________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः।
वलिजित्कायः पुरा स्त्रीकृत' इत्यादौ विविक्तोऽस्य विषय इति निरवकाशत्वाभावात् नान्यबाधकत्वमित्येन्ये; तत्र पूर्वे षामयमभिप्रायः-इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचरत्वेन तावत् प्रतिष्ठितोऽयमलङ्कारः । तत्राये प्रकारद्वयं तुल्ययोगिताया विषयः। तृतीये तु प्रकारे दीपकं भवतीति तावदलङ्कारद्वयमिदं श्लेषविषये व्याप्त्या व्यवतिष्ठते। तत्पृष्ठे चालङ्कारान्तराणामुत्थापनमिति नास्ति विविक्तोऽस्य विषयः। अत एवालङ्कारान्तराणां बाधितत्वात् प्रतिभानमात्रेणावस्थानम् । 'येन ध्वस्तमनोभवेन' इत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम् । अलङ्कार्यालङ्करणभावस्थ लोकवदाश्रयाश्रयिभावेनोपपत्तेः । 'रक्तच्छदत्व...' इत्यादावर्थद्वयाश्रितत्वादयमर्थालङ्कारः 'नालं...' इत्यादौ तु शब्दयाश्रितत्वाच्छब्दालङ्कारोऽयम्।यद्यप्यर्थभेदाच्छब्दभेद' इति दर्शने 'रक्तच्छदत्वं...' इत्यादावपि शब्दाश्रितोऽय,तथाऽप्यौप. पत्तिकत्वादत्र शब्दभेदस्य प्रतीतेरेकताऽवसायानास्ति शब्दभेदः। नालं...'इत्यादौ तु प्रयत्नादिभेदात् प्रातीतिक एव शब्द. . भेदः। अतश्च पूर्वत्र 'एकवृन्तगतफलद्वय'न्यायेनार्थद्वयस्य शब्दश्लिष्टत्वम्, अपरत्र 'जतुकाष्ठ-' न्यायेन स्वयमेव श्लिष्टत्वम्, 'पर्वत्र अन्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दालङ्कारत्वम्' इति चेत् ? न, आश्रयाश्रयिभावेनालङ्कारत्वस्य लोकवद्वययव. स्थानात, एवं च-'सकलकलं पुरमेतत् सम्प्रति सुधांशुबिम्बमिव ।' इत्यादौ न गुणक्रियासाम्यवत् शब्दसाम्यमुपमा प्रयोजकम्, अपि तु-उपमाप्रतिमोत्पत्तिहेतुः श्लेष एवावसेयः । श्लेषगर्भे रूपके तु रूपकहेतुकस्य श्लेषस्य तृतीयकक्षाया रूपके एव विश्रान्तिरिति रूपकेण श्लेषो बाध्यते । श्लिष्टविशेषणनिबन्धनायां च समासोक्तौ विशेष्यस्यापि गम्यस्वात् श्लेषस्यापि बाधिका समासोक्तिः । 'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणी प्रत्यगमद् विवस्वान् । मन्येऽस्तशैलात् पतितोऽत एव विवेश शुथै वडवाग्निमध्यम् ॥' इत्यत्र श्लोके विवस्वतो वस्तुवृत्तसम्भवि अधःप्रदेशसंयोगलक्षणं यत् यत् पतितत्वं, यच्च वडवाग्निमध्यप्रवेशनं, ते द्वे अपि त्रयीमयत्वसम्बन्धिवारुणीगमनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वाग्निप्रवेशनाभ्यामतिशयोक्त्या श्लेषमूलयाऽभेदेनाध्यवसिते, सोऽयमतत्क्रियायोगः । तद्धतुका च 'मन्ये' इति क्रिया अतएव 'विशुद्धये' इत्युत्प्रेक्षाऽत्र, 'अत एवे' ति परामृष्टो विरोधालङ्कारालकृतोऽर्थों हेतुत्वेनोत्प्रेक्ष्यते 'विशुद्धथै' इति च फलत्वेन । ततश्च हेतुफलयोयोरप्यत्रोत्प्रेक्षा । विरोधाभासस्य विरोधाभासत्वं लक्षणम् । अतो विरोधाभासनसमय एवं हेतुफलोत्प्रेक्षयोरुत्थानम्, उत्तरकालं तु विरोधसमाधिः । श्लेषस्य च सर्वालङ्कारापवादकत्वाद् विरोधे प्रतिभोत्पत्तिहेतुरंय श्लेषः । यत्र तु प्रस्तुताभिधेयपरत्वेऽपि वाक्यस्य श्लिष्टपदमहिम्ना वक्ष्यमाणार्थनिष्टमुपक्षेपापराभिधानं सूचकत्वं तत्र किं श्लेषः? उत शब्दशक्तिमूलध्वनिः ? इति विचार्य्यते-तत्र न तावत् श्लेषः, अर्थद्वयस्योचितत्वेनाभिधयतया वक्तुमनिष्टेः, नापि ध्वनिः, उपक्षेप्यस्यार्थस्यासम्बद्धत्वाभावात्तेन सहोपमानोपमेयत्वस्याविवक्षणात् । न चान्या गतिरस्ति तदत्र किं कर्त्तव्यम् ? उच्यते-श्लेषस्योक्तनयेनाप्रवृत्तवनेरेवायं विषय इति निश्चयः । तथा हि-शब्दशक्तिमूले ध्वनावर्थान्तरस्यासम्बद्धत्वात्तत्सम्बन्धार्थमौपम्य कल्प्यते । स च सम्बन्धः प्रकारान्तरेणौपम्यपरिहारेण यद्यप्युपपादयितुं शक्यः स्यात् तत् कोऽयमभिनिवेशस्तत्र । उपमाध्वनौ वस्तुध्वनिरपि सम्बन्धान्तरेण तत्र समीचीनः स्यात् । अत एव-'अलङ्कारोऽथ वस्त्वेव शब्दादेवावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥' इति न्यायभरबन्धेन द्विधा शब्दशक्त्युद्भव उक्तः। एवं प्रकृतेऽपि यत्र सूचनाव्यापारोऽस्ति, तत्र शब्दशक्तिमलो वस्तुध्वनिर्बोद्धव्यः, यथा-'सद्यः कौशिकदिगविज़म्भण
-योः प्रकृतमात्रयोर्वा तावत् तुल्ययोगितैव जागर्ति, प्रकृताप्रकृतयोस्तु दीपकम,तदनुमोदिता. उपमादयश्च । न च 'देव ! त्वमेव पाता (5) लमाशानां त्वं निबन्धनम् । त्वं चामरमरुद्भमिरेको लोकत्रयात्मकः ॥' इत्यादिकाव्यप्रकाशोक्तौ विविक्तो विषय इति वाच्यम्, रूपकस्यैव स्फुटत्वात् । श्लेषोपस्थापितया तालाद्यर्थस्यागेदारोपमन्तरेण लोकत्रयात्मकत्वस्य दुरुपपादत्वात् । कथं तर्हि 'न दीनां सम्पदं बिभ्रद् राजाऽयं सागरो यथा।' इत्यादीवुपमायाः प्रत्ययः, कथं वा तत्रैव यथाशब्ददाने उत्प्रेक्षायाः, 'अपर' इति कृते च रूपकस्येति चेन, अत्र हि उपमादीनां प्रतिभानमात्रं न वास्तवी स्थितिः । नहि श्चैत्येन शक्तौ रजतत्वं प्रतीयमानमपि वस्तुतोऽस्ति । तस्मादपमोत्पत्तिहेतुः श्लेष एव स्वविषये सर्वत्राल ङ्कारः।' इति । २ 'आह'रिति शेषः ।