________________
१४८
साहित्यदर्पणः।
[दशमःअत्र केचिदाहुः-खभङ्गश्लेष एव शब्दश्लेषविषयः, यत्रोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयो र्जतु-काष्ठ'न्यायेन श्लेषः । अभङ्गस्त्वर्थश्लेष एव, यन स्वराभेदादभिन्नप्रयत्नोच्चा
र्य्यतया शब्दाभेदादर्थयो रेकवृन्तगतफलद्वय'न्यायेन श्लेषः । यो हि यदाश्रितः स तदाकार पव, अलङ्कार्यालङ्करणभावस्य लोकवदाश्रयाश्रेयिभावेनोपपत्ते । इति ।
अत्र परमतं दर्शयति-अत्रास्मिन् सभङ्गाभहयोः शब्दार्थालङ्कारतामीमांसाऽवसर इति यावत् । केचित । अलङ्कारसर्वस्वकारादय इत्यर्थः । आहुः । यत्र यस्मिन् सभङ्गश्लेषे । उदात्तादिस्वरभेदादुदात्तः 'उचैरुदात्तः' १।२।२९ इत्युक्तस्वरूपः स्वर आदिर्येषां, ते चामी स्वरास्तद्भेदात् । आदिपदेन 'नीचैरनुदातः।' १।२ । ३० 'समवृत्त्या स्वरितः।' १।२।३१ इत्युक्तस्वरूपखरग्रहणम् । भिन्नप्रयत्नोच्चार्य्यत्वेन भिन्नौ विजातीयौ वाह्याभ्यन्तरप्रयत्नभेदेन भिन्नौ यौ प्रयत्नौ ताभ्यामुचायौं तयोर्भावस्तत्त्वं तेन । भिन्नयोर्विजातीययोः । 'अपी'ति शेषः । शब्दयोः । 'जतु-काष्ठ' न्यायेन 'जतुना युक्तं काष्टं' तन्न्यायस्तेन । यथा जतु-काष्ठयोभिन्नयोरपि संपृक्तयोरेकत्वेन प्रतिभासस्तथेत्यर्थः । श्लेषः । 'स'इति शेषः । सभङ्गश्लेषो भङ्गेन समासवैचित्र्यानुपदं सम्पद्यमानेन पदभङ्गेन सह वर्तत इत्यसौ श्लेष इति तथोक्तः । शब्दश्शेषविषयः शब्दयो: इलेष इत्यसावेव विषयो यस्य सः । एवेति निर्विचिकित्सितम् । इदमभिहितम्-सभङ्गस्य समासभेदेनानेकधा भिद्यमानैः पदैः श्लिष्टत्वेन स्वरभिन्नत्वं, तत्सत्त्वे प्रयत्नभिन्नत्वं, प्रयत्नभेदे शब्दभेदः, एवं पुनर्भिन्नयोस्तयोर्जतुकाष्ठयोरिवैकत्र समावेशः इलेषः । अत एवासौ शब्दश्लेषः । यथाऽऽहुरलङ्कारसर्वस्वकाराः । उदात्तादिस्वरभेदात् प्रयत्नभेदाच शब्दान्यत्वे शब्दश्लेषः, यत्र प्रायेण पदभङ्गो भवति ।' इति । इति । अत एव-यत्र यस्मिन् अभङ्गइलेष इति यावत् । स्वराभेदात् स्वराणामुदात्तादीनामभेदः समासाभेदेन भेदाभावस्तस्मादिति तथोक्तात् । अभिन्नप्रयत्नोच्चार्य्यतयाऽभिन्न एकोऽसौ प्रयत्नस्तेनो. चाय्यौँ तत्तया । 'हेतुने'ति शेषः । शब्दाभेदाच्छन्दयोरर्थव्यप्रतिपादकत्वेन भिन्नयोरपि तथाऽभिन्नयोरिति यावत्, अभेद ऐक्यं तस्मात् । अर्थयोः । ‘स्वरूपतो भिन्नयोरप्येकजन्मभूमितया सोदरयोरिव कविप्रतिभोधनमहिम्नाऽभिनतया प्रतीयमानयो'रिति शेषः । 