________________
[ नवमः-.
2. साहित्यदर्पणः। यथा-'अनङ्गमङ्गलभुषः' इत्यादौ । [ रुद्रटस्स्वाह-] “असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्च वैदामः। .
वर्गद्वितीयबहुला स्वल्पप्राणक्षारा चसुविधेया॥” इति । अब दश गुणास्तन्मतोक्ताः श्लेषादयः ।
तद्वती वा माधुर्यव्यजिका रचना वैदी रीतिरिति । यत्त काव्यप्रकाशकारैः-'माधुर्यव्यञ्जकैवर्णैरुपनागरिकोच्यते ॥' इत्युक्तम् । तत्रोपनागरिकेति वेदा एवापरः पर्यायः । 'केषाच्चिदेता वैदर्भाप्रमुखा रीतयो मताः ।' इत्यप्रतनेन सन्दर्भण स्वारस्यस्य तथाऽभ्युदयात् । नन्वेवं समासदध्येऽपि वैदर्भी स्यात् ? इति चेन्न । उपलक्षणया समासदैर्ध्याभावस्यापि तत्र विवक्षितत्वात् । अन्यथा- 'चञ्चत्काञ्चनकाञ्चयोलयचलच्चोलाञ्चलैर्वञ्चिताचारीसचरणकचारुचरणास्सिचन्ति चित्तं मम । लीलाचञ्चुरचञ्चरीकरुचिभिश्चूलालकैश्चर्चिताःकिश्चिञ्चन्दनचन्द्रचम्पकरुचां चौर्यो मृगीलोचनाः ॥' इति । 'अनगराङ्गणसङ्गिनाऽङ्गीकृताङ्गसन्मङ्गलतुङ्गभङ्गी । अभङ्गुर सङ्गरमिश्रितानां भङ्गेन साङ्गेषु तरणयन्ती ॥' इत्यत्र च सम्भवेद्वैदर्भी ॥५०॥
उदाहरति-यथा-'अनमडलभवः' इत्यादी अनङ्गमङ्गलभवस्तदपाङ्गस्य भणयः । जनयन्ति महर्यना: मन्तःसन्तापसन्ततिम् ॥' इत्यादौ पद्ये गद्ये वेति भावः । व्याख्यातपूर्वमिदं पद्यम् ।
इतः परं प्रक्षिप्तो रुद्रटमतप्रस्तावः प्रतिभाति । तद्ग्रन्थे गन्धस्यापि तथाऽनुपलब्धेः । तथाऽपि सर्वत्र स. पाठो लभ्यते इति यथातथं समाधीयते व्याख्यायते च [ रुद्रटस्त्वाह-] इत्यादिना ।
रुद्रटः काव्यालङ्कारकर्ता कविविशेषः । तु । 'मसमस्ता न समस्तं समासयुक्तं पदं यत्रे'ति सा। एकसमस्ता एकमसहायं मृदुलमिति यावत्, समस्तं समायुक्तं पदं यत्रेति सा। समासाभावस्यैकान्तमसम्भवे मृदुल: समासोऽपि युक्त इति भावः । 'एकं सङ्ख्यान्तरे श्रेष्टे केवलेतरयोस्त्रिषु ।' इति: मेदिनी । च तथा । दशभिः । गुणैः श्लेषादिभिः :शब्दनिष्ठत्वेनाभिमतैः । युक्ता सम्पन्ना । वर्गद्वितीयबहुला वर्गेषु वर्गाणां मध्ये इति यावद् द्वितीयो द्वितीयवर्गश्चवर्ग इति यावत् तेन बहुलेति, नतु वर्गाणां वर्गेषु मध्ये इति यावद् द्वितीयो द्वितीयवर्गस्तेन बहलेति । 'न निर्धारणे ॥ २ ।२ । १० ॥' इति निषेधात् । च तथा । स्वल्पप्राणाक्षरा स्वल्पः प्राण उच्चारणप्रयासो यत्रेति तानि स्वल्पप्राणान्यक्षराणि वर्णा यत्र सेति । खल्पप्राणत्वं च 'अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ॥' इति निर्दिष्टानामेव बोध्यम् । सुविधेया सुष्टु विधेयं विधातुमुचितं कवित्वमिति यावद् यत्र सा । अत एव पण्डितराजैः-'व्युत्पत्तिमुगिरन्ती निर्मातुर्या प्रसादयुता ॥' इत्युक्तम् । वैदर्भी । रीतिरिति शेषः । यद्वा'वैदर्भी। सुविधेया सम्यक् समाहितेन चेतसेति भावः विधेया।' इति । वैदर्भीलक्षणमिति शेषः । आह निर्दिशतीति भावः । अत्र निरुक्तस्थले । दश । गणाः। तन्मतोक्ता येन 'युक्ता दशभिर्गुणैश्च ।' इत्युक्तम्, तस्य मते उक्ताः । श्लेषादयः। श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः॥' इत्युक्ता इति यावत् । तन्मते च-'यावनिरञ्जनमजं पुरुषं जरन्तं सञ्चिन्तयामि सकले जगति स्फुरन्तम् । तावदलात्स्फुरति हन्त हृदन्तरे मे गोपस्य कोऽपि शिशुरञ्जनपुञ्जमञ्जुः ॥' इत्याधुदाहरणमवसेयम् । अत्र हि चवय॑जकारस्यैव प्रायेण स्वान्त्येन सम्बन्धः । 'अनङ्गमङ्गलभुवः ।' इत्यायुदाहरणानि तु 'स्वल्पप्राणाक्षरा' इत्युक्तनयेन सम्भवन्ति । इति दिक् । रुद्रटग्रन्थस्तु 'आख्यातान्युपसगैः संसृज्यन्ते कदाचिदर्थाय । वृत्तेरसमासा या वैदर्भी रीतिरेकैव ॥...अन्यूनाधिकवाचकसुक्रमपुष्टार्थशब्दचारुपदम् । क्षोदक्षममक्षुण्णं सुमतिर्वाक्यं प्रयुञ्जीत ॥' इति । अथ पूर्वापरपर्यालोचनया 'रुद्रटस्त्वाहः...' इत्यादि अन्थो विलक्षण एवं प्रतिभासते। अन्यूनत्वादीनामेव गुणत्वेन तत्राभिमतत्वात्तथाविधस्यास्य च सर्वथा विरुद्धत्वात् ।। नाप्यन्यस्तदीयो ग्रन्थः । यत्रत्योऽयं स्यात् 1 एवं च काव्यालङ्कारप्रारम्भे 'साहित्यदर्पणस्य नवमपरिच्छेदे रुद्रटमतमुपन्यस्तमस्ति...अन्यो ग्रन्थस्तु रुद्रटकृतो न प्राप्यते।' इति लिखन्तः, प्रन्थस्य च तस्य शोधने प्रवृत्ताः पण्डितपादा नमस्कार्या एवेति । अस्मन्मते च पुरुषोत्तमस्यायं प्रन्यः ।]