________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।।
१०७ उदारताऽग्राम्यत्वम् । एषां पञ्चामामपि अर्थगुणानां यथाक्रममपुष्टार्थाधिकपदा-नवीकृता-मङ्गल. रूपाश्लील-ग्राम्यत्वानां निराकरणेनैवाङ्गीकारः । स्वष्टांन्युदाहरणानि ।
५० अर्थव्यक्तिः स्वभावोत्तयऽलङ्कारेण तथा पुनः।
पदाभिधा । प्रौढिव्याससमासौ च साभिप्रायत्वमस्य च ॥' इत्युक्तलक्षणेष्वोजसः पञ्चसु प्रमेदेषु आद्यांश्चतुरः प्रभेदानभिधानवैचित्र्यात्मकत्वमवगम्य तत्प्रत्याख्यानं च पुनर्विधेयत्वेनोपेश्यान्तिमं पश्चममेव प्रथम प्रभेदं प्रत्याख्यातुं प्रवृत्तेनो क साभिप्रायत्वमोज इति सूचितं भवति । अथ अर्थवैमल्यमथस्य प्रयोजनस्य वैमल्यं विमलत्वं तन्मात्रत्वेन परिग्रह इति यावत् । प्रसादस्तदभिधेयोऽर्थगुणः । उक्तं च वामनेन 'अर्थवैमल्यं प्रसादः । ३।२।३० अर्थस्य वैमल्यं प्रजोजनमात्रपरिग्रहः प्रसादः ।' इति पुनः-उक्तिवैचित्र्यमुक्तेर्वैचित्र्य प्रकारान्तरेण कथनम् । माधुर्यं तदमिधेयोऽर्थगुणः । उक्त च वामनेन 'उक्तिवैचित्र्यं माधुर्यम् । ३।२।११' इति । तथा-अपारुष्यं न पारुषव्यं परुषत्वमर्थस्येति शेष इति । सौकुमार्य तदभिधेयोऽर्थगुणः । तदुक्तं वामनेन 'अपारुष्यं सौकुमार्यम् ॥' ३।२।१२ इति। एवम्-अग्राम्यत्वं ग्राम्यत्वाभावः । ग्राम्यत्वेनार्थस्यानुलापनमिति भावः । उदारता तदाख्योऽर्थगुणः । उक्तं च वामनेन 'अग्राम्यत्वमुदारता ॥' ३।२।१३ इति । एषामोजः प्रसादमाधुर्यसौकुमार्यौदार्याभिधेयानाम् । पञ्चानाम । अपि । नत्वेकस्य द्वयोस्त्रयाणां चतुर्णामेव वा । अर्थगुणानाम् । यथाक्रप्रमुद्देशक्रमपूर्वकम् । अपुष्टार्था-धिकपदा-नवीकृता-मङ्गलरूपाश्लील-ग्राम्यत्वानाम् दोषाणामिति शेषः । दोषाश्चैते निरूपिता एव प्राक् । निराकरणेन परिहारेण । एव नतु रसोत्कर्षापेक्षणेन । अकारः। अपुष्टार्थत्वादिदोषपरिहारमात्रेणैषामपेताभिप्रायमुपादानमिति भावः ।
अत्रायम्भाव:-साभिप्रायत्वमोजः, तच्च अपुष्टार्थत्वदोपाभावमात्रपर्यसायि । अथ-अर्थवैमल्यं प्रसादः, सोऽप्यधिकपदत्वदोषोत्सर्जनमात्रेण लब्धवर्णः । पुनरुक्तिवैचित्र्यरूपं माधर्यमनवीकृतत्वाभावमात्रपर्यवसितम् । एवमर्थापारुष्य सौकुमार्यममङ्गलत्वात्मकाश्लीलत्वदोषनिराकरणेनैव लब्धसत्ताकम् । पुनरेवमग्राम्यत्वरूपोदारता स्फुटमेव ग्राम्यत्वाभावमात्रलन्धसद्भावा । इत्येषां दोषाभावत्वमेवाङ्गीकर्तव्यं न पुनर्गणत्वम् । असत्त्वे च तेषां काव्यत्वापकर्षसम्भवात, सत्त्वे पुन: रुत्कर्षासम्भवात् । इति ।
अर्थतेषामुदाहरणानि स्पष्टानीत्यदासीन आह-उदाहरणानि । स्पष्टानि । इति ।
अत्रेदं बोद्धव्यम्-'सुन्दरि ! समुदितमेतत्तववदनमवेत्य सुधाकरः सततम् । गगने कुहापि सम्प्रति वसतिमुपेतु गवेषयते ॥' इत्यत्रापुटार्थत्वम् । सततसम्प्रतिशब्दयोरन्यतरोपादानेन तथा गगनशब्दानुपादानेनापि रसोत्कर्षस्य तथव सम्भवात् । अथ यदि तत्रैव 'सुन्दरि समुदितमेतत्तवदनमवेत्य सुधाकरो हन्त !। झटिति वापि विलीनः सम्प्रति भवितुं गवेषयते ॥' इत्येवं पाठः स्यात्तर्हि अपुष्टार्थत्वनिराकरणेन सममोजोलक्ष्यत्वलाभोऽप्येतस्य । तथा-'मदभरमन्थरगा. मिनि ! भामिनि दयिते सुधानिधानमुखि ! । मयि न मनागपि दयया लोचनपातं न किं कुरुषे ॥' इत्यत्र 'ने'त्यधिकपदत्वमावहतीति 'किमातनुषे इति तत्रैव पाठे विवक्षितार्थपोषकत्वेन :समं प्रसादतादवस्थ्यम् । अथ-'वचसि सुधाया धारा सुभगे सुषमा कला तवाङ्गेषु । दृशि मदनस्याविभूतिनिर्दयता मनसि सम्भंता नितराम् ॥' इत्यत्रानवीकृतत्वम् । पुनर्यदि तत्रैव 'निर्दयता किं पुनर्मनसि ।' इति चरमचरणव्यत्यासस्तर्हि तद्दोषपरिहारेण सम माधुर्यम् । तथा-'प्रमदे !
शतदृगन्तैर्विदधासि मृतान् मनोहरे दीनान् ॥' इत्यत्र मृतप दोपादानेनाश्लीलत्वम् । एवं पुनस्तत्रैव 'विदधासि चिराय तान् वितथम् (पथिकान )॥' इति चतुर्थपादपरिवर्तनं स्यान्न. तदा तस्य भवेत्सद्भावः । सम्भवेत् परं सौकुमार्यम् ॥ पुनरेवम-अधरसुधासवमुग्धं चम्बनदानेन मोदमानय माम् । सुकृ. तिनि ! हास्यति हाऽयं निजजीवितमन्यथा सपदि ॥' इत्यत्र 'चुम्बने'ति स्फुटं ग्राम्यम् 'सुकृतिनीति न तथा। तथाऽपि ग्राम्यत्वमिति यदि 'वदधरमधारममोहित एष न विन्दति तथाविधं स्वदितम् । दयिते भुवनतलेऽस्मिन्जीवितमद्य त्वमेव दीनस्य ॥' इति परिवर्तितः पाठस्तदा स्फुटमौदार्यम् । अग्राम्यत्वनिवृत्तेः।' इति ।
- अथार्थव्यक्ति कान्ति चान्तर्भावयति-५. अर्थव्यक्तिरित्यादिना । - ५० स्वभावोक्त्या स्वभावोक्तिनामकेन । अलङ्कारेण । तथा यथा दोषपरिहारादिनाऽन्ये गुणा इति शेषः ।