________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः। प्रयोजने या अष्टभेदा लक्षणा दर्शिताः, ताः प्रयोजनरूपव्यङ्गयस्य गूढागूढतया प्रत्येक द्विधा भूत्वा षोडशभेदाः । तत्र गूढः, वाक्यार्थभावनापरिपक्वबुन्हिविभवमात्रवेद्यः । यथा"उपकृतं बहु तत्र-"इति। अगूढः अतिस्फुटतया सर्वजनवेद्यः । यथा
'श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि ॥८॥' इति ।
स्वयं विवृणोति-प्रयोजने । 'राहूपरागे स्नाया'दितिवनिमित्तार्थे सप्तमीयम् । याः । अष्टभेदाः उपादानलक्षणा लक्षणलक्षणा चेति द्वौ भेदौ, तयोः सारोपा साध्यवसाना चेति पुनद्वैविध्ये चत्वारो भेदाः, एतेषां शुद्धा गौणी चेति द्वैविध्येऽहौ विधा लक्षणायाः सम्पद्यन्त इति बोध्यम् । लक्षणाः । दर्शिताः। ताः । प्रयोजनरूपव्ययस्यअगूढागूढतया। प्रत्येकम् । द्विधा । भूत्वा । सम्पद्यमाना इति शेषः । षोडश ।भेदाः। 'सम्भवन्तीति शेषः । तत्र तयोगूढागूढयोरिति यावत् । गूढः नामेति शेषः । वाक्यार्थभावनापरिपक्वबुद्धिविभवमात्रवेद्यो वाक्यार्थस्यभावनाविचारसापेक्षं गवेषणं तया तत्र वा परिपक्का बुद्धिस्तस्या विभवस्तन्मात्रवेद्य इति तथोक्तः। यथा- 'उपकृतं बह तत्र' इति।
व्याख्यातपूर्वमिदं पद्यम् । अत्र हि वक्तृतात्पर्य्यरूपस्यापकारित्वाद्यर्थस्य गूढत्वमितिबोध्यम् । यथा वा-'मुखं विकसितस्मितं, वशितवक्रिम प्रेक्षितं, समुच्छलितविभ्रमा गति, रपास्तसंस्था मतिः । उरो मुकुलितस्तनं, जघनमंसबन्धोद्धरं, बतेन्दुवदनातनौ तरुणिमोद्रमो मोदते ॥' इति । अत्र हि- 'मुखं विकसित स्मितं यस्य तथाभूतम्, विकासित्वं हि कुसुमधर्मः स च स्मितेऽनुपपनः, यो विकसति स सच्छायो भवति इति विकसितशब्दो बाधितविकासमुख्यार्थः सन् सच्छायत्वसादृश्यात् स्मितं लक्षयन् हृद्यत्वसुरभित्वादिप्रयोजनसहस्रं व्यनक्ति, प्रेक्षितं प्रेक्षण वशित आयत्तीकृती वक्रिमा येन तत् तथाभूतं, वशीकरणं चेतनधर्मः, स च वक्रिमणि अनुपपन्नः, यो यस्य वशो भवति स तस्यायत्तो भवति, वशितशब्दो बाधितमुख्यार्थः सन् आयत्तत्वादिसादृश्यावक्रिमाणं लक्षयंस्तदनुसरणत्वादि प्रयोजनं व्ययति । गतिर्गमनं समुच्छलितो नितान्तमुद्गतो विभ्रमो यस्यां तथोक्ता, समुच्छलनं जलादेर्धर्मः, स च विभ्रमेऽनुपपन्नः, यः समुच्छलति स उत्कल्लोलो भवति, इति समुच्छलितशब्दो बाधितमुख्यार्थः सन् उत्कल्लोलादिसादश्याद्विभ्रमं लक्षयन् प्रौढप्रौढतरं सर्वजनाभिलषणीयत्वादि प्रयोजनं प्रत्याययति । मतिर्बुद्धिर्मन इति यावत् । अपास्ता मुक्ता संस्था मर्यादा यया सा, अपासनं चेतनधर्मः, स चामूर्तीयां मतावनुपपन्नः, यो येनापास्यते, स तस्य न भवतीति बाधितमुख्यार्थः स्वपरिवृत्तिसादृश्यात् संस्थानं लक्षयन् पुनरस्वीकारादिकं प्रयोजनं व्यञ्जयति । उरो वक्षःस्थलं मुकुलितौ स्तनौ यस्य यत्र वेति तथोक्तम्, मुकुलितत्वं पुष्पधर्मः स च स्तनयोरनुपपन्नः, यो मुकुलितो भवति स किञ्चिदुद्भिश्नो भवति, इति मुकुलितशब्दो बाधितस्वार्थः सन् अभिनवोद्भेदसादृश्यात् स्तनयुगुलं लक्षयन् स्पृहणीयत्वादि प्रयोजनसहस्रं व्यनक्ति । जघनमंसबन्धेनोद्धरम् । धुरायामुद्दरीकरणमुद्धरत्वं, तच्च चेतनधर्मो जघनेऽनुपपन्नः, यो हि उडुरो भवति स किञ्चिदुच्चैर्भवतीत्युद्धरशब्दोबाधितधुरामुख्यार्थः सन्नतत्त्वादिसादझ्यादंसबन्धवजघनं लक्षयन्मनोहरत्वादिप्रयो बत आश्चर्यम् । इन्दुवद्वदनं यस्यास्तस्यास्तनौ, वदने इन्दुत्वमनुपपन्नं, यो हीन्दुसदृशो भवति स पारिमाण्डल्यादियुक्तोभवति, इतीन्दुशब्दो बाधितस्वार्थः पारिमाण्डल्यादिसादृश्यावदनं लक्षयजगज्जीवनतापोपशान्त्यादिप्रयोजनं व्यञ्जयति । तरुणिम्नस्तारुण्यस्योद्गमः, उद्गमोऽड्कुरादेर्धर्मः, स च तरुणिमनि नोपपन्नः, यो हि उद्गच्छति स किञ्चिदुद्भिन्नो भवतीत्युद्गमशब्दो बाधितोदयरूपमुख्यार्थः सन्नभिन्नोद्भेदसादृश्यात्तारुण्य लक्षयन् सौन्दर्यादिप्रयोजनं व्यनक्ति । मोदते, मोदनं च चेतनधर्मः, सोऽपि उद्गगमेऽनुपपन्नः, यो हि मोदते स सप्रसरो भवति, इति मोदतेशब्दो बाधितमुख्यार्थः सन्नद्गमं कक्षयन् स्पृहणीयत्वादिप्रयोजनं व्यनक्ति । कामपि युवतीं साक्षात्कृत्य कामयमानस्य कस्याप्युक्तिरियम् ।
अगूढः 'नामे'ति शेषः । अतिस्फुटतया । सर्वजनसंवेद्यः सर्वजनानां सहृदयेतराणां संवेद्यः । यथा
'जडा मूढाः अपि । श्रीपरिचयात् श्रियः सम्पदः शोभायाश्च परिचयः सङ्गमादिना प्रथमं ज्ञानसम्बन्धस्तस्मात् 'तं प्राप्येत्यर्थः । एव। विदग्धचरितानां विदग्धानां गूढकृत्यकारितया गम्भीरप्रकृतीनां चरितानि तेषाम् । अभिज्ञा अभितो ज्ञातारः । भवन्ति । अत एव-कामिनीनाम् । यौवनमदः । एव न स्वन्यः कश्चित् । ललितानि 'अना