________________
नवमः परिच्छेदः।
अथोद्देशक्रमप्राप्तमलङ्कारनिरूपणं बहुवक्तव्यत्वेनोल्लङ्घ्य रीतिमाह
५४ पदसङ्घटना रीतिरङ्गसंस्थाविशेषवत् । उपकी रसादीनाम्,
समस्तैर्देवेन्द्रर्दनुजपतिभिश्चार्चितपदं श्रुतीनां मूर्धन्यं त्रिभुवनसमुद्धारनिरतम् ।
परम्प्रेम्णा गम्यं सुकृतिजनसन्तापहरणे सदोयुक्तं नक्तन्दिनमहमुपासेऽम्बुदरुचिम् ॥
'उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ।' इत्युक्तनयेन गुणनिरूपणानन्तरं क्रमप्राप्तमपि अलङ्कारनिरूपणमविधाय यतो रीति निरूपयितुमुपक्रमते तत् कारणं निदर्शनीयं मन्वान आह-अथेत्यादि ।
अथ गुणनिरूपणानन्तरमिति भावः । उद्देशक्रमप्राप्तमुद्देशस्य 'उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ।' इत्यत्र सूत्रे मणीनामिव गुणादीनां सन्निवेशस्य पूर्वपश्चाद्भावेन निर्देशस्येति यावत् क्रमः शैलीति, तं प्राप्तमिति तत् तथोक्तम् । उद्देशनमुद्देशः । 'भावे ।' ३।३ । १८ इति घञ् । 'द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापत्नैः॥'२।१।२४ इत्यनेन 'क्रमप्राप्तम्' इत्यत्र समासः । अलङ्कारनिरूपणमलङ्काराणां निरूपणमिति तत् । अलङ्काराश्च शब्दगताः पुनरुक्तवदामासादयः, अर्थगता उपमादयः । अलक्रियते शब्दोऽर्थो वाऽनेनेत्यलङ्कारः। 'अकरि च कारके सज्ञायाम् ॥ ३१३।१९ इति घञ् । निरूप्यते इति निरूपणम् । 'ल्युट् च ।' ३।३ । ११५ इति ल्युट् । 'युवोरनाकौ ।' ७।१।१। इत्यनादेशः । बहवक्तव्यत्वेन बहवो वक्तव्या प्रतिपादनीया विषया इति शेषो यत्र तत्त्वेन । अनल्पप्रतिपादनीयविषयत्वेन हेतुनेति शेषः । 'हेतौ॥' २।३।२३ इति तृतीया । उल्लङ्य परिहाय पुनः प्रतिपादयितुमुपेक्ष्येति यावत् । अत्रोपेक्षणं सूची. कटाहवत् । रीतिम् । आह-अत्रेदमभिहितं भवति-यथा प्रतिज्ञातपूर्वमपि कटाहनिर्माणं न झटिति सम्भवत्स्वरूपमिति कञ्चित्समयमपहायाप्रतिज्ञातपूर्वमपि सूचीनिर्माणं झटिति साध्यमिति मन्वानस्तत्र तावदुपक्रमते तथाऽलङ्कारा अनल्पप्रति-- पादनीयविषया इति तेषां निरूपणमपि नाल्पकालसाध्यमिति तदल्पकालमपहायेषन्निरूपणीयविषयां रीतिमेव प्रथमं निरूपयितुमुपक्रमते-५४ पदमङ्गटनेत्यादिना। .
५४ अङसंस्थाविशेषवदङ्गानां लोचनादीनामवयवानां संस्था सनिवेश इति तद्विशेषस्तदीयः कश्चिद्वैलक्षण्यावहः प्रकारस्तद्वत् । शरीरस्येति शेषः । यथा शरीरस्याङ्गसंस्थाविशेषस्तथेति भावः । रसादीनां रस आदौ येषा (भावतदाभासादीनाम् ) तेषाम् । उपकर्ती उपकारिकोत्कर्षाधायिकेति यावत् । 'वुल्तचौ ॥३।१।१३३ इति तृच् । पदसङ्घटना पदानां पदविशेषाणा सङ्घटना सन्निवेश इति । पदविशेषाश्च माधुर्यादिगुणव्यञ्जकवर्णा• दिरूपाः । सङ्घट्यन्ते सन्निविश्यन्ते पदान्यस्यामिति । 'ल्युट्च ॥' ३।३ । ११५ इति ल्युट् । 'अजाद्यतष्टाप् ॥ ४ । १।४' इति टाप् । रीतिस्तत्पदवाच्या इति भावः । रीयते ज्ञायते गुणानां निवेशोऽनयेति । गत्यर्थकाः सर्वे ज्ञानार्थका अपीति 'रीङ्' गतावित्यस्मात् 'स्त्रियां क्तिन् ॥ ३।३ । ९४' इति क्तिन् । माधुर्यादिगुणनिवेशज्ञापिकेति भावः । अत्रेदमवधेयम्-यथाऽङ्गसंस्थाविशेषोऽगिन शरीरमुत्कर्षयंस्तदन्तर्यामिनं शरीरिणमप्युत्कर्षयन्ति, तथा पदवर्ण समासादिसङ्घटनाऽऽत्मिका रीतिः शब्दार्थशरीरं काव्यमुत्कर्षयन्ती तदात्मभूतं रसादिकमप्युत्कर्षयन्तीति रीतेर्व्यभिचारित्वं पदसङ्घटनाया अन्यत्रापि सत्त्वादतिव्याप्तिवारण च । अङ्गसंस्थाविशेषवत्त्वान्नास्या रसादिधर्मत्वं, येनेयं तत्रतत्र नियतवृत्तिः स्यात्, रसादीनामुपकर्तीति विशेषणबलाच्च पदसङ्घटनामात्रत्वाभावान्नास्या अतिपातः । तथा च-स्वाश्रयव्यङ्गयरसादिवृत्तिगुणव्यञ्जकतया तेषां रसादीनामुत्कर्षाधायिका रीतिरिति, गुणाभिव्यञ्जकपदवर्णसमासादिसङ्घटना रीतिरिति वा फलितम् । यत्तु वामनेन 'रीतिरात्मा काव्यस्य' ॥ १।२।६ इत्युक्तम् । तदवलोकनीयम्-तत्र, समस्तगुणा रीतिरात्मा काम्यस्य आहोस्विद् असमस्तगुणा । उत समस्तासमस्तगुणा । न तावत् समस्तगुणा 'ओजःकान्तिमती गोडीया ॥ १।२।१२००० माधुर्यसौकुमार्योपन्ना पाञ्चाली' ॥ १।२ । १३ इत्युक्तस्वरूपयोरल्पगुणयोगोंडीपाञ्चाल्योस्तत्त्वाप्रवृत्तेः।