________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । गोशब्दार्थबोधनाच्च । अभिधाया विरतत्वाद् विरतायाश्च पुनरुत्थानाभावात् । अन्ये पुनः-'गोशब्देन बाहीकार्थो नाभिधीयते, किन्तु-स्वार्थसहचारिगुणसाजात्येन बाहीकार्थगता गुणा एव लक्ष्यन्ते।' इति । तदप्यन्ये न मन्यन्ते, तथाहि-अत्रगोशब्दाद् बाहीकार्थः प्रतीयते, न वा; आद्येऽपि गोशब्दादेव, लक्षितादा गुणात्, अविनाभावाद्वा; तत्र न प्रथमः, बाहीकार्थस्यासङ्केतितत्वात् , न द्वितीयः, गोगवयचन्द्रमुखादिशब्दवन्द्वानामवयवप्रसादादि साम्येऽपि अन्योऽन्यस्य अन्यतमशब्दार्थानभिधायकत्वात् , न तृतीयः, अविनाभावलभ्यस्यार्थस्य शान्देऽन्वये प्रवेशासम्भवात् । शाब्दी ह्याकाङ्क्षाशब्देनैव पूर्यते। इति । न द्वितीयः, यदि हि गोशब्दाद् बाहीकार्थो न प्रतीयते, चेन्नेत्याह- गोशब्दार्थमावबोधनात् । 'सकृदुच्चरितः शब्दः सकृदेवार्थं गमयती'ति न्यायाद् गोशब्देन गोशब्दार्थ एव बोधयितुं शक्यते इति नियमादिति भावः। च । नन्वस्य नियमस्य श्लेषादौ व्यभिचारात प्रयोजनवशात्पुनरपि प्रतीतिः कल्पनीयेति चेन्नेत्याह- अभिधायाः। विरतत्वाद्विरतव्यापारत्वात् । विरताया विरतव्यापाराया अभिधायाः । च । पुनरुत्थानाभावात् व्यापारान्तरं ग्राहयितुं शक्यभावात् । श्लेषादौ धमन्तिरे गृहीतं शक्त्यन्तरमर्थान्तरमुपस्थापयतु नाम, किन्तु गोत्वेऽत्र गृहीता शक्तिस्तदाश्रयमुपस्थाप्य यदि तत्सदृशमप्युपस्थापयेत्तर्हि अभिधयैव लक्ष्यार्थोपस्थाने लक्षणायाः पुनरङ्गीकारानौचित्यमिति भावः । अत्रापरेषां मतं दर्शयति-अन्ये । पुनः। 'प्राह'रिति शेषः। 'गोशब्देन 'गौ' रिति पदेनेत्यर्थः । बाहीकार्थो 'बाहीक' इत्यर्थः । न । अभिधीयतेऽभिधया बोध्यते । किन्तु । स्वार्थसहचारिगुणाः स्वार्थस्य गोपदवाच्यस्य सहचारिणो गुणाः, गोवृत्तयो जाड्यादयो गुणा इति भावः । साजात्येन समानजातीयत्वेन । बाहीकार्थगताः । लक्ष्यन्ते।' इति । अयं भावः-जाड्यादिसाधर्म्यण गोः सजातीयो बाहीकः, तस्मादेकगता गुणा अपरत्र लक्ष्यन्ते लक्ष्यमाणाश्चामी तं लक्षयन्तीति । निराकरोति- तत् । अपि । अन्येऽस्मदादयः । न । मन्यन्ते । तदेवोपपादयति-तथाहि । अत्र 'गोल्पती त्यनेत्यर्थः । गोशब्दात् गोशब्दं प्रवृत्तिनिमित्तीकृत्येत्यर्थः । बाहीकार्थः । प्रतीयते बुध्यते (? इत्येकः पक्षः)। वाऽथवा । न (इत्यपरः पक्षः) । एवं पक्षद्वयमुपस्थाप्याये विकल्पत्रयेणास्वरसतां दर्शयति-आधे 