________________
परिच्छदः ]
रुचिराख्यया व्याख्यया समेतः। . ५७ ओजः प्रकाशकैवर्णैर्बन्ध आडम्बरः पुनः ॥५१॥
- समासबहुला गौडी। यथा-'चश्चद्धज...'इत्यादि ॥ पुरुषोत्तमस्त्वाह
'बहुतरसमासयुक्ता सुमहाप्राणाऽक्षरा च गौडीया ।
रीतिरनुप्रासमहिमपरतन्त्रा स्तोकवाक्या च ॥' इति । ५८ वर्णैः शेषैः पुनयोः । समस्तपञ्चषपदो बन्धः पाश्चालिका मता ५२ ॥ द्वयोवैदर्भीगौड्योः । यथा
'मधुरया मधुबोधितमाधवी- मधुसमृद्धिसमेधितमेधया ।
वैदर्भीस्वरूपं निर्दिश्य क्रमप्राप्तं गौडीयास्वरूपं निर्वस्तुमुपक्रमते-५७ ओजःप्रकाशकैरित्यादिना।
५७ पुनः । ओजःप्रकाशकैरोजसः प्रकाशका व्यञ्जका इति तैस्तथोक्तैः । 'वर्गस्याद्यतृतीयाभ्यां युक्तौ वर्गों तदन्तिमौ । उपर्यधोद्वयोर्वा सरफो टठडढैः सह। शकारश्च षकारश्च' इत्युक्तः । वणः । अत्र करणेऽभेदे वा तृतीया । आडम्बर उद्भटः । बन्धः । तत्स्वरूपेति यावत् । समाखबहुला समासा भावेन समासमार्दवेन च शून्येति यावत् । गौडी तदाख्या रीतिरिति भावः ॥ ५१ ॥
उदाहरति-यथा-'चश्चद्भुज...'इत्यादि । व्याख्यातपूर्वमिदं पद्यम् । यथा वा-'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यतष्टङ्कारध्वमिराठवालचरितप्रस्तावनाडिण्डिमः । द्राक् पर्यस्तकपालसम्पुटमिलद्ब्रह्माण्डभाण्डोदर-भ्राम्यत्पिण्डितचण्डिमा कथमहो माद्यापि विश्राम्यति ॥' इति ।
अत्र मतान्तरमुपन्यस्यति-पुरुषोत्तम इत्यादिना ।
पुरुषोत्तमः । तदभिधेय आलङ्कारिकः कश्चित् । तु । 'बहुतरसमाखयुक्ता बहुतरोऽसौ समासस्तेन युक्ता, दीर्घसमासघटितबन्धेति भावः । च। सुमहाप्राणाक्षरा सुमहाप्राणानि अक्षराण्यत्रेति सा। सुमहान् प्राणोऽत्रेति तानि। तत्त्वं च स्वल्पप्राणव्यतिरिक्तानां वयेद्वितीयचतुर्थवर्णानां शषसहानां च सत्त्वम् । अनुप्रासमहिमपरतन्त्राऽनुप्रासस्य वक्ष्यमाणस्य शब्दालङ्कारविशेषस्य महिमा महत्त्वमाधिक्यमिति यावत्तत्परतन्त्रा तदधीना। च। स्तोकवाक्या स्तोकानि पारमितानि समासबहुलत्वाद वाक्यानि यत्र सा। 'स्तोकस्त्रिष्वल्पे चातके पुमान् ।' इति मेदिनी। 'स्तोभवाक्ये ति पाठस्तु न युक्तः। गौडीया तदाख्या। रीतिः।' इति । आह । एतन्मते 'निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रोचण्डसत्त्वस्वनाः स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः । सीमानः प्रदरोदरेषु विरलस्वल्पाम्भसो याखयं तृष्यद्भिः प्रतिसर्यकरजगरस्वेदद्रवः पीयते ॥' इत्यादीन्युदाहरणानि । ___ अथ पाञ्चालीमाह-५८ वर्णरित्यादिना ।
५८ द्वयोवॆदा गौड्याश्च । शेषैभिन्नैः । प्रसादमात्रव्यञ्जकैरिति यावत् । वणः । अत्र करणेऽभेदे वा तृतीया । समस्तपञ्चषपदः समस्तानि समासवन्ति पञ्चषाणि पश्च षड्या पदानि यत्र सः । बन्धो गुम्फः । पाश्चालिका तदाख्या रीतिः । मता ॥५२॥
कारिकास्थं 'द्वयो' रितिपदं व्याचष्टे-द्वयोरित्यस्येति शेषः । वैदर्भीगौडयोर्वेदी च गौडी चेति तयोः इत्यर्थ इति शेषः।
. उदाहरति-यथेत्यादिना ।।
'यथा-'मधुरया प्रियया । 'मनोरमये ति तर्कवागीशाः । 'मधुरस्तु रसे विषे । मधुरं रसवत्स्वादु प्रियेषु मधुरोऽ. न्यवत् ॥' इति विश्वः । मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया मधुना वसन्तेन बोधिता बोधं नीता..