________________
५४
साहित्यदर्पणः ।
| द्वितीय:
प्रयोजने यथा - " राजकुमारा गच्छन्ति " इति । रूढौ लक्षणलक्षणा सारोपा गौणी यथा - "राजा गौडेन्द्रं कण्टकं शोधयति ।" इति । प्रयोजने यथा - " गौर्बाहीकः " इति । रूढौ लक्षणलक्षणा, साध्यवसाना गौणी यथा - " राजा कण्टकं शोधयति" इति । प्रयोजने यथा - "गौर्जल्पति ।" इति ।
अत्र केचिदाहुः - 'गोसहचारिणो गुणा जाड्यमान्यादयो लक्ष्यन्ते, ते च गोशब्दस्य बाहीका - र्थाभिधाने निमित्ती भवन्ति' इति तदयुक्तम्, गोशब्दस्यागृहीतसङ्केतं बाहीकार्थमभिधातुमशक्यत्वात्, विषयस्य (तैलरूपस्य) विषयिणा ( सार्षपादिरूपेण) अभेदाध्यवसानात्साध्यवसाना सादृश्यनिबन्धनमूलकत्वाद् गौणी च । अन्यत्पूर्ववत् । प्रयोजने 'सति साध्यवसाना गौण्युपादानलक्षणे 'ति शेषः । यथा - 'राजकुमारसदृशेषु गच्छत्सु ' इति शेषः । “राजकुमाराः । गच्छन्ति ।” इति । अत्रापि पूर्ववत् । 'एत' इति पदाप्रयोगात् । लक्षणलक्षणा मुदाहरतिरूढावित्यादिना । रूढौ । लक्षणलक्षणा । सारोपा। गौणी । यथा - " राजा । गौडेन्द्र गौडदेशाधीशम् । कण्टकम् | शोधयति तदुःखदातृत्वमपनुदतीति भावः । " इति । अत्र हि - ' वङ्गदेशं समारभ्य भुवनेशान्तिकः शिवे ! गौडदेशः समाख्यात:' इत्युक्तदेशस्य 'सारस्वताः कान्यकुब्जा गौडमैथिलकोत्कलाः । पञ्च गौडाः समाख्याता विन्ध्यस्योत्तरवासिनः ॥' इत्युक्त दिशा वा विन्ध्योत्तरस्य प्रदेशविशेषस्य वा इन्द्रः कण्टकरूपेणाभिधीयमानः शोधनक्रियायाः कर्मत्वेन नोपपद्यते । अतः - आरोप्यमाणेन कण्टकत्वेनारोपविषयस्य गौडेन्द्रस्याभेदारोपात् सारोपा, कण्टकस्य च शोधनक्रियाकर्मत्वानुपपत्तौ स्वार्थपरित्यागपुरःसरं क्षुद्रतया दुःखदत्वरूपार्थोपस्थापकत्वालक्षणलक्षणा | सादृश्यमूलत्वाच गौणी । प्रयोजने 'सति लक्षणलक्षणा सारोपा गौणी 'ति शेषः । यथा - " गौः । बाहीकः । वहिर्भवो वाहीकः । 'बहिषटिलोपो यञ्च । *', 'ईकक् । ' इति वार्त्तिकाभ्यां टिलोपे ईंककि कृते रूपमिदम् । पाञ्चालापरपर्यायो हलवाहकापरपर्याय ब्राह्मण ुवो वेत्यर्थः । " इति । अत्र हि वाहीकस्य गोत्वेन निरूपणाद्गौणीत्वम्, गोर्बाहीकस्य चान्वयानुपपत्तौ गोपदं स्वार्थं परित्यज्याज्ञत्वादिसाधर्म्यसम्बन्धेन बाहीकार्थमङ्गीकरोतीति लक्षणलक्षणा । विषयविषयिणोरुभयोः सद्भावात् सारोपा, तयोरभेदातिशयप्रतीतिः फलम् । रूढौ । साध्यवसाना । लक्षणलक्षणा । गौणी । यथा-" राजा । 'गौडेन्द्रप्रतिद्वन्द्वी 'ति शेषः । कण्टकं तीक्ष्णाग्रं वृक्षाङ्गम् । शोधयति " इति । अत्र गौडेन्द्ररूपस्यारोपविषयस्य निगरणात्साध्यवसाना । अन्यत्पूर्ववत् । प्रयोजने 'सैवे 'ति शेषः । यथा - "गौः जल्पति । मनुष्यवद् व्यक्तं समुच्चरति ।" इति । अत्र हि गोर्जल्पनक्रियायामन्वयलाभाय बाहीकार्थोऽङ्गीक्रियते । तस्मादेषा साध्यवसाना लक्षणलक्षणा, गोर्बाहीकस्य च सादृश्यं रूढौ हेतुरिति गौणी ॥
अत्र शाब्दबोधप्रकारं दर्शयन् परमतेऽस्वारस्यं दर्शयति- अत्रेत्यादिना ।
अत्रास्मिन् “गौर्जल्पती” त्युदाहृते वाक्य इति यावत् । केचित् । आहुः 'गोसहचारिणो गोः सहचारिणः समानाधिकरणतया वर्त्तमाना इति तथोक्ताः । जाड्यमान्द्यादयः । आदिना हिमवातादिसहत्वादयो गृह्यन्ते । गुणाः । लक्ष्यन्ते गोशब्देन लक्षणाद्वारा बोध्यन्त इति भावः । ते लक्ष्यमाणा गुणा इत्यर्थः । च । गोशब्दस्य 'गौ' रिति पदस्येत्यर्थः । बाही कार्थाभिधाने 'बाहीक' इति पदार्थस्याभिधया बोधजनन इत्यर्थः । निमित्तीभवन्ति कारणभूततामापद्यन्त इति भावः । इदमुक्तम्[- 'गौर्जल्पती' त्यस्य 'बाहीको ब्रूत' इत्यर्थः । अत्र च गोशब्दस्य बाहीकार्थः, 'जल्पती' त्यस्य च ब्रूत इति । गोबाहीकयोर्जाड्यादिगुणानां सामानाधिकरण्यात्, एवं च 'गौ' रित्यनेन स्ववृत्तयो गुणा लक्ष्यन्ते, ते च स्वसामानाधिकर
बाहीकार्थे बोधयन्तीति तस्य 'वाहीक' इत्यभिध्या बोध्योऽर्थः ' लक्षणया तु परं गुणा बोध्यन्ते । इति निष्कृष्टम् ।' इति । 'य' दिति शेषः । तत् । अयुक्तम् । कुत इति हेतुं दर्शयति- गोशब्दस्य 'गौ' रिति पदस्य । अगृहीतसङ्केतं न गृहीतः सङ्केतः स्वबोध्यत्वनियमो येन तं तथोक्तम् । बाहीकार्थं 'बाहीक' इत्यर्थम् । अभिधातुमभिध्या बोधयितुम् । अशक्यत्वात्सामर्थ्याभावात् । बाहीको गोपदवाच्य इति सङ्केताभावान्न गोपदं न वा तदर्थंगता लक्ष्यमाणगुणा बाहीकार्थं बोधयितुमीशते साक्षात् । इति भावः । ननु गोत्वे गृहीता शक्तिर्व्यक्तिमिव तत्सदृशमपि (बाहीकं) बोधयितुं शक्ता स्यादिति
१ 'विप्रसंस्कारयुक्तोऽपि नित्यं सन्ध्याऽऽदिकं च यः । नैमित्तिकं च नो कुर्याद्राह्मणब्रुव उच्यते ॥' इत्युक्तो । जातिमात्रेण ब्राह्मणः ।