________________
परिच्छेद
रुचिराख्यया क्याख्यया समेतः । सा रीतिः। तत्र
५६ माधुर्यव्यञ्जकैर्वणै रचना ललितात्मिका ॥ ५० ॥
अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते ।
रुपनागरिकोच्यते । ओजःप्रकाशकैस्तैस्तु परुषा, कोमला परैः ॥ केषाञ्चिदेता वैदर्भी प्रमुखा रीतयो मताः ॥' इति मम्मटनिर्देशेन पुनस्त्रिविधा । अत्रैवं विप्रतिपत्तौ यथाशेमुषि यथासम्भावनं वा रीतिसङख्याव्यवस्था प्रतिभाति । अथापि वामनमतेन 'समग्रगुणा वैदर्भी ॥१२॥ ११॥.'ओजः कान्तिमती गौडीया ॥ १।२ । १२ ॥ माधुर्यसौकुमार्योपपन्ना पाञ्चाली ॥१।२ । १३ ॥' इति वैदर्भीगौडीयापाञ्चालीनां लक्षणानि । तत्र'गाहन्तां महिषा निपानसलिल शृङ्गैर्मुहस्ताडित छायाबद्धकदम्बक मृगकुलं रोमन्थमभ्यस्यताम् । विस्रब्धः क्रियता वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥' इति स्वेनैव निवेदिते समग्रगुणाया उदाहरणे 'गाहन्ता'मिति कर्तकारकवाचकतिङः प्रक्रमे 'क्रियता' मिति कर्मकारकवाचकोपादानात् समताप्रतिद्वन्द्विभूतस्य भग्नक्रमत्वस्य दोषस्य स्फुटमुपलब्धौ कथं गुणसाकल्यम् ? । अथ-गौडीयापाञ्चाल्योर्घटकानामोजःकान्तिमाधुर्यसौकुमार्यगुणानामसद्भावे काऽपि रीतिरङ्गीकर्तव्येति प्रतीयते । कथमन्यथा-'विशिष्टा पदरचना रीतिः ॥ ॥१।२।७॥ विशेषवती पदानां रचना रीतिः । कोऽसौ विशेष इत्यतआह-विशेषो गुणात्मा ॥ १ । २। ८॥' इति तेनैवाभिहितं सङ्गच्छेत । तत् पुन: पर्यवसिता । चतुर्थी लाटीया । एवं दण्डिमतेन न द्वे एव रोती । 'अस्त्यनका गिरां मार्गः सुक्ष्मभेदः परस्परम ।' इति तेनैवाभिहित्वाद्वैदर्भागौडीयाऽभिधानं केवलं तयोः प्रस्फुटं भिन्नत्वावगमकम् । तथा-केशवमतेन 'गौडी समासभूयस्त्वाद्वैदी च तदल्पतः । अनयोः सङ्करो यस्तु मागधी साऽतिविस्तरा ॥' इति श्रीपादनिर्दिष्टमेव गौडीवैदर्मीमागधीनां लक्षणम् । तत्र मागध्येव पाञ्चाली । समासाल्पत्वानल्पत्वान्तराले समस्तपञ्चषट्पदात्मकत्वस्य स्फुटमुपलब्धः । यात्पुनर्लाटीया साध्येतन्मते न मागध्याऽतिरिच्यते । 'मागधी साऽतिविस्तरा' इति श्रीपादेन, मागध्युदाहरणप्रदर्शनान्तरं च 'इयं बहुधा । विस्तृतमन्यत्रे'ति स्वेन चाभिहितत्वात् । भोजराजमतेन 'आवन्तिका मागधी चेति रीतिद्वयमधिकम् । तत्र- 'अन्तराले तु पाञ्चालीवैदभ्योर्याऽवतिष्ठते । साऽऽवन्तिका समस्तैः स्याद्वित्रैस्त्रिचतुरैः परैः ॥' इत्युक्ताऽऽवन्तिका न लाटया पृथक्, एवम्-'पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी ॥' इत्युक्तलक्षगा तु मागधी रीतिद्वयरूपेति तन्मतस्वारस्यात्तत्रतत्र काममन्तर्भाव्या । वस्तुतस्तु क्वचिदसौ प्रक्रमभङ्गरूप: स्वरूपसन् दोष एव, यदप्येवं मम्मटमतेन न खरूपतो निर्दिष्टा चतुर्थी रीतिः । तथाऽपि 'शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः॥...लाटजनवल्लभत्वाच लाटानुप्रासः ।' इत्युक्तदिशा लाटानुप्रासानुबन्धिनी लाटी रीतिरिति स्फुटम् । इति ॥ ४९ ॥
अथ सन्देहापनोदनाय कारिकास्थं से' ति परं व्याचष्टे-खा 'से' ति पदवाच्या । रीतिः । इति ।
ननु किंकिंस्वरूपास्तत्तत्प्रभेदा इत्याह-तत्र तेषु चतुर्ष रीतेः प्रभेदेषु । ५६ माधुर्यव्यञ्जकैर्माधुर्यस्य व्यञ्जकास्तैः । वर्णः 'मूर्ध्नि वर्गान्त्यवर्णेन युक्ताष्टठडढान् विना । रणौ लघू चे' ति निर्दिष्टैरक्षरैः । अत्र-'कर्तकरणयोस्तृतीया ॥२।। १८॥' इति करणे तृतीया । तथा च-माधुर्यव्यञ्जकवर्णद्वारेति निष्कृष्टोऽर्थः । यद्वा-'धान्येन धनवा'नितिवदभेदे तृतीया। तथा च-तत्तदभिनेति भावः । ललितात्मिका ललित आत्मा स्वरूपमस्या इति । ललितत्वं च सुकुमारबन्धचारुत्वम् । रचना। तथा-अवृत्तिन वृत्तिः समास इति, न वृत्तियत्रेति वा सा । 'नया' ॥२॥२॥ ९॥ इति नत्रा समासः । 'नलोपो नञः ॥' ६ । ३ । ७३ इति नलोपः । इति । वा । अल्पवृत्तिरल्पा वृत्तिः समास इति, न वृत्तिर्यत्रेति वा, सा । वैदर्भी तदाख्या रीतिः । इष्यते । कविभिरिति शेषः । रसगङ्गाधरकारास्तु-'एभिर्विशेषवचनैः सामान्यैरपि च दूषणै रहिता । माधुर्यभारभगुरसुन्दरपदवर्णविन्यासा ॥ व्युत्पत्तिमुद्गिरन्ती निर्मातुर्या प्रसादयुता । तां विबुधा वैदर्भी वदन्ति वृत्तिं गृहीतपरिपाकाम् ॥' इत्याहुः । अत्रायं निष्कृष्टोऽर्थः-माधुर्यव्यञ्जको गुम्फो वैदी । तथा हि-यावद्भिवणैर्माधुर्यमभिव्यज्यते ते एव तावन्तो वर्णा वैदर्भीपदवाच्याः। तथा-समासाभावः समासाल्पत्वं वा