________________
५६
साहित्यदर्पणः ।
[ द्वितीय:
तदाऽस्य वाहीकशब्दस्य च सामानाधिकरण्यमसङ्गतं स्यात् । तस्मात् अत्र गोशब्दो मुख्यया वृत्त्या बाहीकशब्देन सहान्वयमलभमानोऽज्ञत्वादिसाधम्य सम्बन्धाद् बाहीकार्थं लक्षयति, बाहीक - स्याज्ञत्वाद्यतिशयबोधनं प्रयोजनम् । इयं च गुणयोगाद् गौणीत्युच्यते । पूर्वा तूपचारामिश्रण छुद्धा । उपचारो नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् । यथा-'अग्निमाणवकयोः ।' इति । शुक्लपटयोस्तु नात्यन्तभेदप्रतीतिः शुद्धैव लक्षणा / तस्मादेवमादिषु ।
२२ व्यङ्ग्यस्य गूढागूढत्वाद् द्विधा स्युः फललक्षणाः ॥ १३ ॥
पदं प्रवृत्तिनिमित्तीकृत्य 'गौर्जल्पती' त्यादौ इत्यर्थः । बाहीकार्थों 'बाहीक' इति पदार्थः । न । प्रतीयते । तदा । अस्य गोशब्दस्योपलक्षणेन गोशब्दार्थस्येत्यर्थः । बाहीकशब्दस्य बाहीकशब्दार्थस्येत्यर्थः । न्च । सामानाधिकरण्यं 'जाड्यादिगुणै'रिति शेषः । असङ्गतम् । स्यात् । अयं भावः - 'गौर्जल्पती 'ति वाक्यस्य 'अज्ञत्वादिगुणको जल्पनक्रियावा' निति विवक्षितोऽर्थः, अज्ञत्वादिगुणकश्च बाहीकः ; तदेवं स्थितौ गोशब्दं निमित्तीकृत्य बाहीकार्थाप्रत्ययो यदि स्यात्, तदा गोबाहीको रज्ञत्वादीनां सामानाधिकरण्यस्याप्यप्रत्ययः स्यात् । इति । ननु कथं तर्हि शाब्दबोधः ? इति चेदेवमित्याह - तस्माद् यदेवमुभयोरपि पक्षयोरस्वारस्यं ततः कारणादिति भावः । अत्रास्मिन् 'गौर्जत्पती 'ति वाक्य इति यावत् । गोशब्दः 'गौ'रिति पदम्, उपचारात्तदर्थः । मुख्ययाऽभिवाऽऽख्ययेत्यर्थः । वृत्त्या । करणे तृतीयेयम् | बाही - कशब्देन 'बाहीक' इति पदेन 'जल्पती 'ति क्रियायाः कर्तृत्वेनाभिमतेन 'बाहीक' इति पदार्थेनेति यावत् । सह । अन्वयं सम्बन्धमभेदमिति यावत् । अलभमानः । अज्ञत्वादिसाधर्म्यसम्बन्धात् तमङ्गीकृत्येत्यर्थः । वाहीकार्थं 'बाहीक' इति पदार्थम् । लक्षयति लक्षणया वृत्त्या बोधयति । तदुक्तम् - 'मानान्तरविरुद्धे तु मुख्यार्थस्य परिग्रहे । अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते ॥' इति । अयं भावः अत्र गोपदार्थस्य जल्पनक्रियाकर्तृत्वानुपपत्तौ वाहीकपदार्थस्य च जल्पनक्रियाकर्तृत्वसम्भवाच्च गोपदं स्वार्थ परित्यज्यान्येन सहाभेदोपपत्तयेऽज्ञत्वादिगुणसाधर्म्यसम्बन्धित्वेन तं ( बाहीकार्थ ) लक्षयति । तस्मात्-गोपदस्याज्ञत्वादिमान् बाहीक इत्यर्थो