________________
परिच्छदः ]
रुचिराख्यया व्याख्यया समेतः ।
एतद्भेदत्रयं चोक्तभेदाष्टके यथासम्भवं ज्ञेयम् । यथा वा-"येन ध्वस्त मनोभवेन बलिजिस्कायः पुरा खीकृतो यश्वोवृत्तभुजङ्गहारवलयोगङ्गां च योधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात् स्वयमन्धकक्षयकरस्त्वां सर्वदो माधवः ॥ ६३ ॥" अत्र 'येन -' इत्यादौ भङ्गः श्लेषः, 'अन्धक' इत्यादौ अभङ्गः, अनयोश्च एकत्र सम्भवात् सभङ्गभङ्गात्मको ग्रन्थगौरवभयात् पृथङ् नोदाहृतः ।
१४७
त्रिधा । 'त्रिविधोऽप्ययं श्लेषः प्रकृतानेकविषयाप्रकृतानेक विषयप्रकृताप्रकृतानेकभेदैर्भिद्यते ।' इति टिप्पणीकाराः । इदं तत्त्वम् - श्लेषस्त्रिविधः सभङ्गा - भङ्ग - सभङ्गाभङ्गभेदात् सोऽपि पुनः प्रत्येकं प्रकृतानेकविषया-प्रकृतानेकविषय-प्रकृताप्रकृतानेकविषयभेदात्रिधा भिद्यमानो नवविधः प्रोच्यते । तथा च सभङ्गश्लेषोऽभङ्गश्लेष इत्येवं व्यपदिश्यमानोऽसौ त्रिविधः, अन्यदा स्वरूप सन्नेव सभङ्गादिभेदात्रिविध इत्युभयथा त्रिविधः । इति ।
प्रकृतानेक विषयादीनामपि सभङ्गत्वादि मन्यमान आह- एतद्भेदत्रयम् । च । उक्तभेदाष्टके उक्तभेदानां 'वर्ण...' इत्यादिनाऽभिहितभेदानामष्टकं तत्र । यथासम्भवम् । ज्ञेयमन्वेषणीयम्, तत एषामनतिरेकादिति भावः । यथा वा
'येन । अभवेन न भवो जन्म यस्य तेनाजन्मनेत्यर्थः । अनः शकटं तत्र निलीनो ऽसुर इति यावत् । 'क्लीबेsनः शकटोsस्त्री स्यात्' इत्यमरः । ध्वस्तं परावृत्त्य पातितम् । तथा-बलिजित्कायो बलि जितवानिति बलिजित् तादृशः कायः शरीरम् । पुरा । स्त्रीकृतः । यद्वा-ध्वस्तमनोभवेन ध्वस्तो विनाशितो मनोभवो येन तेन मदनान्तकेनेत्यर्थः । बलिजित् कायः शरीरं यस्य स हरिरित्यर्थः । पुरा अस्वीकृत: 'त्रिपुरासुरं हन्तु 'मिति भावः । च पुनः । यः । उद्वृत्तभुजङ्ग होता दुराचारिणो ये भुजङ्गास्तान् हन्तीति तथोक्तः । 'यश्वत्तस्याधासुरस्य ( भुजङ्गस्य ) हन्ता । यद्वा - कालियस्य पीडाकर: ।' इति विवृतिकाराः । आरवलय आरमरीणां सम्बन्धि यद् बलं तद् यातीति तथोक्तः । यः । अगं गोवर्धनपर्वतम् । च तथा । गां पृथ्वीम् । अधार यत् । यद्वा- उद्वृत्तभुजङ्गहारवलय उद्घृत्ता ये भुजङ्गास्त एव हारवलया हारवलयभूता यस्य सः । यः । व । गङ्गाम् । अधारयत् । अमरा देवाः । शशिमच्छिरोहरः शशिनं चन्द्रं मथ्नातीति शशिमत् सैंहिकेयस्तस्य शिरोहर इति तथोक्तः । इति । यस्य । च । स्तुत्यं प्रशंसनीयम् । नाम । आहुः । यद्वा- अमराः । यस्य शशिमच्छशी चन्द्रोऽ स्मिन्नस्तीति तत् शिरः यस्य सोऽसौ हरः । इतीत्येवम् । स्तुत्यम् । नाम । आहुः । सः अन्धकक्षयकरोऽन्धकानां यादवानां क्षयः स्थानं द्वारकेति यावत्, यद्वा अन्धकस्य तदाख्यासुरस्य क्षयो विनाशस्तत्करः । सर्वदः सर्व (स्वाभीष्टम् ) ददातीति तथोक्तः । यद्वा-सर्वदा सर्वस्मिन्समये । माधवः यद्वा-उमाधवः । स्वयम् । त्वाम् । पायाद्रक्षेत् । अत्र कस्यापि स्मार्त्तस्य कमपि यजमानम्प्रत्याशीर्वादोक्तिः । पद्यभिदं सुभाषितावलीस्थं चन्द्रककवेः । अत्र 'येनध्वस्तमनोभवेने' त्यादौ ' या जयश्रीः .." इत्यादाविवाभवन्मतयोगत्वं दोषः । शार्दूलविक्रीडितं वृत्तम् । लक्षणं चोक्तं प्राक् ॥ ६३ ॥'
1
उक्तं श्लेषस्य त्रैविष्यं क्रमाद्दर्शयति-अत्र 'येन...' इत्यादौ 'येन ध्वस्तमनोभवेन'." इत्यादौ । सभङ्गः। श्लेषः । 'अन्धक' इत्यादौ 'अन्धकक्षयकर' इत्यत्र । अभङ्गोऽभङ्गश्लेषः । अनयोः सभङ्गाभङ्गश्लेषयोः । च । एकत्र सम्भवात् । खभङ्गाभङ्गात्मकः । 'श्लेष' इति शेषः । नन्वेष पृथक् कथं नोदाहृत इत्याह-ग्रन्थगौरवभयात् । पृथक् । न नैव । उदाहृतः । 'अस्माभिरि 'ति शेषः । अत्रायं पय्यालोकः-- "पृथुकार्त्तस्वरपात्रं " इत्यादौ सभङ्गः, 'नीतानामाकुलीभावं " इत्यादावभङ्गः, सर्वस्त्रं हर सर्वस्य ...' इत्यादौ पुनः समङ्गाभङ्गः श्लेषः । तथा 'पृथकार्तस्वरपात्रं." इत्यादौ कृतानेकविषयः, 'सर्वस्वं हर सर्वस्य इत्यादावप्रकृतानेकविषयः, 'प्रतिकूलतामुपगते हि विधौ..." इत्यादौ पुनः प्रकृताप्रकृतानेकविषयः श्लेषः । इत्येवमन्यत्राह्यम् । इति ।