________________
१०४ साहित्यदर्पणः।
[अपमारसध्वनिगुणीभूतव्यङ्गयाभ्यां कान्तिनामकः ॥ ४७॥ अङ्गीकृत इति सम्बन्धः । अर्थव्यक्तिरर्थस्वभावस्फुटत्वम् । कान्तिर्दीप्तरसत्यम् । स्पष्टे' उदाहरणे।
__५१ श्लेषो विचित्रतामात्रम्, अदोषः समता परम् । श्लेषः क्रमकौटिल्यानुलवणत्वोपपत्तियोगरूपघटनात्मा । तत्र क्रमः क्रियासन्ततिः, विदग्धचे.
अर्थव्यक्तिः । अङ्गीकृतेति शेषः । पुनः । रसध्वनिगुणीभूतव्यङ्याभ्याम् । रसपदस्य प्रत्येकमन्वयः । तेन रसस्य प्राधान्ये रसध्वनिना, अप्राधान्ये पुना रसवदलङ्कारात्मकगुणीभूतव्यङ्गयेनेति निष्कृष्टोऽर्थः कान्तिनामकः। कान्ति. रिति कल्पितोऽर्थगतो गुण इत्यर्थः । अङ्गीकृत इति शेषः । तस्यैतदभिन्नत्वात् कल्पनान्तरवैयर्थ्यमिति भावः ॥ ४१ ॥
'अङ्गीकृत' इत्यध्याहारमन्तरा कारिकायावाक्यत्वानुदयमालोक्याह-अङ्गीकृतः । इति । पदस्थति शेषः । सम्बन्धः । पूर्वेणेति शेषः । अत्रापि वचनविपरिणामेन 'अङ्गीकृता' इति 'अङ्गीकृतः' इत्यस्य च सम्बन्धोऽङ्गीकर्तव्यः । ___ अत्रेदं निरुक्तम्-स्वभावोक्त्यलकार एव यथा कल्प्यतेऽर्थव्यक्तिर्गुणः । तथा-रसध्वनिरेव रसवदलङ्काररूपगुणीभूतव्यङ्गयमेव वा कान्तिः । प्राधान्याप्राधान्यविवक्षया प्रकारद्वयोक्तिः । अत्र पुनराक्षेप:-'ननु अर्थव्यक्तिमेव तदाऽङ्गीकुरुताम् , माङ्गीकार्षीत् स्वभावोक्तिनामानमलङ्कारम् ।' इति, 'अलङ्कारपरित्यागे आत्मभूतस्य रसस्याक्षतत्वेन काव्यत्वस्य पुनर्जागरूकत्वम्, गुणापगमे तस्यैव क्षतत्वापत्तौ काव्यत्वस्यापि व्याहन्यमानत्वमिति सिद्धान्तनयेन अर्थव्यक्तेरसद्भावेऽपि काव्यत्वस्य विचारदृशा स्फूर्यमाणत्वान्न गुणत्व'मिति समाधिः । एवं पुन:-"ननु कान्तिरेव गुणोऽङ्गीकतर्व्यः । न पुमा रसध्वनिर्गुणीभूतव्यङ्गयं वा विसदृशत्वादर्शनादि"त्याक्षेपः । 'कान्तिर्दीप्तरसत्वम् । तच दीप्तो व्यक्तो रसस्तत्त्वम् । रसस्य दीप्तत्वं पुनस्तद्धनिस्तद्वदलङ्कारो वा । अथ-गुणत्वस्वीकारेऽपि रसध्वनिगुणीभूतव्यङ्गययोः स्वीकारजागरूकत्वेन तयोः प्रत्याख्यातव्यत्वेऽपि मानाभावात् तन्मात्र एव कान्तरपि गतार्थत्वं तस्याः स्वीकार्यत्वे च मानाभाव इति गौरवापेक्षया लाघवस्यैव सर्वाभिप्रेतत्वेन नाङ्गीकर्तव्यं कान्तेर्गुणत्वम्,रसध्वनिगुणीभूतव्यङ्गययोश्च तस्यापि अन्तर्भूतत्वेन तयोः स्वीकारापे. क्षया कान्तगुणान्तरत्वस्वीकारावतारस्य गुरुभूतत्वेन तयोरेव स्वीकार्यत्वं न पुनः कान्तगुणत्वमिति वा समाधिः ।
अथ स्वयमपि निर्दिशति तदेव प्रन्थकार:-अर्थव्यक्तिरित्यादिना ।
अर्थस्वभावस्फटत्वमर्थस्य वर्णनीयस्य वस्तुनः खभावस्तत्त्वं तस्य स्फटत्वं तथा भत एव वर्णनोपन्यास इति । अर्थव्यक्तिः । उक्तं च वामनेन 'वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः ॥३।२।१४' इति । दीप्तरसत्वं दीप्तः स्पष्टं भासमानो व्यक्त इति यावद्रसस्तत्त्वमिति । कान्तिस्तदभिधेयोऽर्थगुणः । उक्तं च वामनेनैव 'दीप्तरसत्वं कान्तिः।१३।२।१५। अथैवमर्थव्यक्तः स्वभावोक्तश्चापरपर्यायत्वम्, कान्तेः पुना रसध्वनिना गुणीभूतव्यङ्गयेन वा सह खरूपाभिन्नत्वं सिद्धम् । इति न तयोर्गुणत्वमिति भावः ।
उदाहत्तं प्रवृत्त आह-स्पष्टे । उदाहरणे इति । तथाहि-"अथावलम्ब्य क्षणमेकपादिकां तदा निदद्रावुपपल्वल खगः । स तिर्यगावर्तितकन्धरः शिरः पिधाय पक्षण रतिक्कमालसः ॥” इत्यत्र खभावोक्तिरर्थव्यक्तिर्वा । 'प्रेयान् सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः । तावत् प्रत्युत पाणिसम्पुटमिलन्नीवीनितम्बं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥' इत्यत्र रसः कान्तिर्वेति स्फुटं सहृदयानाम् ।
अथ श्लेषस्य समतायाश्च गुणत्वानङ्गीकारे हेतुं निर्दिशति-५१ श्लेष इत्यादिना।
५१ विचित्रतामात्रम् । श्लेषः । अतस्तस्य गुणत्वं न सघटते इति भावः । अथ-अदोषो न दोष इत्थ. दोषो दोषाभाव इति यावत् । परं केवलम् । नतु गुणः । 'परः श्रेष्ठारिदूरान्योत्तरे क्लीवं तु केवले।' इति मेदिनी। समता। इति । । अथ श्लेषस्य स्वरूपं निदर्शयंस्तद्गुणत्वमपवदति-श्लेष इत्यादिना । 1. क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा क्रमकौटिल्यानुल्बणत्योपपत्तीनां योगः सम्बन्धः स