________________
५८
साहित्यदर्पणः।
[द्वितीयःअनोपदिशतीत्यनेनाविष्करोतीति लक्ष्यते । आविष्कारातिशयश्चाभिधेयवत् स्फुटं प्रतीयते ।
___ २३ धम्मिधर्मगतत्वेन फलस्यैता अपि द्विधा । एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्मिगतत्वेन धर्मगतत्वेन च प्रत्येक द्वैविध्याद द्वात्रिंशद्भेदाः । दिङमात्रं यथा
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्धलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । चार्योपदिष्टं स्याललितं रतिचेष्टितम् ।' इत्युक्तान् रतिचेष्टितविशेषान्, 'सुकुमारतयाऽङ्गानां विन्यासो ललितं भवेत्' इत्युक्तानङ्गानां सौन्दर्येण निर्माणप्रकारान् वा । उपदिशति । अत्र यौवनमदकतकललितोपदेशविधानं समर्थयितं श्रीपरिचयादित्यायुक्तं, तस्मादर्थान्तरन्यासः । श्रीपरिचयादित्यस्य चोपदिशतीति प्रतिबिम्बमिति दृष्टान्तो या । आांछन्दः, 'लक्ष्मैतत् सप्त गणा, गोपेता भवति नेह विषमे जः । षष्ठोऽयं न लघुर्वा, प्रथमेऽधैं नियतमाययाः ॥ष द्वितीयलात् परके नले मुखलाच स यतिपदनियमः । चरमेऽर्द्ध पञ्चमके, तस्मादिह भवति षष्ठो लः ॥' इत्युक्तम् ॥ ८॥' इति ।
अत्र व्यङ्गयस्यागूढतां दर्शयति-अवेत्यादिना ।
अत्रास्मिन्नदाहृते पद्य इति यावत् । 'उपदिशति।' इत्यनेन । 'क्रियापदेनेति शेषः। 'आविष्करोति।' इति । 'पदार्थ' इति शेषः । लक्ष्यते लक्षणया बोध्यते । आविष्कारातिशयः । च । 'प्रयोजन'मिति शेषः । स्फुटं प्रत्यक्षं थथा भवेतथा । अभिधेयवदभिधेयार्थ इव । प्रतीयते । इदमुक्तम्-परप्रवर्तकरूपस्योपदेशस्य चेतनधर्मस्य यौवनमदे बाधितत्वात् सामान्यविशेषभावेनोपदिशतीति पदस्याविष्करोतीत्यर्थो लक्ष्यते । तदेवं तस्यातिशयः स्फुटं द्योतते। इति । इदं च बोध्यम्-यत्र यत्र प्रयोजनमनुसृत्य लक्षणा प्रवर्तते, तत्र तत्र तस्य गूढत्वागूढत्वाभ्यां लक्षणाया द्वैविध्यात् षोडशविधत्वम् । तत्तदुदाहरणान्यूह्यानि यथा-'गङ्गायां घोष'इत्यादौ शीतलत्वपावनत्वादिबोधकस्य पदस्याभावात् तीरादेः शीतलत्वादि व्यङ्गथं गूढम् । 'काकेभ्यो दधि रक्ष्यता मित्यादौ दध्यादेपघातकादिभ्यो 'रक्ष्यता'मित्यादिपदसाचिव्येन रक्षणीयत्वादि व्यङ्गमगूढम् । इति दिक् । __ आसां पुनरपि द्वैविध्यमाह-२३ धमिधर्मगतत्वेनेत्यादिना ।
२३ एता निरुक्ताः षोडश भेदाः प्रयोजनमूला लक्षणा इत्यर्थः । अपि । फलस्य प्रयोजनस्य । धम्मिधम्मगतत्वेन धम्मिगतत्वेन धर्मगतत्वेन चेत्यर्थः । धर्मी लक्ष्यः, धर्मः पुनस्तवत्तिपदार्थः । अत्र हेतौ तृतीया । द्विधा । 'भिद्यन्त 'इति शेषः ।
तदेव विवृणोति-एता इत्यादिना । स्पष्टम् । एतासां सर्वासामुदाहरणे ग्रन्थभूयस्त्वभयादाह-दिङ्मात्रमित्यादि। दिङमाचं दिगेवेति दिड्मात्रमित्यर्थः । दिक् च मार्गनिर्देशः । यथा-स्निग्धः...'इत्यादि।
स्निग्धश्यामलकान्तिलिप्तवियतः स्निग्धा मनोज्ञतया स्नेहास्पदतां प्राप्ता, रूक्षेतरतया वा मनोरमा श्यामला सरसतया विहारोचिता श्यामा या कान्तिः शोभा तया (साधनेन) लिप्तं वियदाकाशं यैः (कर्तृभिः) ते तथाभुताः । 'स्निग्धस्तु वत्सले इत्यमरः । 'श्यामल: पिप्पले श्यामे'इति हैमः । 'शोभा कान्तिद्युतिश्छविः ।' इति 'वियद्विष्णुपद'मिति चामरः । बेलदलाका वेलन्त्यो विलसन्त्यः सविनोदं चलन्त्यो वा बलाका बकपङ्क्तयो येषुते तथोक्ताः । 'वर्षासुवलाका उड्डीयन्त' इति सम्प्रदायः । 'वेल'चलने । 'वलाका बकपङ्क्त्यां स्थाद्विषकठ्यां बकस्त्रियाम् । कामुक्यां च बलाकोsीति गोपालः । घनाः सङ्कुलतया स्थिता मेघा इत्यर्थः । घनाश्च घनाश्चेति घनाः । 'सरूपाणामेकशेष एकविभक्तौ ।' १२१६४ इत्येकशेषः । 'घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे।' इत्यमरः । तथा शीकरिणो जलकणिकाऽन्विताः । 'शीकरोऽ. म्बुकमाः स्मृताः ।' इत्यमरः । वाता वायवः । एवम्- पयोदमुहदां पयोदा जलवर्षणपरा मेघास्ते सुहृद आनन्दकतया मित्राणीव येषां, पयोदानां सुहृद इति वा तेषां तथोक्तानामू । पयोदाश्च पयोदाश्चेति पयोदाः । पयो जलं ददतीति