________________
साहित्यदर्पणः।
[ अष्टमः परिच्छेदः ।
वामनेन च शब्दार्थगता दशगुणा अभिहितास्तेषां तु यथा न गुणत्वं तथा समर्थितमेव । अथ-'संक्षिप्तत्वमुदात्तत्वं प्रसादो. किसमाधयः । अत्रैवान्यसमावेशात् पञ्च शब्दगुणाः स्मृताः ॥' इति पञ्च शब्दगुणाः-'भाविकत्वं सुशब्दत्वं पर्यायोक्तिसुधर्मिता । चत्वारोऽर्थगुणाः प्रोक्ताः ।' इति चत्वारश्चार्थगुणाः । केशवेन-'अन्यूनाधिकवाचकसुक्रमपुष्र्टीर्थशब्दचारुपदम् । क्षोदक्षममक्षुण्ण सुमतिर्वाक्यं प्रयुञ्जीत ॥'इति सप्त शब्दगुणा अर्थगुणाश्च, रुद्रटेन-श्लेषः प्रसादःसमता माधुर्य सुकुमारता । अर्थव्यक्तिस्तथा कान्तिरुदारवमुदात्ततो ॥ ओजस्तथाऽन्यदौर्जित्य" प्रेयोनथ सुशब्दता । तद्वत्समाधिः सौश्यं च गाम्भीर्यमथ विस्तरः ॥ सझेप : सम्मितत्वं च भाविकैवं गतिस्तथा । रीति क्तिस्तथा प्रौडि ।' इति चतुर्विशतयः शब्दार्थगुणा भोजराजेन च निरूपिता न गुणपदवाच्याही' इत्येव सूचयितुं ग्रन्थकारैः 'इत्येवमादीनामन्यैरुक्तानां न गुणत्वमित्यत्रादिपदं प्रयुक्तं प्रतिभाति । तत्र-स्वल्पाक्षरेण भूयोऽर्थकथनं सइक्षेपः स एवार्थौजसः समासरूपश्चतुर्थः प्रभेदः लाध्यविशेषणत्वमुदात्तत्वं, तच्चार्थीजसः. पञ्चमः प्रभेदः । झटित्वर्थप्रत्यायकत्वं प्रसादः, स च गुण एव स्वनामकृतार्थः । कौशलादर्थविशेषलाभ उक्तिः, सा च माधुर्याख्योऽर्थगुण एव । अन्यधर्माणामन्यत्रारोपणं समाधिः , स चालङ्कारविशेषः । रूपके तस्यान्तर्भावसम्भवात् । अभिप्रायपूर्वकाभिधानं भाविकत्वम्, तच्चार्थौजसः पञ्चमः प्रभेदः । दारुणेऽर्थेऽदारुणपदता सुशब्दत्वम्, तत्र समासोक्तिर्नामार्थगुणः । यत्र विशेषणद्वारा विशेष्यलाभः, सा सुधर्मिता, सा चोथौजसः प्रथमः प्रभेदः । इति न शब्दगता न वाऽर्थगता गुणाः केशवोक्ता भवितुमर्हन्ति । अथ-अन्यूनवाचकत्वमनधिकनाचकत्वं सुक्रमशब्दवं चारुदत्वं पुटार्थशब्दत्वं क्षोदक्षमत्वमक्षुण्णवं चेति रुद्रटोक्ताः सप्तगुणाः, तत्र न्यूनत्वाधिकपदत्वभनकमत्वग्राम्यत्वापुष्टार्यत्वदोषाभावरूपाः पञ्चाद्या गुणाः । अथ पञ्चमः, सोऽोजसः पञ्चमः प्रकारः । षष्ठः पुनरर्थगतः समाधिः । इति रुद्रटोक्ता अपि न गुणाः । एवम्-श्लेष-प्रसाद-समता-माधुर्य-सौकुमार्यार्थव्यक्ति-कान्त्यु-दारत्वौ-दात्तत्वौ-जः-सुशब्द. स्व-समाधि-सक्षेप-भाविक-त्वोक्तीनां भोजराजप्रतिपादितानां पञ्चदशानां गुणत्वाभावः प्रदर्शित एव । अथ-'गाढवन्धत्व मौर्जित्यम्, तच्च शब्दगत ओजोनामा गुणः। चाटूक्तिसहकारिप्रियतराख्यानत्वं प्रेयान् स च सौकुमार्यमोजसः पञ्चमः प्रभेदो या । शब्दानामन्तःसञ्जल्परूपत्वं सौक्षम्यम् । तचौ जसश्चतुर्थः प्रभेदः । धनिमत्ता गाम्भीर्यम्, तत् कान्तिरर्थगुणः । व्यासे. नाभिधानं विस्तरः, स चौजसस्तृतीय. प्रभेदः । यावदर्थपदवं सम्मितत्वम्, तबौजसः पञ्चमः प्रभेदः । आरोहावरोहयोः क्रमो गतिः, सा च शब्दसमाधिः । उपक्रमनिर्वाहो रीतिः, सा च-समता। उक्तिप्रौढपरिपाकः प्रौडिः, असौ चार्थ. श्लेषः । इत्यवशिष्टानामपि न गुणत्वम् । इति ।
अथ प्रकरणप्रदर्शनमुपसंहरन्नाह-इतीत्यादि ।
इति । श्रीविश्वनाथकविराजकृतौ विश्वनाथकविराजस्य कृतियत्नविशेषस्तद्रूपे । साहित्यदर्पणे तद. भिधेयेऽलङ्कारशास्त्रे । गुणविवेचनो गुणानां विवेचन विवेको यत्र यस्माद्वा सः । नाम प्रसिद्धः। अष्टमः । परि च्छेदः। समाप्त इति शेषः ।
सुविदिताखिलपावनसुश्रवं मधुरतादिगुणैकविभूषणम् ।
श्रुतिमनोरमणीयतया सतां सुनयनं नयनन्दनमाश्रये ॥ इति श्री शिवनाथसूरिसूनुश्रीशिवदत्त कविरत्न' प्रणीतायां श्रीसाहित्यदर्पणस्य रुचिराऽभिधेयायां व्याख्यायो
गुणविवेको नामाष्टमः परिच्छेदः समाप्तः । शुभम्भुयात् ।