________________
१५०
साहित्यदर्पणः ।।
. [ दशमः
तदन्येन मन्यन्ते, यथा हि-अब ध्वनिगुणीभूतव्यङ्गय-दोष-गुणा-लङ्काराणां शब्दार्थगतत्वेन व्यव. स्थितेरन्वयव्यतिरेकानुविधायित्वेन नियम इति । न च-'अन्धकक्षय' इत्यादौ शब्दाभेदः, अर्थभेदेन
वशादाकाशराष्ट्र रसात्त्यक्त्वा धूसरकान्तिवल्कलधरो राजाऽस्तशैलं ययो । तत्कान्ताऽप्यथ सान्त्वयन्त्यलिकुलध्वानैः समुलासिभिः क्रन्दन्तं कुमुदाकरं सुतमिव क्षिप्रं प्रतस्थे निशा ॥' इत्यत्र हरिश्चन्द्रचरिते प्रभातवर्णनानुगुण्येन राजशब्दाभिधेयेऽस्तमुपेयुषि चन्द्रे रोहिताश्चाख्यतनयसहितयोशीनां वध्वा युक्तस्य हरिश्चन्द्रस्य राज्ञो विश्वामित्रसम्पादितोपद्रवधा शात् प्रातः स्वराष्ट्र त्यक्त्वा वाराणसी प्रति गमनं सूचितं स्यात्, तथा च कौशिकशब्दः प्रकृत इन्द्रोलूकयोर्वत्तते । सूचनी यार्थविषयत्वेन तु विश्वामित्रवृत्तिः । वल्कलपुताभ्यां त्वौपम्यं सूचनीयार्थनरपेक्ष्येण सादृश्यसम्भवमात्रेण सम्भवनीयम् । अतश्च प्रकृते न सूचनीयस्य सम्बन्धात् शब्दशक्तिमूलो वस्तुध्वनिरयम् । इह च-'आकृष्यादावमन्दग्रहमलकचय वक्रमासज्य वके कण्ठे लग्नः सुकण्ठः प्रभवति कुचयोर्दतगाढाङ्गसङ्गः । बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक् प्रियो मे वाले लज्जा निरस्ता नहिनहि सरले चोलकः किं त्रपाकृत् ॥' इत्यलङ्कारान्तरविविक्तोऽयं इलेषस्य विषय इति नाशङ्कनीयम्, अपहृतेरत्र विद्यमानत्वात् । वस्तुतोऽपह्नवस्य सादृश्यपर्यवसायिता वाऽपहवेनापह्नवपर्यवसायिना व. सादृश्येन भूतार्थापह्नवस्योभयत्र विद्यमानत्वात् । 'सादृश्यव्यक्तये यत्रापह्नवोऽसावपहुतिः। अपह्नवाय सादृश्यं यत्राप्येषाप्यपगु. तिः॥' इति सङ्क्षेपः।आद्या स्वप्रस्ताव एवोदाहृता, द्वितीया तु सम्प्रति दर्शिता । तेनालङ्कारान्तरविविक्तो नास्य विषयोऽ. स्तीति सर्वालङ्कारापवादोऽयमिति स्थितम् ।' इति । एतेन 'अन्वयव्यतिरेकानुविधायित्वेन तत्तदीयं मन्दमिति सूचितम् । अत एवाहू रसगङ्गाधरकारा:-'अन्वयव्यतिरेकाभ्यां हि हेतुत्वावगमो घटादिं प्रति दण्डादारीवास्तु, न त्वाश्रयावगमः, स तु तवृत्तित्वज्ञानाधीनः । इह हि सभङ्गश्लेषस्य शब्दद्वयवृत्तित्वं 'जतुकाष्ठ'न्यायेन, अभङ्गश्लेषस्य चार्थद्वयवृत्तित्वम् एकवृन्तगतफलद्वय'वत् स्फुटमेवेत्येकस्य शब्दालङ्कारत्वम्, अपरस्यार्थालङ्कारत्वम् । यद्यपि द्वितीयस्यापि प्रतिप्रवृत्तिनिमित्तं शब्दभेदः'इति नये शब्दद्वयवृत्तित्वात् शब्दालङ्कारत्वमुचितम्,तथाऽपि शक्तताऽवच्छेदकानुपूर्व्यभेदादभेदाध्यवसानात् शब्दद्वयवृत्तित्वज्ञानं दुःशकम; अन्यथा 'प्रत्यर्थ शब्दभेदः'इति नये पराभिमतोऽर्थश्लेषोऽपि शब्दालङ्कार एव स्यात् ।' इत्यलङ्कारसर्वस्वकारादयः ।' इति । इति । अत्रेदं तत्त्वम्-सभङ्ग एव शब्दश्लेषविषयः, न त्वभङ्गः, एतस्य परमालकारत्वमिति ।
