इति 'अत्रे'ति शेषः । हरिशब्दः । शङ्खचक्रविप्रयोगेन शङ्खचक्रयोर्विप्रयोगी विश्लेषस्तेन । विष्णुम् । एव । अभिधत्ते' इति पूर्वतोऽन्वेति । यथा वा-'अशङ्खचक्रो हरिरेष साक्षात् , अभालनेत्र: शिव एव यद्वा। त्यक्ताम्बुजन्मासन आत्मभूश्च, निरस्तमायो ननु वा महेशः ॥' इति । एवमेवं-'अवज्रो हरिः', 'अकेशरो हरिः', इत्यादौ हरिरन्द्रादिवाचकः । इति दिक् । 'भीमार्जुनौ भीमश्चार्जुनश्चेति तौ तथोक्तौ ॥' इति । 'अत्रेति शेषः । भीमसाहचर्येण भीमस्य भीमसेनस्य साहचर्यं तेन तथोक्तेन । अर्जुनः 'अर्जुनः ककुभे पार्थ कार्तवीर्य्यमयूरयोः ।..' इति मेदिन्युक्त्याऽनेकार्थोऽपी'ति शेषः । पार्थ पृथायाः कुन्त्या अपत्यं पुमान् तम् । एव 'अभिधत्ते' इति पूर्वतोऽन्वेति । इदं बोध्यम्-यद्यपि 'भीमोऽम्लवेतसे घोरे शम्भौ मध्यमपाण्डवे।' इति मेदिन्युक्त्या भीमशब्दोऽप्यनेकार्थस्तथाऽपि भीमस्यार्जुनसाहचर्येण मध्यमपाण्डवे सङ्केत गृहीत्वा भीमसाहचर्येणार्जुनः पार्थमेवाभिधत्ते इति, तथा च-भीमसाहचर्येणार्जुन इवार्जुनसाहचायेण भीमोऽपि पार्थमेवाभिवत्त इति निष्कृष्टम् । यथा वा-'भीमार्जुनौ रामजनार्दनौ वा स्वस्वं समास्थाय रथं तदानीम् । युधिष्ठिरस्यान्वनुचक्रयानं मुदाऽन्विता दिव्यधुनीमभीयुः ॥' इति । 'कर्णार्जनौ कर्णश्चार्जुनश्चेति तथोक्तौ।' इति 'अत्रेति शेषः । अर्जुनविरोधितयाऽर्जुनस्य पार्थानुजस्य विरोधिता तया । कर्णः 'कर्णः पृथाज्येष्टपुत्रे सुवर्णालौ श्रुतावपि ।' इति मेदिन्युक्त्याऽनेकार्थोऽपीति शेषः । पृथायाः कुन्न्याः । ज्येष्ठपुत्रम् । एव न तु श्रुत्याद्यर्थम् । 'अभिधत्ते' इति पूर्वतोऽन्वेति । इदं बोध्यम्- 'सहानवस्थानं विरोधित्व' मिति पक्षे 'छायाssतपौ' इत्युदाहरणम् , अत्र हि-'छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः' इति मेदिन्युक्त्याऽनेकार्थोऽपिछायाशब्द आतपाभावमेवाभिधत्ते। यथा वा-'राहुचन्द्रौ च पाकेन्द्रौ गुरुशुक्रौ च सङ्गतौ । सेनानीस्तारकश्चैवं महिषश्च महेश्वरी ॥ इति । भवच्छिदे भवस्य संसारस्य छित् छेदनं तस्मै, मुक्तय इत्यर्थः । स्थाणुं शङ्करम् । 'स्थाणुः कील हरे पुमान् । अस्त्री ध्रवे' इति मेदिनी । वन्दे नमामि स्तौमीति वा ।' इति । 'अत्रे'ति शेषः। भवच्छेदनार्थेन । स्थाणुः । शिवम् । एव न तु कीलादिम् । 'अभिधते' इति पूर्वतोऽन्वेति । यथा वा-'स्थाणु सेवेत विद्यायै पौलस्त्यं धनबुद्धये । चित्रभानु प्रतापाय मुकुन्दं मुक्तये भवान् ॥' इति । 'देवो भवान् (नपवर्यः) सर्व भूतं भविष्यद्भवच्च परस्येष्टमनिष्टं वेति भावः । जानाति । इति।' अत्रेति शेषः । प्रकरणेन देवः 'देवस्तु नपतौ तोयदे सुरे।' इति हैमोक्त्याऽनेकार्थोऽपीति शेषः । भवन्तमभिमुखस्थं नृपतिविषयमित्यर्थः । एव न तु तोयदादिम् । 'अभिधत्ते' इति पूर्वतोऽन्वेति । यथा वा---'तां राजकन्यां रथमारुरुक्षती जहार कृष्णो द्विषतां समीक्षताम् । रथं समारोप्य सुवर्णलक्षणं राजन्यचक्रं परिभूय माधवः ॥' इत्यत्र तच्छब्दो रुक्मिण्या एवाभिधायकः। इति दिक् । 'मकरध्वजो मकरो नक्रो (ऽसौ) ध्वज इति, यस्येति वा स तथोक्तः । कुपितः कोपवान् संवृत्त इत्यर्थः । इति 'अत्रे'ति शेषः । कोपलिड्रेन कोपरूपचेतनधर्मविशेषेणेति भावः। मकरध्वजः 'कामे सागरे मकरध्वजः।' इति गोपालोक्या वाऽनेकार्थोंsपीति शेषः । कामम् । एव न तु सागरमितिभावः । 'अभिधत्ते' इति पूर्वतोऽन्वेति । तथाऽऽहुस्तकंवागीशा:--'मकरध्वजपदं कर्मधारयबहवीहिन्यामनेकार्थकम्, कोपस्य मकराकारध्वजेऽसम्भवात् कामस्यैव बोधकम् । केचित्तु-'मकरध्वजपदं कामसमुद्रानेकार्थकम् , कोपस्तु कामस्यैव चिह्नम् । समदाधिष्ठातुः कोपसम्भवेऽपि विरहिविषयः कोपोऽत्र बोध्यः।' इत्याहुः, तन्न, 'सम्प्राप्तम्मकरध्वजेन मथन'मित्यादिप्रयोगबलान्मकर वजपदस्य समुद्रे शक्तिकल्पनेऽपि तदधिष्ठातृदेवताबोधस्तु लक्षणयैवेति तत्र कोपसम्भवस्या