________________
५०६
साहित्यदर्पणः।
[अष्टम:
ना
उद्यदुर्धरगन्धसिन्धुरशतप्रोग्रामदानार्णव
स्रोतःशोषणरोषणात् पुनरितः कल्पाग्निरल्पायते ॥६५॥' इति । . अत्रोद्धतेऽर्थे वाच्ये सुकुमारबन्धत्यागो गुण एव । अनेवंविधस्थले माधुर्यादावेवान्तः पातः । यथा'लताकुझं गुञ्जन् ' इत्यादि।
४९ ओजः प्रसादो माधुर्य सौकुमार्यमुदारता ।
___तदभावस्य दोषत्वात् स्वीकृता अर्थगा गुणाः ॥ ४६॥ ओजः साभिप्रायत्वरूपम्, प्रसादोऽर्थवैमल्यम्, माधुर्यमुक्तिवैचियम्, सौकुमार्यमपारुष्यम्, शेषः । यतः-पुत्रः किञ्चित्प्रौढत्वेऽव्यूढाङ्गत्वादिनिवृत्तौ इति भावः । उद्यदुर्धरगन्धसिन्धुरशतप्रोद्दामदानार्णवस्रोतःशोषणरोषणादुद्यन्नुद्गच्छन् दुर्धरः परैरप्रेयो गन्धो येषां ते ये सिन्धुरा गजास्तेषां शतं तस्य यत् प्रोद्दामदानाणवस्रोतः प्रोद्दामा प्रतिबन्धं दानार्णवस्रोतो मदजलसमुद्रस्य प्रवाहस्तस्य शोषणं यस्मात्तद्रोषणं क्रोधाविर्भावनं यस्य तस्मात् । यद्वाउद्यवद्गच्छन् यो दुर्धरगन्धसिन्धुरशतप्रोग्रामदानार्णवस्तस्य स्रोतस्तस्य शोषणं रोषणं यस्य तस्मादिति। गन्धसिन्धुरा गन्धहस्तिनः । ते च-'यस्योग्रमदगन्धेन हस्तिनो भयविह्वलाः । दूरादेव पलायन्ते गन्धहस्ती स उच्यते॥' इति निरुक्तस्वरूपा एव । इतोऽस्मात् पारीन्द्रात् सिंहादिति यावत् । 'एतेतौ रथो: ।' ५। ३ । ४ इति, पञ्चम्यास्तसिल ।' ५। ३। ७ इति च । कल्याग्निः । अल्पायते तुच्छ: प्रतीयते ॥६५॥" इति । अत्र हि सिंहशिशु लालयन्तं कमप्यवलोक्य तन्मिषेण तदुपमस्य कस्यापि लाल्यमानस्य भाविनी दशा वर्णिता ।
तदेवाह-अत्र । उद्धते सिंहशिशाविति यावत् । वाच्ये । अर्थे सतीति शेषः । सुकुमारबन्धत्यागः सुकु. मारस्य कोमलस्य बन्धस्य त्यागः । गुणः । एव नतु दोषः । यदि मार्गाभेदो गुण इत्यङ्गीकृत्याभविष्यत् सुकुमार बन्धात्यागस्तर्हि कथं नाभविष्यद् दोष इति विभावनीयं सूक्ष्मदृशा ।
यथा वा-'ओबइ उलइ सअणे कहिं पि मोटाअइ णो परिहटइ । हिअएण फिटइ लज्जाइ खुइ दिहीएसा॥' इत्यत्र (व्याख्यातपूर्वे पद्ये) मार्गाभेदसत्त्वेऽपि कथं न गुणाविर्भावः । इति । । न पुनर्यत्र तत्र का गतिरित्याह-अनेवविधस्थानेऽभिमतमार्गाभेदानुगुणत्वसम्भवावसर इति भावः । माधुयादौ माधुर्यमादौ यस्य (गुणस्य ) तत्र माधुर्ये ओजसि प्रसादे वा । अस्या इति शेषः । अन्तःपातो बोद्धव्य इति शेषः। ____ ननु किं तदुदाहरणमित्याह-यथेत्यादि ।
यथा-'लताकुलं गुञ्जन...'इत्याादाहरणमिति शेषः । तथा च-'लताकुजं गुञ्जन्मदवदलिपुजं चपलयन् समालिङ्गानों द्वततरमनङ्गं प्रबलयन् । मरुन्मन्दमन्दं दलितमरविन्दं तरलयन् रजोवृन्दं विन्दन् किरति मकरन्दं दिशिदिशि ॥' इत्यत्र मसूणवर्णमात्रघटितमार्गाभेदो माधयेऽन्तर्भवति । इत्यास्तामेतादृशमितरदपि मार्गाभेदस्योदाहरणमिति पर्यवसितम् ।
एवं न शब्दगुणा दशेति प्रत्याख्याय तानेवार्थगुणान् प्रत्याख्यातुं प्रवृत्त आह-४९ ओज इत्यादि।
४१ ओजः । प्रसादः । माधुर्यम् । सौकुमार्य सुकुमारता । अथ-उदारता । इत्येते इति शेषः । अर्थगा अर्थगताः । अर्थ गच्छन्तीति ते। 'अन्यत्रापि दृश्यते इति वक्तव्यम् ।' इति डः । गुणाः। तदभावस्य तेषामोज:प्रसादमाधुर्यसौकुमायौदार्याणामभावसद्भावस्तस्य । दोषत्वाद् दोषरूपत्वात स्वीकृताः। ओजःप्रभृतीनामभावो दोषायेति दोषाभावत्वमेवैतेषामपि स्वीकर्तव्यमिति भावः ॥ ४६॥
अथैषां स्वरूपाणि निर्दिशंस्तत्तदङ्गीकारं व्यर्थयति-ओज इत्यादिना ।
साभिप्रायवरूपमभिप्रायेण तात्पर्येण सह वर्तत इति,तत्त्वमेव रूपं स्वरूपं यस्य तत्। 'वोपसर्जनस्या' ६।३१८२ इति सादेशः । भोजस्तदभिधेयोऽर्थगुणः । पञ्चमप्रभेदात्मक इति शेषः । एवं च 'पदार्थे वाक्यरचना वाक्यार्थे च