________________
परिच्छदः]
रुचिराख्यया व्याख्यया समेतः। अत्रायुष्कारणमपि घृतं कार्यकारणभावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते । अन्यवैलक्षण्येन अव्यभिचारेण आयुष्करत्वं प्रयोजनम् । यथा वा- राजकीये पुरुषे गच्छति “राजाऽसौ गच्छति" इति । अत्र स्वस्वामिभावलक्षणः सम्बन्धः । यथा वा- अग्रमात्रेऽवयवभागे “हस्तोऽयम्"इति । अत्र अवयवावयविभावलक्षणः सम्बन्धः । यथावा-ब्राह्मणोऽपि"तक्षाऽसौ" इति, अब तात्कर्म्यलक्षणः । यथा वा-इन्द्रार्थासु स्थूणासु “अमी इन्द्राः” इति, अत्र तादर्थ्यलक्षणः सम्बन्धः । एवमन्यत्रापि ।
तस्माल्लक्षणा, कलिङ्ग आधारः पुरुषः पुनराधेय इत्यनयोः सम्बन्धश्च, इत्येवं स्थितौ कलिङ्गः खार्थ जहत् खाधेयस्य पुरुषस्य विशेषणात्मतयोपपद्य योधनक्रियायामन्वयं प्रतिपद्यते, तदेतत् फलं लक्षणस्य । पुरुषे कलिङ्ग आरोप्यते, इति कलिङ्गो विषयी पुरुषः पुनर्विषयः । अत एवात्र सारोपात्वमपि । न चैवं, श्वेतोऽश्वोधावती' त्यपीति शङ्कयम् , कलिङ्गस्येव श्वेतस्य खार्थापरित्यागात् । इति । प्रयोजने 'सति प्रवृत्ते'ति शेषः । “आयुः । घृतम्" इति । अत्रास्मिन्नुदाहृते वाक्य इति यावत् । आयुष्कारणमायुषो जीवनसमयस्योपलक्षणेनायुष्यवृद्धेः कारणमित्यर्थः ।' आयुर्जीवितकालः' इत्यमरः । अपि । घृतम् । कार्यकारणभावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन कार्य्य (जन्यं) च कारणं (जनक) चेति तयोर्भावः तत्ता स एव सम्बन्धस्तत्सम्बन्धि यदायुस्तस्य तादात्म्यमभेदस्तेन तथोक्तन । प्रतीयते । इदमुक्तम्-आयुश्शब्दार्थमन्वयोपपत्तये स्वार्थ परिज्यजन् घृतशब्दार्थोऽङ्गीकरोति, तथा चायुरभिन्नं घृत'मिति वाक्यार्थः सम्पद्यते, अन्यथा कार्यकारणयोरायुघृतयोविशेषणविशेष्यभावो नोपपद्येत। अथ घृत आयुरारोप्यत इत्यायुष आरोग्यमाणत्वं घृतस्य चारोपकत्वमिति सारोपा । घृतशब्देन स्वार्थ परित्यज्यायुःशब्दार्थोऽङ्गीक्रियत इति लक्षणम् , तदेवमायुर्जन्यं घृतं च तज्जनकमिति वास्तविकभेदेऽपि लक्षणया तयोरभेदोऽवतार्य्यते । अत एव समानविभक्तिकत्वेन समानवचनत्वेन च तयोर्विशेषणविशेष्यभावः, ननु कार्यकारणभावरूपः सम्बन्धस्तदुत्तम्भितश्च भेदः । इति । अन्यवैलक्षण्येनान्येभ्यः स्वव्यतिरिक्तेभ्य उपवनादिसेवनेभ्यो वैलक्षण्यं विशेषस्तेन तथोक्तेन । अव्यभिचारेण चेति शेषः । आयुष्करत्वमायुष्यकरत्वम् । प्रयोजनम् । अयं भाव:-आयुद्धृतयोर्जन्यजनकभावसम्बन्धमनभिधाय विशेषणविशेष्यभावेण यदभिधानं तेनायुष उपलक्षणेनायुष्यस्यासाधारणतया नियतरूपेण वा वृद्धिसम्पादकत्वं घृतस्येत्यभिधीयते । तदेतत् प्रयोजनं लक्षणामूलम् । इति। यथा। वा। राजकीये राजसम्बन्धिनि प्रधानादावित्यर्थः । 