________________
११०
साहित्यदर्पणः ।
( अष्टमः
त्तिग्रहणव्यग्रतया रसास्वादो व्यवहितप्राय इत्यस्यागुणता । समता च प्रक्रान्त प्रकृतिप्रत्यया वि पर्यासेनार्थस्य विसंवादित विच्छेदः । स च प्रक्रमभङ्गरूपविरह एव । स्पष्टमुदाहरणम् । ५२ न गुणत्वं समाधेश्च
समाधिश्वायोन्यन्यच्छायायो निरूपद्विविधार्थदृष्टिरूपः । तत्रायोनिरर्थो यथा'सद्यो मुण्डितमत्त हूण चिबुकप्रस्पर्धि नारङ्गकम् ।' इति । अन्यच्छायायो निर्यथा
'निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिताकाऽपि ।
नीलोत्पलेsपि विमृशति करमयितुं कुसुमळावी ||६६॥ इति । अत्र नीलोत्पलनयनयोरतिप्रसिद्धं सादृश्यं विच्छित्तिविशेषेण निबद्धम् । अस्य च असाधारणशोभानाधायकत्वान्न गुणत्वम्, किन्तु काव्यशरीरमात्र निवर्त्तकत्वम् ।
मूल्यविचारवत् ॥' इत्युपहसितम् । अत्र काव्यप्रकाशकारा :- "लेषोऽपि विचित्रतामात्रम् । इति काव्यप्रकाशव्याख्याकारास्तु 'कवेश्चातुर्यमात्रं न गुणः, रसोपकाराभावात्, चुम्बनरूपभोगोपकारेऽपि छले एव चमत्कारातिशया' दित्याहुः ।
अथ समताया गुणत्वमपवदति - समेतेत्यादिना ।
च तथा । यथा श्लेषस्य गुणाभावत्वं तथेति भावः । प्रक्रान्तप्रकृतिप्रत्ययविपर्यासेन प्रक्रान्तस्य प्रकृतिप्र तयोर विपर्यासः विपरीतविन्यासाभावस्तेन तद्वारा प्रकृतिः प्रत्ययोत्पत्तिनिमित्तभूतः शब्दविशेषः । प्रत्ययस्तु प्रकृतिं निमित्तीकृत्य विधीयमानः शब्दविशेषः । अर्थस्य वर्णनीयस्य वस्तुनः । विसंवादिताऽविच्छेदः । विसंवादिताया अङ्गीकृतानिर्वाहस्य विजातीयत्वप्रतिभासस्येति यावत् विच्छेदो वियोगः । समता । उक्तं च वामनेन - 'अवैषम्यं समता ॥ ३२२५॥ इति । च पुनः । स तादृशो विच्छेदः । प्रक्रमभङ्गरूपविरहः प्रक्रमस्य भङ्ग इति प्रक्रमभङ्गो भङ्गप्रक्रमत्वं तद्रूपस्य दोषस्य विरहः । एव न तु गुणः । तावता रसोपकारित्वासम्भवात् । उदाहरणम् । स्पष्टम् । प्रक्रमनिर्वा हावसर एवास्योदयात् ।
अथ समाधे गुणत्वं निषेधति ५२ नेत्यादिना ।
५२ च पुनः । समाधेरर्थगतस्य गुणस्य । गुणत्वम् । न । वामनेनैव गुणत्वं स्वीक्रियते नतु तत्वज्ञेरपीति भावः । अथ समाधिस्वरूपं निर्दिशंस्तस्य दोषाभावमात्रत्वमाह - समाधिरित्यादिना ।
समाधिस्तदभिधेय वामनेन कल्पितोऽर्थगुण इति भावः । च । अयोन्यन्यच्छायायोनिरूपद्विविधार्थटष्टिरूपः । न योनिः कारणं यस्य सः केनाप्यन्येनानुल्लिखितपूर्व इति भावः । अन्यस्य च्छायेति, सा. योनिर्यस्य सोऽन्यच्छाययोनिः अयोनिश्चान्यच्छायायोनिश्चेति तौ रूपं यस्य, सोऽसौ द्विविधार्थस्तस्य दृष्टिर्दर्शनस्तद्रूपः । उक्तं च वामनेन 'अर्थदृष्टिः समाधिः ॥ ३ । २ । ७ । १००अर्थो द्विविधः 'अयोनिरन्यच्छायायोनिर्वा ॥ ३ । २ । ८ ॥ इति तत्रायोन्यच्छायायोन्योर्मध्ये । अयोनिः | अर्थः । यथा - 'सद्यस्तत्क्षणम् । मुण्डितमत्तहूणचिबुक प्रस्पधिं । मुण्डितं यन्मत्तणचिकस्तत्प्रस्पर्धि । हूणः पाश्चात्यो यवनविशेषः । चिबुकमोष्ठाधोभागः । नारङ्गकम् । ' इति । अत्र नारङ्गस्य मुण्डितहूणचिबुकेन सममुपमानोपमेयभावो न केनापि परेण कविना प्रदर्शितः । अन्यच्छायायोनिरर्थ इति शेषः । यथा
" का अपि । मुग्धेति शेषः । कुसुमलावी कुसुमानि लावयति च्छिनत्तीति, स्त्री चेत्तथोक्ता । मालाकाराङ्गनेत्यर्थः । निजनयनप्रतिबिम्बैर्निजनयनयोः प्रतिविम्वान्यनेकत्र प्रतिच्छायाभासास्तः । अम्बुनि जले । बहुशो नतु एकवारं द्विवारं वा । प्रतारिता वञ्चिता । नीलोत्पलत्रोटनधिया प्रवृत्त्यनन्तरमपितदलाभात् । नीलोत्पले । अपि तु नयनप्रतिबिम्बमात्रतया भासमाने । करम् । अर्पयितुम् । विमृशति । विचारयति ॥ ६६ ॥' इति ।
अत्र पूर्वमुदाहृतेऽस्मिन् पद्य इति । नीलोत्पलयोः । अतिप्रसिद्धम् । सादृश्यम् । विच्छित्तिविशेषेण विच्छित्तिर्वैचित्र्यम् । निबद्धम् । च । अस्य समाधेः । अाधारणशो भाग्नाधायकत्वाचम