'एकवृन्तगतफलद्वय'न्यायेनैकं च तद्वन्तं प्रसवस्थानं तद्गतं यत् फलद्वयं तन्न्यायस्तन्मार्गस्तेन । 'वृन्तं प्रसवबन्धनम्।' इत्यमरः । श्लेषाः। 'स' इति शेषः । अभङ्गो न भगः समासाभावात्पदविभागो यत्र तादृशः । तु पुनः । अर्थश्लेषोऽर्थयो: इलेष एकत्रैकत्वेन समावेशो यत्र तादृशः । 'अलङ्कार'इति शेषः । एवेति सिद्धान्तः । अत्र हेतुमाह-अलार्ध्याकरणभावस्यालङ्कार्य्यमलङ्कर्तुमर्हमलङ्करणं येनालक्रियते तच तयोर्भावस्तस्य । अलङ्कार्य्यत्वस्य मस्तकादित्वस्येवालकरणत्वस्य मुकुटादित्वस्येव चालङ्कार्य्यत्वस्य शब्दार्थान्यतरस्यालकरणत्वस्य पुनरुक्तवदाभासोपमादित्वस्य चेति भावः । 'अचो यत् ।' ३।५।९७ इति यत् । 'ल्युट्च' ३।३। ११५ इति ल्युट् । लोकवलोक इव । 'तत्र तस्येव ।५।१।११६ इति वतिः। आश्रयाश्रयिभावेनाश्रयत्वेनाश्रयित्वेन चेत्यर्थः । उपपत्तेः 'हेतो'रिति शेषः । यो ध्वनि-गुणीभूतव्यङ्गय-दोष-गुणा-लकारान्यतमः । ह्येव । यदाश्रितो यं शब्दमर्थ वाऽऽश्रितः आश्रित्यावस्थित इत्यर्थः। स ध्वन्याद्यन्यतमः । तदाकारस्तस्य स्वाश्रयभूतस्येवाकारो यस्य तादृशः । एव । इदमभिहितम्-सभङ्गः शब्दयोः श्लेषमधिगतोऽवतिष्ठत इति तस्य शब्दालङ्कारत्वम्, अभङ्गः पुनरर्थयोरित्यस्यार्थालङ्कारत्वमेव युक्तम् दृश्यते हि लोके सौवर्णस्य मुकुटकुण्डलादेः शिरः कर्णाद्याश्रयमहिम्ना शिरःप्रभृत्यलङ्कारत्वम् । यथाऽऽहुरलङ्कारसर्वस्वकारा:-'अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति, अत एव न तत्र सभङ्गपदत्वम् । सङ्कलनया तूभय (शब्दार्थोभय ) श्लेषः । यथा-'रक्तच्छदत्वं विकचा वहन्तो नाल जलैः सङ्गतमादधानाः । निरस्य पुष्पेषु रुचिं समग्रां पद्मा विरेजुः श्रमणा यथैव ॥' अत्र 'रक्तच्छदत्व'मित्यादावर्थश्लेषः, 'नाल'मित्यादौ शब्दश्लेषः । उभयधट' नायामुभयश्लेषः । एष च नाप्राप्तेष्वलङ्कारेवारभ्यमाणस्तद्वाधकत्वेन तत्प्रतिभोत्पत्तिहेतुरिति केचित्, 'येन ध्वस्तमनोभवेन
१ एष श्लेषः पुनः निरवकाशा हि विधयः सावकाशान् बाधन्ते'इति नयेन - निरवकाशतया सर्वालडकारापवादक इत्युद्भाटादीनां मतं स्थूणानिखनन'न्यायेन द्रढयितुं प्रवृत्तोऽपि प्रथमं पूर्वपक्षवत्तन्निदर्शयति-एष चेत्यादिना । अत एवाहू रसगङ्गाधरकाराः-'अत्राहरुद्भटाचार्याः 'येन नाप्राप्ते य आरभ्यते स तस्य बाधक'इत्ति न्यायेनालकारान्तरविषय एवायमारभ्यमाणोऽलङ्कारान्तरं बाधते, न चास्य विविक्तः कश्चिदस्ति विषयो यत्र सावकाशो नान्यं बाधेत ! तथा हि-अप्राकृतमात्र