________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। क्वचित् 'चन्द्रम्' इत्येकस्मिनु पदार्थ वक्तव्ये 'अत्रेनयनसमुत्थं ज्योतिः' इति वाक्यवचनम् । क्वचित् 'निदाघशीतलहिमकालोष्ण सुकुमारशरीरावयवा योषित्' इति वाक्यार्थे वक्तव्ये 'वरव. णिनी' इति पदाभिधानम् । क्वचिदेकस्य वाक्यार्थस्य किश्चिद्विशेषनिवेशादनेकैर्वाक्यैरभिधानमि. त्येवंरूपो व्यासः । क्वचिद्धहुवाक्यप्रतिपाद्यस्यैकवाक्येनाभिधानमित्येवं रूपः समासश्च । इत्येवमा. दोनामन्यैरुक्तानां न गुणत्वमुचितम्, अपितु वैचित्र्यमात्रावहत्वम् ।
५३ तेन नार्थगुणाः पृथक् ॥ ४८॥ तेनोक्तप्रकारेण । अर्थगुणा ओजः प्रभृतयः प्रोक्ताः। इति श्रीविश्वनाथकविराजकृती साहित्यदर्पणेगुणविवेचनो नामाष्टमः परिच्छेदः ।
स्कारविशेषस्याप्रयोजकत्वेन हेतुना । गुणत्वम् । न । असाधारणरूपस्यैव रसस्य शोभाऽऽधायकस्य गुणपदवाच्यत्वादिति भावः । किन्तु । काव्यशरीरमात्रनिवर्तकत्वम् । काव्यशरीर मिति चात्रार्थः । मात्रपदेन रसस्य तदात्मभूतस्य व्यवच्छेदः । - इत्येवं वामनादिभिरङ्गीकृतान् अर्थगुणानपि निरस्य सिंहावलोकनन्यायेन पञ्चमप्रभेदस्यैव पूर्वमपुष्टार्थत्वनिराकरणात्मकतामभिहितामवलोक्य तस्यौजसः पुनश्चतु भेदानां कादाचित्की गुणत्वशङ्कामवेत्य च तेषामपि गुणत्वं निराकर्त प्रवृत्त आह-कचिदिति।
क्वचित् 'चन्द्रं विलोकये'त्यत्र । 'चन्द्रम्' इतीत्येवम् । एकस्मिन् । पदार्थे । वक्तव्ये । सतीति शेषः । 'अनेः स्वनाम्नैव प्रसिद्धस्य मुनेः । नयनसमस्थम । ज्योतिस्तदात्मकं चन्द्रं पश्येति शेषः ।' इति व वचनमुक्तिः । तथा-कचित् 'सद्यो निदाघपरितापविघातभूमिः शैत्यं निवर्त्तयितुमभ्युदिता च नित्यम् । श्यामा शिरी. षमृदुलावयवा मनोज्ञा कि मां कदाऽपि सुभगं न विधास्यतीयम् ।।' इत्यत्र । 'निदाघशीतलहिमकालोष्णसुकुमारशरीरावयवा । निदाघे शीतलाः । हिमकाले उष्णाः । योषित् ।' इति । वाक्यार्थे न तु पदार्थे। वक्तव्ये । सतीति शेषः । 'वरवर्णिनी' इति । पदाभिधानम् । 'शीतकाले भवेदुष्णा योष्णकाले च शीतला । सुकुमारशरीरा च सा ज्ञेया वरवर्णिनी ॥' इत्यभिहितत्वात् । तथा-क्वचित-'दैवाधीनं जगत्सर्व'मित्यत्र । एकस्य । वाक्यार्थस्य । किश्चित् । विशेषनिवेशद् विशेषेण भेदेन निवेशस्तस्मात् । अनेकैः ‘अयाचितः सुख दत्ते याचि. तश्च न यच्छति । सर्वस्वं चापि हरते विधिरुच्छृङ्खलो नृणाम् ॥' इत्यत्रत्यैः । वाक्यैः । अभिधानम् । इत्येवरूपा मित्येवं रूपं यस्य सः । व्यासो विस्तरः । च तथा । कचित् । ‘राज्यं परित्यज्य पितुर्नियोगाद् वनं प्रपद्याशु मुनीन् विलोक्य । तैरर्थितो दूषणमेष हत्वा ददौ सुराज्य शरणागताभ्याम् ॥' इत्यत्र । बहुवाक्यप्रतिपाद्यस्य । रामावणसर्वस्वभूतत्वात् । एकवाक्येन पूर्वोक्तेन । अभिधानम् । इत्येवरूपः। समासः संक्षेपः। इत्येवमादीनाम् । अत्रादिपदं भोजराजप्रतिपादितानामन्येषां कतिपयगुणानां संग्रहपरम् । अन्यामनभोजराजादिभिः । उक्तानां गुणत्वेन कल्पितानाम् । गुणत्वम् । न उचितम् । अपि तु किन्तु । वैचित्र्यमात्रावहत्वम् । मात्रपदं रसोपकारित्वव्यवच्छेदकम् । गुणत्वं रसोपकारित्वमात्रलभ्यम्, तच्च माधुयोजःप्रसादानामेव । अन्येषां तु वर्णनवैचित्र्यनिदर्शकत्वमात्रम् । इति माधुर्योजःप्रसादा इति त्रय एव गुणाः, अन्ये तु कल्पिता न वस्तुत इति भावः ।
उपसंहरति- ५३ तेनेति । ५३ तेनोक्तप्रकारेण । अर्थगुणा ओजःप्रभृतयः । पृथक् । न सन्तीति शेषः ॥ ४८ ॥ 'तदेव विवृणोति-तेन । उक्तप्रकारेण । अर्थगुणाः । ओजःप्रभृतयः । प्रोक्ताः । परैरिति शेषः । न गुणा इति कारिकांशेन सम्बन्धः ।
____ अत्रेदमवसेयम्-'श्लेषः प्रसादैः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥' इत्येव . दण्डिना 'ओजः प्रसाद श्लेषसमतासमाधिमाधुर्यंसौकुमार्योदाराऽर्थव्यक्तिकान्तयो बन्धगुणाः ॥ ३ । १ । ४' इति