एतन्निराकरोति-अन्ये तेभ्यो भिन्नाः श्रद्धेया इति यावत् । तद् यत् ‘स भङ्ग एव शब्दश्लेषः' इत्यादि केचिदाहुस्तत्सर्वमिति भावः (कर्म)। न नैव । मन्यन्ते 'क्षमन्ते' इति पाठान्तरम् । 'क्षोदक्षमत्वाभावादिति शेषः । तथाहिअत्रास्मिन् काव्याध्वनिगुणीभूतव्यङ्गय-दोष-गुणा-लङ्काराणाम् । शब्दार्थगतत्वेन शब्दगतत्वेनार्थगतत्वेन. शब्दार्थोभयगतत्वेन चेत्यर्थः । व्यवस्थितर्व्यवस्थायाः। अन्वयव्यतिरेकानुविधायित्वेन । नियमः। अयम्भावःयथाहि-मृन्मये भृदोऽन्वयव्यतिरेकाभ्यां व्यवस्थानं तथैव काव्येऽपि यत्र तत्र शब्दाद्यन्यतमस्येत्येष स्थाने पन्था, न तु दण्डादेरिव शब्दादेनिमित्तत्वेन,मृन्मयस्य दण्डाद्यसद्भावेऽपि तत्तत्सद्भावस्यैव ध्वन्यादेः शब्दाद्यसद्भावेऽपि तत्तत्सद्भावस्याजीकारापत्तेः। न च तथेति घटादेन्मयत्वायुको मृदादेखि ध्वन्यादेः शाब्दत्वाद्युक्तौ शब्दादेरन्वयव्यतिरेकाभ्यामेव व्यवस्थानं नियतम् । लोकवत्तत्तद्यवस्थास्वीकारे तु मौल्यादिनिष्ठत्वाभावावसरेऽपि मुकुटादेमौल्याद्यलङ्कारत्वस्येव शब्दाद्याश्रया. भावेऽपि तस्यतस्य शब्दाद्यलङ्कारादित्वस्य प्रसङ्गः स्यात्, न च तथा, तस्माद् यथोक्तमेव ज्याय इति स्थितम् । यथा व्याचक्षतेऽभियुक्ताः-'यस्मिन् शब्देऽर्थे वा सत्येव ये धन्यादयः सम्भवन्ति, असति च तस्मिन् यदि त एव न, तर्हि ते तदधीनस्वरूपतया तदीया इति निर्विचिकित्सितम् । एवं च-यथा वस्तुध्वन्यादयो रसायङ्गभूतव्यङ्गयादयो दुःश्रवत्वादयो माधुर्य्यादयः पुनरुक्तवदाभासादयश्च यस्मिन् शब्देऽर्थे वा सति सन्ति, यस्मिन् पुनरसति त एव न, तथाऽस्यापि तत्सत्त्वासत्त्वाभ्यां सत्त्वासत्त्वव्यवस्थाऽङ्गीका- ।' इति । ननु शब्दाभेदादर्थश्लेषः, यत्रयत्र शब्दाभेदस्तत्रतत्र तथोपपत्तेः; इति चेन्नेत्याह-'अन्धकक्षयः...' इत्यादौ 'श्लेषे' इति शेषः । 'अर्थभेदेनार्थयोर्भेदो विजातीयत्वं तेन । अत्र हेतौ तृतीया । शन्दभेदः शब्दयो दो विजातीयत्वम् । 'भवती' ति शेषः । इतिदर्शनादित्येतस्मात् सिद्धान्तात्, शब्दाभेदः इति । न चा 'वाच्य'मिति शेषः। इदमभिहितम्-'अर्थभेदेन शब्दभेद'इति नये प्रत्यर्थे शब्दभेद