________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। अत्र शुद्धानां पूर्वोदाहरणान्येव ।
रूढावुपादानलक्षणा सारोपा गौणी यथा-"एतानि तैलानि हेमन्ते सुखानि" इति । अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते । प्रयोजने यथा-राजकुमारेषु तत्सदृशेषु च गच्छत्सु “एते राजकुमारा गच्छन्ति” इति । अत्र सौन्दर्य्याद्यतिशयः प्रयोजनम् । रूंढावुपादानलक्षणा साध्यवसाना गौणी यथा-"तैलानि हेमन्ते सुखानि" इति ।
इति यावत् , 'इत्यर्थ'इति शेषः । यद्वा-कार्यकारणभावा उपलक्षणेनाधाराधेयभावादयश्चादयः कारणानि यासां तास्तथोक्ताः । 'इत्यर्थ' इति शेष इति पूर्ववत् । यद्वा ननु सादृश्येतरसम्बन्धाः शुद्धा इति यत्प्रतिपादितं, तत्र सादृश्यादितरे के सम्बन्धा? इत्यपेक्षायामाह-सादृश्येतरसम्बन्धाः सादृश्यादितरे सम्बन्धाः । काय्यकारणभावादयः । 'आदिनाऽऽधाराधेयभावादयः । अत एव-'ता'इति पदं व्याख्यायैतद् व्याख्यानं सङ्गच्छते । अन्यथा--एतद्व्याख्याय 'ता' इति व्याख्यातुं सङ्गच्छेत । अयं भावः-यदि सादृश्येतरसम्बन्धा इति कारिकांशस्तर्हि कार्य्य कारणभावादिसम्बन्धशालिन्य इत्यर्थो ज्यायान्, सादृश्यादितरे सम्बन्धाः क इत्यपेक्षायां यदि, तर्हि यथाश्रुत एवार्थः, इति दिक् ।
उदाहरति-अत्रेत्यादिना ।
अत्रासां शुद्धानां गौणीनां च लक्षणानां मध्य इति यावत् । शुद्धानां कार्यकारणभावादिसम्बन्धवतीनाम् । पूर्वोदाहरणानि पूर्वाणि दर्शितान्येवोदाहरणानि लक्ष्याणीति तथोक्तानि । यद्वा-पूर्वासां पूर्व निरूपितस्वरूपाणामुदाहरणानीति तथोक्तानि । एव । तथा च-“अश्व: श्वेतो धावती” त्यत्र रूढिमूला सारोपा शुद्धोपादानलक्षणा । श्वेताश्वयोर्गुणगुणिभावोपपत्तेः । “एते कुन्ताः प्रविशन्ति” इत्यत्र प्रयोजनमूला सैव, एतद्वाच्यानां कुन्तधारिणां कुन्तवाच्यानां शस्त्राणां धाय॑धारकभावोपपत्तेरनिवार्यप्रवेशकर्तृत्वद्योतनरूपात् प्रयोजनाच्च । “कलिङ्गः पुरुषो युध्यते" इत्यत्र रूढिमूला शुद्धा सारोपा लक्षणलक्षणा, कलिङ्गपुरुषयोराधाराधेयभावोपपत्तेः । “आयुर्घतम्" इत्यत्र प्रयोजनमूला सैव, कार्यकारणभावोपपत्तेः, अन्यापेक्षया घृतस्यातिशयद्योतकत्वोपपत्तेश्च । इति सिद्धम् ।
अथ गौणीरुदाहरति-रूढावित्यादिना।।
रूढौ रूढिमूलायां सत्याम् । सारोपाऽऽरोपसहिता। उपादानलक्षणा। गौणी । यथा-"एतानि प्रत्यक्षभूतानीति शेषः । तैलानि तिलभवानि स्नेहरूपद्रव्याणीति भावः । तस्येदम् ।' ४।३।१२० 'इत्यण् । हेमन्तेऽलिधनुःस्थसूर्ये उपलक्षणेन तादृशशीतप्रधानावसरे । सुखानि सुखरूपाण्युपचारात् तत्साधनभूतानीत्यर्थः । इति । अयं भावः'तैलं सम्मईयेदङ्गे हेमन्ते शिशिरेऽपि वा ।' इत्युक्तनयेन तैलाभ्यङ्गः सुखकरः अन्यथा शैत्याद्यनपायाद् दुःखम् । इति । अत्र । तैलशब्दः तैलानीति पदमित्यर्थः । तिलभवस्नेहरूपस्तिलभवो यः स्नेहस्तं रूपयति निरूपयतीति तथोक्तम् । मुख्यार्थम् । उपादाय सादृश्येन गृहीत्वा । एव । सार्षपादिषु सर्षपभवादिषु । आदिपदेन मृगमदादिद्रव्यसंपृक्तानां ग्रहणम् । स्नेहेषु । वर्तते । अयं भावः । एतत्पदं प्रत्यक्षग्राहकं, तैलपदं च तिलमात्रस्नेहप्राहकम् , प्रत्यक्षं च सार्षपादि तस्मात्तत्सादृश्यमुपादाय तैलपदं स्वेतरग्राहकम् । एवं च-स्वार्थे परित्यज्यार्थान्तरस्वीकारादुपादानम् एतत्पदवाच्यस्य सार्षपादेस्तैलपदार्थेनानिगीर्णत्वात्सारोपात्वम् , सादृश्यनिवन्धनत्वाद् गौणीत्वं च । स्नेहान्तरापेक्षयाऽऽधिक्यद्योतनाभावाद् रूढिमूलेयम् । इति । प्रयोजने प्रयोजनमूला उपादानलक्षणा सारोपा गौणी ति शेषः । यथा । राजकुमारेषु । तत्सदशेषु धन्येष्वपरेषु नवजातेष्विति शेषः । च । गच्छत्सु 'सत्स्वि'ति शेषः । “एते दृश्यमानाः । राजकुमाराः। गच्छन्ति ।” इति । अत्र । सौन्दर्य्याद्यतिशयः । 'द्योत्यमान इति शेषः । प्रयोजनम् । अयं भावः-एतत्पदवाच्यानां सर्वेषां राजकुमारत्वाभावात् तत्सदृशानां लक्षणात्सारोपा गौणी । प्रयोजनं च सर्वेषां सौन्दर्यविभुत्वादि प्रत्यायनम् । इति । एवं सारोपामुदाहृत्य साध्यवसानामुदाहरति-रूढावित्यादिना । रूढो सत्यां प्रवृत्तेति शेषः । साध्यवसानाऽध्यवसानवती। उपादानलक्षणा। गौणी । यथा-"तैलानि । हेमन्ते तदाख्य ऋतौ । सुखानि ।” इति । अत्र हि "एतानी' तिपदाप्रयोगात्