________________
साहित्यदर्पणः।
द्वितीयःनिगीर्णस्य पुनर्विषयस्यान्यतादात्म्यप्रतीतिकृत् साध्यवसाना। अस्याश्चतुषु भेदेषु पूर्वोदाहरणान्येव ।
२१ सादृश्येतरसम्बन्धाः शुद्धास्ताः सकला अपि ॥ १२ ॥
सादृश्यात्तु मता गौण्य-स्तेन षोडशभेदिताः। ताः पूर्वोक्ता अष्टभेदा लक्षणाः । सादृश्येतरसम्बन्धाः कार्यकारणभावादयः । स्थापितास्वित्यर्थः । स्थूणासु स्तम्भेषु । 'स्थूणा सूर्यो स्तम्भे रुगन्तरे ।' इति हैमः । “अमी । इन्द्राः । 'अदसो मात्।' १1१1१२ इति संहिताऽभावः ।" इति । अत्र । तादर्थ्यलक्षणस्तादर्थ्येन लक्ष्यतेऽसाविति तथोक्तः । तस्यार्थस्तदर्थस्तदर्थस्य भावस्तादर्थ्यम् । 'कर्मण्यधिकरणे च।३।३। ९३ इति ल्युट् । यद्वा-तादर्थ्य लक्षयतीति तथोक्तः । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।'३।१।१३४ इति ल्युः । 'युवोरनाको ।' ७।१।१ इत्यनः । सम्बन्धः । इदमवसेयम्अदःपदवाच्यस्येन्द्रस्य स्थूणापदवाच्येन काष्ठविशेषेणान्वयानुपपत्तो लक्षणा । इन्द्रस्येव स्थूणापदवाच्यस्य पूज्यत्वद्योतनं प्रयोजनम् । अदसः स्थूणोपलक्षणाल्लक्षणम् । आरोप्यमाणेनेन्द्रेण स्थूणाया अनिगिरणमदःशब्दस्य तद्वाचकस्य प्रयोगादिति सारोपा । इति । ननु 'तात्स्थ्यात्तथैव ताद्धात्तत्सामीप्यात्तथैव च। तत्साहचर्य्यात्तादर्थ्याद् ज्ञेया वै लक्षणा बुधैः ॥' इत्युक्तदिशा तात्स्थ्यादिनाऽपि लक्षणोदाहर्त्तव्येति चेत्सत्यमित्याह- एवम् । अन्यत्र-“मञ्चाः क्रोशन्ती" त्यादौ। अपि । इति । अयं भावः-तात्स्थ्याद् यथा-"मञ्चाः क्रोशन्ति" इत्यादौ, ताद्धात् यथा-"गौाह्मण"इत्यादौ, तत्सामीप्याद् यथा"अग्नौ माणवकस्तपती" त्यादौ, तत्साहचर्याद् यथा-"विभूषणानि यान्ति" इत्यादौ, तादर्थ्याद् यथा-"अमी इन्द्राः" इत्यादौ। तात्कादप्येषा यथा-'तक्षाऽसा' वित्यादावित्येके, ताद्धादेवात्रापीत्यपरे । न चैवं 'पीनो देवदत्तो दिवा न भुङ्क्ते' 'इत्यादावपी'ति वाच्यम् , अर्थापत्या तदुपपत्तेः । अत एव-पीनो देवदत्तो दिवा न भुक्त' इत्यत्र च रात्रिभोजनं न लक्ष्यते. श्रुतार्थापत्तेरापत्तेर्वा तस्य विषयत्वात् ।' इति प्रकाशकारः । यत्रानुपपद्यमानः शब्दः शब्दान्तरं कल्पयति सा श्रुतार्थापत्तिः, यत्र च दृष्टः श्रुतो वाऽर्थोऽनुपपन्नोऽर्थान्तरं कल्पयति, साऽर्थापत्तिः । इति दिक् । निगीर्णस्यारोप्यमाणेनान्तर्भावितस्य । विषयस्य । पुनः। अन्यतादात्म्यप्रतीतिकृदन्यस्य विषयिण: (आरोप्यमाणस्य ) तादात्म्यं तस्य प्रतीतिकृत् विषयविषयिणोरभेदप्रतीतिकारणभूतेति भावः । साध्यवसाना। अस्याः साध्यवसानाया लक्षणाया इत्यर्थः । चतुर्दा रूढिमूलक उपादानरूपे प्रयोजनमूलक उपादानरूपे रूढिमूलके लक्षणरूपे प्रयोजनमूले लक्षणरूपे चेत्यर्थः । भेदेषु । पूर्वोदाहरणानि पूर्वमुदाहृतानि लक्ष्याणीत्यर्थः । एव । अयं भावः-विषयिणाऽनिगीर्णस्य विषयस्य तेन सहाभेदप्रत्यायिका सारोपा, विषयिणा पुनर्निगीर्णस्य विषयस्य तेन सहाभेदप्रत्यायिका साध्यवसाना; तथा च-विषयस्याश्चादेरनभिधाने निगरणमिति तत्तद्वाचकशब्दाप्रयोग एषैवेति सिद्धम् , अत एव-"अश्वः श्वेतो धावती" त्यादौ यथा सारोपा, तथा-"श्वेतो धावति," "कुन्ताः प्रविशन्ति," “कलिङ्गो युध्यते," "आयुः" इत्यादौ साध्यवसाना । अत्र हि क्रमात्-'अश्व:,' 'एते,' 'पुरुषः,' 'घृतम्'इत्येतेषां निगरणम् । अन्यत्पूर्ववत् । इति ।
एतासां पुनद्वैविध्यं दर्शयति-२१ सादृश्येतरसम्बन्धा इत्यादिना ।
२१ सादृश्येतरे सादृश्यभिन्नाः सम्बन्धा हेतवो यासां तास्तथोक्ताः । ताश्चतुर्विधास्सारोपाश्चतुर्विधाः साध्यवसानाश्वेत्येवमष्टविधा इत्यर्थः । सकला न तु तासां तिस्रश्चतस्रो वेति भावः । अपि पुनः । शुद्धाः । 'लक्षणा'इति शेषः । सादृश्यात् 'सम्बन्धा'दिति शेषः, तथा च-सादृश्यसम्बन्धा इत्यर्थः । तु (इदं पूर्वतो व्यतिरेकद्योतनार्थम्)। 'ताः सकला अपी'ति पूर्वतोऽन्वेति । गौण्यो गुणेभ्य आगता इति तथोक्ताः । 'तत आगतः ।' ४।३।७४ इत्यण् । 'टिड्ढाण..।' ४।१।१५ इति डीप् । मताः । तेनाष्टविधानां द्वैविध्येनेत्यर्थः । षोडशभेदिताः षोडशभेदा जाता यासां तास्तथोक्ताः । 'लक्षणा' शेषः । तारकादित्वादितच् ॥ १२ ॥
कारिकार्थमवगमयितुं तत्काठिन्यं परिहरति-ता इत्यादिना ।
ताः 'इत्यस्य'ति शेषः । पूर्वोक्ता रूढिमूला प्रयोजनमूला वा सारोपा वा साध्यवसाना वोपादानलक्षणा लक्षणलक्षणा वा, इत्येवं पूर्वमभिहिता इत्यर्थः । अष्टविधाः।लक्षणा 'इत्यर्थ' इति शेषः । सादृश्येतरसम्बन्धाः 'इत्यस्येति शेषः । कार्यकारणभावादयः । आदिना-आधाराधेयभावादीनां ग्रहणम् । उपचारात् तत्सम्बन्धाः कार्यकारणभावादिसम्बन्धा