________________
. साहित्यदर्पणः। ..
[सप्तमःरूढेऽन्योन्यसङ्घामे 'कङ्कणमोचनाय गच्छामि' इति राघवस्योक्तौ । पुनः पुनःप्तिर्यथा-कुमारस. म्भवे चतुर्थे सर्गे रतिविलापे।
अङ्गिनोऽननुसन्धानं यथा-रत्नावल्यां चतुर्थेऽ) बाभ्रव्यागमने सागरिकाया विस्मृतिः। अनङ्गाय कीतनं यथा-कर्पूरमन- राजनायिकयोः स्वयंकृतं वसन्तस्य वर्णनमनादृत्य
वन्दिवर्णितस्य प्रश
अङ्गस्यातिविस्तृतियथा-किगतार्जुनीये सुगङ्गनाविलासादिः ।
प्रकृतयो दिव्या, अदिव्या, दिव्यादिव्याश्च, तासां धीरोदात्तादिता, तेषामप्युत्तममध्यमाधमस्याप्यसम्भवाच्छङ्गारवर्णनमयुक्तम्' इति शेषः । अकाण्डे । छेदः समाप्तिः । 'रसस्य'इति शेषः । यथा । महावीरचरिते तदाख्ये नाटके । द्वितीये । अथे। राघवभार्गवयो रामचन्द्रपरशुरामयोः । धाराऽधिरूढे धारयाऽधिरूढस्तन। अन्योऽन्यसङ्गामे । कङ्कणमोचनायकङ्कणयोस्तद्रूपयोवैवाहिकरक्षासूत्रयोमोचनं तस्मै तत् कत्तुम् । गच्छा मि। इतीत्यस्याम् । राघवस्य। उक्तौ भासमानायाम् इति शेषः। एतेन-'तदनुपलभ्यमानत्वेऽपि तत्प्रकरणानुकूलतया मन्तव्यायाम् इति निष्कृष्टम्।अत्रायं भावः-धीरोदात्तस्य रामस्य तथाऽभिधानं व्याजनिर्गमनं द्योतयत् कातरतामभिव्यनक्ति। इति । पुनः पुनः दीप्तिः प्रकाशः। रसस्य'इति शेषः। कुमारसम्भवे तदाख्ये काव्ये । रतिविलापे।अत्रायम्भाव:स्वसामग्रीलब्धपरिपोषस्य विच्छिद्य विच्छिद्य पुनः पोषणं पुनः पुनःप्तिः। सा चाङ्गभूतरसादेरेव नत्वनिनो रसस्य दोपाय। महाभारतादौ शान्तादेरिव तस्य वैरस्यावहत्वात् ।इत्ययं नित्यो दोषः। तदुक्तम्-'उपभुक्तो हि पुनरुपभुज्यमान उपभुक्तकुमु. मपरिमल इव सहृदयानामास्वादापकर्षकः । तथा चाह-'परिपाकं गतस्यापि पौनःपुन्येन दीपनम् । परस्य स्याद्विरो घाय' इति।
अथाझिनोऽननुसंहितत्वं दोषमुदाहरति-अङ्गिन इत्यादिना ।
अङ्गिनः प्रधानरसस्य । अननुसन्धानम् । यथा-रत्नावल्पाम् । चतुर्थे । अङ्के। बाभ्रव्यागमने वात्रव्यस्य तदाख्यस्य सिंहलेश्वरकञ्चुकिन आगमनं तस्मिन् । सागरिकाया रत्नावल्याः विस्मृतिर्विजयवर्मवृत्तान्ताकर्णगिहितमनसा नरपतिना वत्सराजेन नाममात्रस्याप्यग्रहणादननुसन्धानमित्यर्थः । अयं भावः-नायिकाया विस्मरणेन प्रधानस्य हारस्यैवानुसन्धानाभाव इति तस्योच्छेदः । इति । 'अथानजस्य कीर्तनमुदाहरति-अनङ्गस्येत्यादिना ।
अनङ्गस्य प्रकृतानुपकारिणः । कीर्तनम् । यथा-कर्परमश्न- तदाये राजशेखरकृते सट्टके । राजनायि. कयोश्चण्डपालविभ्रमलेखयोः । सम्बन्धसामान्यविवक्षया पष्टी। स्वयकृतम् । वसन्तस्य । वर्णनम् । अनादृत्य । वन्दिवर्णितस्य । 'वसन्तस्ये ति शेषः । प्रशंसनम् । अत्रायम्भाव:-'जह किन णिवेदिदं वंदीहि'' इत्यारभ्य विदूषकोक्तिपर्यन्तेन वन्दिवर्णितस्य वसन्तस्य प्रशंसनम् । तच प्रकृतरसानुपकारित्वादयुक्तम् । इत्येतदेव दुषकताबीजं, नित्यत्वे हेतुश्चेति ।
अथाङ्गस्यातिविस्तृतिमुदाहरति-किरातार्जुनीये इत्यादिना ।
किरातार्जुनीये तदाख्ये काव्ये । सुगङ्गनाविलासादिः । अत्रेदमभिहितम्-किरातार्जुनीयं हि वीररसप्रधान काव्यं, न तत्र शृङ्गारप्राधान्यम् । इति तत्र सुराङ्गनाविलासादिवर्णनविस्तरोऽनुचित एवेति दोषः । इति ।
अथ प्रकृतिविपर्ययमुदाहरन प्रकृतीस्तावद् व्याचष्टे-प्रकृतय इत्यादिना।
प्रकृतयः स्वभावाः । दिव्याः केवल मुद्रिक्तसत्त्वाः, यथा देवानाम् ; अत एवामी दिव्या इत्युच्यते । अदिव्या दिव्याभ्यो व्यतिरिक्ताः, यथा-मनुष्याणाम् । च । दिव्यादिव्याः किञ्चिद्दिव्याः किञ्चिददिव्याश्च इत्यर्थः । यथा-दैत्ययक्षादीनां महामहिमशालिनां रामभद्रादीनां च । अत एवामी न दिव्या, नाप्यदिव्या इति वक्तुं शक्यन्ते । तासां प्रकृतीनाम् । केचित्त्वाहु:-'प्रकृतयो नायिका नायकाच, ते च दिव्या अदिव्या दिव्यादिव्याश्च । तेषां नायकानामि'त्यर्थः।
१ 'यथा किल निवेदितं वन्दिने ति संस्कृतम् ।