'वृद्धाच्छः ।' ४।२।११४ इति छः । 'राज्ञः क च ।' ४।२।१४० इति कादेशः । पुरुषे । गच्छति 'सती'ति शेषः । तथा च-'राजकीयो गच्छतीति वक्तव्येऽपि तथाऽनुक्त्वेत्यर्थः । “असौ। राजा। गच्छति" इति । अत्रास्मिन्नुदाहरण इति यावत् । स्वस्वामिभावलक्षणः स्वश्च स्वामी चेति तयोर्भावः स एव लक्षणं यस्य तथोक्तः । स्वः स्वयंभृत्य इति यावत् , स्वमस्यास्तीति स्वामी प्रभुरिति यावत् । 'स्वामिन्नैश्चर्ये ।' ५।२।१२६ इति निपातनात् साधुः । तथा च-शास्यशासकभावलक्षण इत्यर्थः । सम्बन्धः । इदं तत्त्वम्- अत्र राजकीयस्य तत्त्वेनानभिधानात् अदसो मुख्यार्थबाधाल्लक्षणा। राजकीयत्वेन राजशास्यत्वेऽपि राजवच्छासकत्वस्य सातिशयं द्योतनं फलम् । अदसा निर्दिश्यमानस्य राजकीयस्य राजपदवाच्येनान्वयोपपत्त्यभावेऽदसः स्वार्थत्यागपुरःसरं परार्थात्मताग्रहणाल्लक्षणम् ' राजकीये राजत्वमारोप्यत इति आरोप्यमाणेनारोपविषयस्यादःपदवाच्यस्यानिगीणस्वरूपत्वात्सारोपात्वम् । भृत्यत्वाधीशत्वरूपः सम्बन्धश्च हेतुः । इति । यथा ।वा । अग्रमात्रेऽग्रमेवेति तत्र । अवयवभागे । “अयं निर्दिश्यमानोऽड्गुल्याद्यन्यतम इति यावत् । हस्तो विस्तृतः कर इत्यर्थः । 'प्रकोष्ठे विस्तृतकरे हस्त' इत्यमरः ।" इति । अत्र । अवयवावयविभावलक्षणः । सम्बन्धः । इदं बोध्यम्- हस्ताग्रभागस्य हस्तत्वाभावात्तत्रापि हस्तत्वव्यवहारो मुख्यत्वेन बाधितोऽत एवाग्रमुख्यार्थबाधाल्लक्षणा । अत्रेदं शब्दः स्वार्थ जहत् हस्तपदार्थतां गृह्णातीति लक्षणम् । अग्रभागे हस्तत्वारोपणात् सारोपात्वम् । हस्तवत् मालादिग्रहणरूपक्रियाकारित्वद्योतनं फलम् । इति । यथा । वा। ब्राह्मणो। अपि । “असौ । तक्षा काष्ठस्य तक्षणादिना कपाटादिनिर्माता वर्धकिरिति यावत् । 'तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट् ।' इत्यमरः ।” इति । अत्र । तात्कर्म्यलक्षणस्तात्कर्येण लक्ष्यतेऽसाविति तथोक्तः । तत्कर्मणो भावस्तात्कर्म्यम् । सम्बन्धः । इदमवधेयम्- अदःपदवाच्यस्य ब्राह्मणस्य तक्षपदवाच्यत्वाभावात् विशेषणविशेष्यभावानुपपत्तौ । लक्षणा । असावपि अदेःपदवाच्यस्य ब्राह्मणस्य तक्षतया लक्षणाल्लक्षणम् । समस्ततक्षकर्मनैपुण्यद्योतनं प्रयोजनम् । आरोप्यमाणेनादसो निगीर्णत्वात् सारोपा । इति । यथा । वा । इन्द्रार्थास्विन्द्रोऽधिष्ठातृतयाऽर्थः प्रयोजनं यासां तासु । इन्द्रमुद्दिश्य