________________
ধৰিক্টৰঃ ]
हचिराख्यया व्याख्यया समेतः। . ष्टित कौटिल्यम्, अप्रसिद्धवर्णनाविरहोऽनुल्बणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः, एषां योगः सम्मेलनं स एव रूपं यस्या घटनायास्तपः श्लेषो वैचित्यमात्रम् । अनन्यसाधारणरसोपकारित्वातिशयविरहादिति भावः । यथा-'दृष्ट्रकासनसंस्थिते प्रियतमे-' इत्यादि । अत्र दर्शनादयः क्रियाः। उभय जमर्थनरुपं कौटिल्यम, लोकव्यवहाररूपमनुलवणत्वम्, 'एकासनसंस्थिते, पश्चादुपेत्य, नयने पिधाय, ईषद्वक्रितकन्धरः' इति चोपपादकानि, एषां योगः। अनेन च वाच्योपप. एवं रूपं यस्याः सेति, सा च या घटनेति, सैवात्मा यस्य सः । श्लेषः। उक्तं च वामनेन 'घटना श्लेषः ॥' ३।२।४ इति । तत्र-क्रमः क्रमपदार्थः । क्रियासन्ततिः क्रियाणां व्यापाराणां सन्ततिः परम्परोत्तरोत्तरं विन्यास इति यावत् । इति । अथ-कौटिल्यं तत्पदवाच्य इति यावत् । विग्धचेष्टितं विदग्धानां महाऽनभावानां पटूनां वा चेष्टितम् । इति । अथ-अनुलवणत्वं तत्पदार्थ इति यावत् । अप्रसिद्धवर्णनाविरहो न प्रसिद्वेत्यप्रसिद्धा, साऽसौ वर्णना तद्विरहस्तत्परिहार इति यावत् । अप्रसिद्धवर्णनविरह इति पाठस्तु श्रेयान् । इति । अथ उपपत्तित्तत्पदार्थ इति यावत् । उपपादकयुक्तिविन्यासः उपपादकानि प्रकृतानुकूलानि वर्णनानि तेषां युक्तयः सङ्घटनोपायास्तासां विन्यासः । इति । एवम्-एषां कमकौटिल्यानवणत्वोपपत्तिपदार्थात्मकानां क्रियासन्तत्याद्यपपादकयुक्तिविन्यासानाम् । योगस्तत्पदवाच्य इति यावत् । सम्मेलनम्। एकत्र सन्निवेशः सनिपातो वेति । सयोगः । एव । रूपं स्वरूपम् । यस्याः । घटनायाः । तद्रूपः । श्लेषोऽर्थगुणः । अन्यत्र तु 'क्रमकौटिल्यमतिक्रमः, तस्यानुल्बणत्वमस्फुटता, तत्रोपपत्तियुक्तिस्तस्या योगः सम्बन्धस्तदूपा या घटना रचना तदात्मा तद्रूपः श्लेषः ।' इति 'क्रमकौटिल्यानुल्बणत्वोपपत्तियोगो घटना स श्लेषः । इति वामनव्याख्यान विशदीकृतम् । स च-वैचिच्यमानं वैचित्र्यमेवेति। मात्रपदं तद्गुणत्वव्यवच्छेदकम्। कुत इत्याह-अनन्यसाधारणरसोपकारित्वातिशयविरहान साधारणो लौकिक इत्यसौ एव रस. स्तस्योपकारित्वमुत्कर्षकत्वं तदतिशय उपकारित्वातिशय उपकारित्वविशेषो वा तदविरहात् । इति । भावः। तथा च-तादृशस्य श्लेषस्य रसोपकारित्वातिशयासम्भवान गुणत्वमिति निष्कृष्टोऽर्थः । ___ उदाहरणं निदर्शयति-यथा-'दृष्ट्वैकासनसंस्थिते प्रियतमे०' । 'दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने पिधाय विहितक्रीडाऽनुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसामन्तहाँसलसत्. कपोलफलकां धूर्तोऽपरां चम्बति ॥' इत्यादि उदाहरण मिति भावः ।
कुतोऽत्र वैचित्र्यमेवेत्याशङ्कथाह-अत्र पूर्वमुदाहृते पद्य । दर्शनादयो व्यापारा इति शेषः । दर्शनोपगमपिधानाद्याः क्त्वाऽन्ताः सर्वे व्यापाराः । क्रियास्तद्पा इति शेषः । उभयसमर्थनरूपमुभयसमर्थनं ज्येष्ठाकनिष्टयोश्चुम्बननयनपिधानाभ्यां प्रीणनं प्रतारणं च तदेव रूपं यस्य तत् । कौटिल्यं विदग्धचेष्टितापरपर्यायम् । लोकव्यवहाररूपं लोकस्य व्यवहार इति, स एव रूपं यस्य तत् । पश्चादुपेत्य, नयने पिधाय' इत्यादिव्यापारात्मक एवं लोकप्रसिद्धो व्यवहारः । अनुल्बणत्वम् ॥'एकासनसंस्थिते एकं च तदासनं तल्पं पर्यङ्करूपमिति यावत् तत्र संस्थिते याभ्यां कृतं शोभनरूपमवस्थानं तादृशी इत्यर्थः । पश्चान्न तु सम्मुखतः कदाचिन्नयनयोरुनयनमन्तराले एवं भवेदिति भयात् । उपेत्य समीपं गत्वा । नयने । पिधाय पिहिते विधाय । हस्तेनेति शेषः । ईषत् किञ्चित् । बक्रितकन्धरो वक्रिता वक्रीकृता कन्धरा ग्रीवाऽनेनेति । इति च । उपपादकानि । उभर स्मकस्य कौटिल्यस्येति शेषः । एषां दर्शनाद्यपपादकान्तानाम् । योगः उपकार्युपकार्यत्वाभ्यामवस्थानात्मकं सम्मेलनमिति यावत् ।च तथा । अनेन योगेन तथा प्रतिसन्धानेनेति यावत् । वाच्योपपत्तिग्रहणव्यग्रतया वाच्यस्याभिधीयमानस्यार्थस्योपपत्तिस्तद्रहणं तत्र व्यग्रता व्यापृता व्याकुलता वा तया । रसास्वादः । व्यव हितप्रायो व्यवहितस्य प्रायस्तुल्य इति । 'प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः ।' इति विश्वोक्तेः । इतीतिहेतोः । तत्तद्वाच्योपपत्तिग्रहणे मनसो व्यापत्तत्वे रसास्वादस्य स्थगितत्वादिति हेतोरिति भावः । अस्य श्लेषस्य अगुणता गुणत्वाभावः । एतादृशवर्णनस्य स्वाभिमुखं मनसो व्याकर्षकत्वेन रसास्वादाभिमुख्याच व्यावतकत्वेन प्रत्युत दोषात्मकत्वम् । तथोक्तं तर्कवागीशैः-'व्यवहितप्रायो विलम्बेनोत्पादितः । अस्य श्लेषस्य । अगुणत्वं गुणविरोधित्वम् । दोषत्वमिति यावत् ।' इति । अत एवं केनापि कविना 'कवितास्वादवेलायां शब्दव्युत्पत्तिचिन्तनम् ।