'गोशब्दाद्वाहीकार्थः प्रतीयत'इत्यङ्गीकार इति भावः । अपि । गोशब्दात 'गो'रिति पदात् । एव केवलात् । वा । लक्षितात् । गुणात् जाड्यादिगुणादित्यर्थः । वाऽथवा अविनाभावादाक्षेपात् । बाहीकार्थः प्रतीयत इति शेषः । अयं भावः-केवलाद्गोशब्दाद् बाहीकार्थः प्रतीयते ? किं वा गोसाजात्येन लक्षितागुणात् बाहीकार्थः प्रतीयते ? आहोस्वित् ? साजात्येन लक्षितेषु जाड्यादिगुणेष्वाक्षेपाद्वाहीकार्थः प्रतीयते ? इति । तत्र तेषु त्रिषु विकल्पेषु मध्य इति यावत् । प्रथमः । 'विकल्प' इति शेषः । न 'युक्त' इति शेषः । हेतुमाहबाहीकार्थस्य । असङ्केतितत्वात् 'बाहीको गोपदवाच्य' इति सङ्केताभावात् । गोशब्दाद्वाहीकार्थस्तदा प्रतीयेत, तत्र यदि तस्य सङ्केतः ? अतस्तदभावात् केवलाद्गोशब्दाद्वाहीकार्थः प्रतीयत इति न युक्तः पक्ष इति भावः । द्वितीयः 'लक्षिताद्गुणाद्वाहीकार्थःप्रतीयत' इति विकल्प इत्यर्थः । न । कुत इत्याह-गो-गवयव, चन्द्र-मुखादिशब्दद्धन्दा नाम् । आदिपदेन-कर्पूराङ्गादीनां ग्रहणम् । अवयव-प्रसादादिसाम्ये । प्रसादः प्रसन्नता । आदिपदेन शीतलत्वादीनां ग्रहणम् । अपि । अन्योऽन्यस्य परस्परस्य । अन्यतमशब्दार्थानभिधायकत्वात् । गोगवयवयोश्चन्द्रमुखयो रित्येवं पदार्थद्वन्द्वस्य सादृश्येऽपि न गोशब्दस्य गवयवार्थाभिधायकत्वं न वा गवयवशब्दस्य गोपदार्थाभिधायकत्वमित्येवं स्थितेः । अयं भावः-यदि गोशब्दस्य गवयवार्थों गवयवशब्दस्य च गवार्थः प्रतीयेत, तदा गोशब्दार्थस्य लक्षिताद्गणाद्वाहीकार्थः प्रतीयेत, नहि लक्ष्यमाणं गुणादिना साम्यमुपजीव्यान्यस्यान्यार्थों वक्तुं सुशकः । इति । तृतीयः 'अविनाभावाद्वाहीकार्थः प्रतीयत'इति विकल्पः । 'अपी ति शेषः । न 'युक्त'इति शेषः । हेतुमाह-अविनाभावलभ्यस्याक्षेपलभ्यस्य । अर्थस्य। शाब्दे शब्दसम्बन्धिनि । अन्वये बोधे। प्रवेशासम्भवात् । हि यत इत्यर्थः । शाब्दी शब्दसम्बन्धिनी । आकाङ्क्षा । शब्देन । एव नत्वाक्षेपादिना । पूर्यते । अयं भावः-'गौल्पती'त्यादौ जल्पनकर्तत्वादेर्गवादिनिष्ठत्वासम्भवाद् गवादिपदानामाक्षेपतो बाहीकाद्यर्थ इति न युक्तं वक्तुम् , शाब्धी आकाक्षायाः शब्देनैव पूर्तेर्नियमः, अन्यथाऽतिप्रसङ्ग आपद्यत । इति । एवं प्रथम पक्षं त्रिधा विकल्प्य निराकृत्य द्वितीयमपि निराकरोति-द्वितीयः 'गोशब्दाद्वाहीकार्थो न प्रतीयत'इति पक्षः । न 'युक्त' इति शेषः । कुत इत्याह-हि यत इत्यर्थः । यदि । गोशब्दाद् 'गौ' रिति