लक्ष्यः । इति । बाहीकस्य लक्ष्यमाणस्येति शेषः । अज्ञत्वाद्यतिशयबोधनम् । प्रयोजनम् । अयं भावः -बाहीकस्य गोत्वेन निरूपणात्तयोरभेदाद् बाहीको गौरेव तद्वदत्यन्तं जाड्यादिगुणक इति लभ्यते । इति । इयं 'गौर्जल्पती' त्यत्रोदाहृता लक्षणेत्यर्थः । च । गुणयोगाद् गुणानामज्ञत्वादीनां योग: सामानाधिकरण्येन सम्बन्धस्तस्मात् । गौणी । इत्युच्यते । पूर्वा 'अश्वः श्वेतो धावती' त्यादावुदाहृता । तु । उपचारामिश्रणादुपचारस्यानन्तरमेव वक्षमाणस्यामिश्रणमयोगस्तस्मात् । शुद्धा । उपचारः । नाम । अत्यन्तम् । विशकलितयोविंशेषेण खण्डितयोः । ' भित्तं शकलखण्डे वा' इत्यमरः । शब्दयोः शब्दार्थयोरित्यर्थः । सादृश्यातिशयमहिम्ना । भेदप्रतीतिस्थगनमात्रम् । यथा- 'अग्निमाणवकयोः' इति । अयं भावः - 'अग्निर्माणवकः,' ' गौर्बाहीक' इत्यादौ अग्न्यादिपदार्थमत्यन्तं भिन्नत्वेऽपि सादृश्यमहिम्नाऽभेद इति भेदप्रतीतेस्तिरोभावादत्र गौण्येव । इति । नन्वेवम् 'अश्वः श्वतो धावती' त्यादावपि गौण्येव कुतो नेति चेत्रेत्याह- शुक्लपटयो: 'शुक्लः पटः ' अश्व: श्वेत' इत्यादौ शुक्लपटादिपदार्थयोरित्यर्थः । तु । अत्यन्तभेदप्रतीतिः । 'गुणगुणिनोरभेद' इति नयेनेति शेषः । न 'अङ्गीक्रियते ' इति शेषः । तस्मात् । एवमादिषु । शुद्धा । एव । लक्षणा । ' ज्ञेये 'ति शेषः । अत्राहुस्तर्कवागीशाः–“ननु गौणीलक्षणातो रूपकालङ्कारस्य को भेदः ? रूपकालङ्कारेऽप्यभेदारोपानन्तरं सादृश्य बोधस्यानुभवसिद्धत्वादिति चेद्, रूपकेऽभेदारोपात् प्रागपि सादृश्यप्रतीतिः सम्भवति । गौणीलक्षणायां तु पश्चादेव, सादृश्यप्रतीत्योः कारणवैलक्षण्यादपि वैलक्षण्यं सम्भवति । ' आरोप्यमाणस्य प्रानिर्देशे हि गौणीलक्षणाप्रयोगवाक्यम् । पश्चान्निर्देशे रूपकालङ्कारप्रयोगवाक्य' मिति केचित् । 'गौडेन्द्रं कण्टकं शोधयति' इति गौणीलक्षणोदाहरणं, ' राजति व्योमकासारे राजहंसः सुधाकरः ।' इति रूपकोदाहरणं, ददतो ग्रन्थकृतस्तन्नाभिमतमिति मन्तव्यम् " इति ।
ܕ
इत्येवमष्टविधाः फललक्षणा अभिधायासां पुनद्वैविध्यमाह - २२ व्यङ्ग्यस्येत्यादिना ।
२२ व्यङ्ग्यस्य प्रयोजनस्य । अत एव - २९ 'लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम्' इत्यादि वक्ष्यते । गूढागूढत्वात् गूढत्वादगूढत्वाचेत्यर्थः । फल लक्षणाः प्रयोजनमूला अष्टविधा लक्षणा इत्यर्थः । द्विधा । स्युः ॥ १३ ॥