________________
११४
- साहित्यदर्पणः ।
. . [ नवमःरखादीनाम् , अर्थात्-शब्दार्थशरीरस्य काव्यस्यात्मभूतानाम् ।
५५ सा पुनः स्याच्चतुर्विधा ॥ ४९ ॥ वैदर्भी वाऽपि गौडी च पाञ्चाली लाटिका तथा।
न चाल्पगणा । समस्तगुणायाः 'समगुणा वैदर्भी ॥ १।२।११' इति निर्दिष्टस्वरूपाया वैदास्तत्त्वानुदयात् । नापि च समस्तासमस्तगुणा । एकस्या रीतेः समस्तासमस्तगुणत्वासम्भवात् । ननु समस्तगुणा असमस्तगुणा वा भवतु नाम रीतिः, किन्तु तथा विधैवासौ रीतिरात्मा काव्यस्येति चेत्तदपि न । 'तासां पूर्वा ग्राह्या गुणसाकल्यात् ॥ १।२।१४ | तासां तिसृणां रीतीनां पूर्वा वैदर्भी ग्राह्या । गुणानां साकल्यात् । न पुनरितरे, स्तोकगुणत्वात् ॥ १।२।१५। इतरे गौडीयपाचाल्यो न प्राधे । 'स्तोकगुणत्वात् ।' इति समग्रगुणाया एव रीतेरुपादेयत्वविधानस्य वैयापत्तेः । न तर्हि समस्तगणैव रीतिरात्मा काव्यस्थेत्यापाततः सिद्धम् । इत्यभिधेयम् । काव्यात्मत्वघटकपदार्थस्यैव रीतिपदवाच्यत्वेऽन्ययो रीतित्वस्यैवानुत्पत्तेस्तथाऽभिधानस्य वैवर्थ्यात् । न चेदं वक्तव्यम् ,समस्तगुणा वैदर्भी बाढं काव्यस्यात्माऽसमग्रगुणे न पुनगौंडीपाञ्चाल्यौ। इति । तथा सत्यात्मपदार्थस्याभिन्नत्वनैव प्रतीतेः । तदङ्गीकारे चोपस्थितोऽस्माकमेव पन्था तिरोहितश्च मुरारेस्तृतीयः पन्था । तस्यात्मपदार्थस्य रसस्वरूपताया एवमवश्यमभ्युपेयात् । इति ।
अथ पूर्वोक्तं स्मारयन् निरुक्तकारिकागतं 'रसादीना मिति पदं विवृणोति-रसादीनामित्यादिना । । 'ननु रीतेः साक्षादेव शब्दस्योत्कर्षाभिधायकत्वं निरुक्तम् , परम्परया तु रसादीनामित्युपपन्नम् , तथाऽपि तस्याः काव्योत्कर्षाधा- ' यकत्वमनुपपन्नमित्यत आह-रसादीनामिति तु तवागीशाः ।]
रसादीनां रस आदौ येषां तेषाम् । ‘चन्द्रशेखर' इत्यादिवत् सप्तम्यन्तेन व्यधिकरणो बहुव्रीहिः । रसादीनामिति पदस्येति भावः । अर्थात् सम्भवबलात् । शब्दार्थशरीरस्य । शब्दार्थो शरीरं यस्येति तस्य, तथाभूतस्येत्यर्थः । काव्यस्य । आत्मभूतानामात्मस्वरूपाणाम् । इत्यर्थः । अत्राय निष्कर्षः-काव्यं हि शब्दार्थशरीरं तावन्तरेण तस्यानुपलम्भात् । न च रीतिस्तस्यात्मभूतेति वक्तुं युज्यते, अस्या अपि शब्दार्थाभिन्नत्वात्, अथ कस्तस्यात्मेति चेद् रसादयः । न चात्मा नित्यः, रसादयः पुनरनेके इति न तथाभूता भवितुमर्हतीति,एकस्यैव नित्यत्वश्रवणात् । इति वाच्यम् । उपाधि. वशाद भेदे भासमानेऽपि तेषां स्वरूपतस्तत्र तस्यानुपलम्भात् । स्वरूपतश्च 'रस्यते आस्वाद्यते' इति निर्वचनवलाचमत्कारविशेषात्मैव । तस्यैवास्वादात्मकत्वस्फुरणात् । स च शृङ्गारादौ निर्वेदादो तदाभासादौ चानन्यः । पदसघटना तुरीतिः। पदानि पुनर्विशिष्टानीति शब्दार्थेभ्यो नातिरिच्यन्ते । इति शब्दार्थशरीरस्य काव्यस्योत्कर्षिका रीतिः, तद्द्वारा चाङ्गसस्थाविशेषवदात्मभूतानामपि रसादीनामुत्कर्षिकेति ।
अथ तस्याश्चतुरः प्रभेदान् स्वीकुर्वन्नाह-५५ सेति ।
५५ सा निरुक्तलक्षणा प्रसिद्धा वेति भावः । पुनः । रीतिरिति शेषः । वैदर्भी विदर्भाणां विदर्भदेशभवानामहाकवीनामिति यावद्, इयमिति तथोक्ता । 'शेषे । ४ । २।९२' इत्यण् । : टिड्ढाणअद्वयसज्दनमात्रच्तयप्ठकूठअकसकरपः ॥' ४१। १५ इति डीप् । वा । गौडी गौडानां देशभवानां महाकवीनामिति यावद इयमिति तथोक्ता । अपि । च तथा । पाञ्चाली पाञ्चालानां पञ्चालदेशभवानां महाकवीनामिति यावद् इयमिति तथोक्ता । तथा। लाटिका । लाटे देशविशेषे भवा इति लाटास्तेषां लाटानां महाकवीनामिति यावद् इयमिति तथोक्ता । इतीति शेषः । चतुर्विधा चत्वारो विधाः प्रकारा अस्या इति तथोक्ता । स्याद भवेत् । उक्त च वामनेन 'विदर्भादिषु दृष्टत्वात्तसमाख्या ॥'१।२।१० इति । अत्रेयं सङ्कलना-'वैदर्भी गौडीया पाञ्चाली ॥१।२।९' इति वामनमतेन त्रिप्रकारा रीतिः, 'अस्त्यनेको गिरां मार्गः सूक्ष्मभेदः परस्परम् । तत्र वैदर्भगौडीयौ वयेते प्रस्फुटान्तरौ ॥' इति दण्डिसिद्धान्तेन द्विप्रभेदा, 'ततदसोपकारिण्यस्तत्तद्देशसमुद्भवाः । पद्येषु रीतयो गौडी वैदर्भी मागधी तथा ॥' इति केशवमतेन त्रिविधा, 'वैदर्भी चाथ पाञ्चाली गौडी चावन्तिका तथा । लाटीया मागधी चेति षोढा रीतिर्निगद्यते ॥' इति भोजराजमतेन षट्प्रकारा, 'पाञ्चाली लाटीया गौडीया वैदर्भी चेति रुद्रटाभिप्रायेण चतुर्विधा, 'माधुर्यव्यजकैर्व