________________
५०
साहित्यदर्पणः।
[द्वितीयः
ताः पूर्वोक्ताश्चतुर्भेदलक्षणाः ।
२० विषयस्यानिगीर्णस्या-न्यतादात्म्यप्रतीतिकृत् ॥११॥ विषयिणाऽनिगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सारोपा । इयमेव रूपकालङ्कारबीजम् ।
- सारोपा स्यान्निगीर्णस्य मता साध्यवसानिका ।
रूढावुपादानलक्षणा सारोपा यथा-"अश्वः श्वेतो धावति" इति, अत्र हि श्वेतगुणवान अश्वोऽनिगीर्णस्वरूपः, स्वसमवेतगुणतादात्म्येन प्रतीयते, प्रयोजने यथा-"एते कुन्ताः प्रविशन्ति” इति । अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात्सारोपात्वम् । रूढौ लक्षणलक्षणा यथा-'कलिङ्गः पुरुषोयुध्यते।' इति । अत्रं हि पुरुषकलिङ्गशब्दयोराधाराधेयभावः सम्बन्धः । प्रयोजने यथा-"आयुर्घतम् इति ।
कारिकां सुगमयितुमाह-ताः। पूर्वोक्ताः । चतुर्भेदलक्षणाश्चतुर्भेदा लक्षणा इत्यर्थः । इति । आरोपाध्यवसानपदार्थ विवृण्वन्नुक्तं द्वैविध्यं स्पष्टयति-२० विषयस्येत्यादिना ।
२० अनिगीर्णस्य अतिरोहितस्वरूपस्य । विषयस्यारोपविषयस्य । अन्यतादात्म्यप्रतीतिकृदन्यस्यारोप्यमाणस्य विषयिण इति यावत् , तादात्म्यमभेदस्तस्य प्रतीतिस्तां करोतीति तथोक्ता । सारोपा । स्यात् 'लक्षणेति शेषः ।
अथ-निगीर्णस्य । 'विषयस्यान्यतादात्म्य प्रतीतिकृत्'इति पूर्वतोऽन्वेति । साध्यवसानिका मता ॥ ११॥
तदेवाह-विषयिणाऽऽरोप्यमाणेन 'गौर्बाहीक'इत्यादौ गवादिरूपेण । अनिगीर्णस्यन निगीर्णस्तिरोहितस्वरूपस्तस्य विषयस्यारोपविषयस्य बाहीकादेरित्यर्थः । तेनारोप्यमाणेन गवादिरूपेण विषयिणेति यावत् । अत्र सहार्थे-'वृद्धी यने ति लिङ्गात्ततीया । एव । तादात्म्यप्रतीतिकृत्खरूपतायाः प्रतीतिविधात्रीत्यर्थः । सारोपा।
अस्याः फलं निर्दिशति-इयमित्यादिना । एवं सारोपा लक्षणा । एव । रूपकालङ्कारस्य । बीजं कारणभूता, 'एनामेवोपजीव्य रूपकप्रवृत्ते'रिति शेषः । उदाहरति-रूढावित्यादिना ।
हढौ सत्यामिति शेषः । सारोपा। उपादानलक्षणा। यथा “श्वेतस्तद्गुणसमवेतः । अश्वः । धावति वेगेन गच्छति।" इति । हि यतः । अत्र "अश्व: श्वेतो धावति" इत्युदाहरणे । श्वेतगुणवान् श्वेतगुणसमवेतः । अश्वः । अमिगीर्णस्वरूपः 'श्वेतो धावती'त्यत्रेव श्वेतेनारोप्यमाणेन विषयिणा निगीर्ण स्वरूपं यस्य तादृश इत्यर्थः । स्वसमवेतगुणतादात्म्येन स्वस्मिन् अश्वे समवेतः समवायसम्बन्धन वर्तमानो यो गुणः श्वेतगुणस्तस्य तादात्म्यमभेदस्तेन । प्रतीयते । अयं भावः- 'गुणगुणिनोः समवायसम्बन्ध'इति नयेन श्वेतगुणः समवायसम्वन्धनाश्वेवर्तमानोऽपि विशिष्य निर्दिश्यमान आरोप्यमाण इति गीयते, तथा च-'श्वेतोऽश्व'इत्यत्र श्वेत आरोप्यमाणस्तेन चाभोऽभिगीर्ण इत्ययं विषयस्तेन विषयिणाऽनिगीर्णात्मा, स्फुटा चैवं सारोपा। 'श्वेतवानश्वो धावती'त्येवमनभिधाय 'श्वेतोऽश्वो धावती' त्यभिधानशैल्येवेति रूढिमूला चेयम् । इति । प्रयोजने 'सत्या'मिति शेषः । यथा-'सारोपो क्षणे ति पूर्वतोऽन्वेति । "एते । कुन्ताः प्रासाः । प्रविशन्ति" इति । यतः-अनास्मिन उदाहते वाक्य इति यावत् । सर्वनामा तत्सझकेनैतच्छब्देनेत्यर्थः । कुन्तधारिपुरुषनिर्देशात् कुन्तधारिणोऽमी पुरुषास्तेषां निर्देशस्तस्मात् । सारोपात्वम् । अयं भावः-एतच्छब्दो हि सम्मुखस्थनिर्देशकः, सम्मुखस्थाश्च वक्तः कुन्तधारिणः, एवं तत्र कुन्तत्वारोपणात् सारोपा । कुन्तानां च स्वतः प्रवेशक्रियाकर्तृत्वानुपपत्तेः तच्छब्दः स्वार्थमजहत् स्वाधारभूतान् उपपादयतीत्युपादानसद्भावः । कुन्तसदृशानिवार्य्यपुरुषकर्तृत्वस्य पुरुषगतस्य स्मारणं प्रयोजनम् । धार्य्यधारकभावरूपश्च सम्बन्धः । इति । रूढौ 'सत्यां प्रवृत्ता' इति शेषः । लक्षणलक्षणा। 'सारोपा' इति शेषः । यथा-"कलिङ स्तन्नामा देशः । लक्षणया तत्रत्य इत्यर्थः । पुरुषः । युध्यते।” इति । अत्रास्मिन् 'उदाहृते वाक्य' इति यावत् । पुरुषकलिङ्गशब्दयोस्तद्वाच्ययोरिति भावः । आधाराधेयभावआधाराधेयत्वरूप इत्यर्थः । 'अभ्यर्हितं च ।' इत्याधारशब्दस्य पूर्वनिपातः। सम्बन्धः । इदमवसेयम्- कलिङ्गो देशविशेषः पुरुषः प्राणिविशेषश्च तयोर्विशेषणविशेष्यभावो नोपपद्यते न वा योधनक्रियायाः कर्तृत्वं कलिङ्गे,