________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः।
६३
त्वम्, तेषु च यो यथाभूतस्तस्यायथावर्णने प्रकृतिविपर्ययो दोषः । यथा-धीरोदात्तस्य रामस्य धीरोद्धतवच्छद्मना वालिवधः । यथा वा-कुमारसम्भवे-उत्तमदेवतयोः पार्वतीपरमेश्वरयोः सम्भो. गशृङ्गारवर्णनम् । इदमेव 'पित्रोः सम्भोगवर्णनमिवात्यन्तमनुचितम्।' इत्याहुः। ____अन्यदनौचित्यं देशकालादीनामन्यथा यदर्णनम् । तथा सति हि काव्यस्यासत्यताप्रतिभासेन विनेयानामुन्मुखीकारासम्भवः ।
इति । 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिखभावयोः ।' इति मेदिनी । धीरोदात्तादिता धीरोदात्तः ‘अविकत्थनः क्षमावान्' इत्यायुक्तस्वरूपो नायकविशेष आदौ येषां ( धीरोद्धतादीनाम् ) तेषां भावस्तत्ता, धीरोदात्तधीरोद्धतादिवरूपत्वमित्यर्थः । 'कार्य'मिति शेष इति केचित् । तेषां प्रसिद्धानां धीरोदात्तादीनाम् । अपि । उत्तममध्यमाधमत्व. मुत्तमत्वम्मध्यमत्वमधमत्वं चेत्यर्थः। तेषु दिव्यादिव्यप्रकृतिकेषु । च। यः । यथाभूतः । तस्य । अयथावर्णने। प्रकृ. तिविपर्ययः प्रकृतेविपर्ययो विपर्यासः। दोषः । यथा-धीरोदात्तस्य रामस्य रामभद्रस्य । धीरोद्धतवद्धीरोद्धतस्येवेत्यर्थः । 'तत्र तस्येव ।' ५।१।११९. इति वतिः । बालिवधः। यथा वा-कुमारसम्भवे तदाख्ये काव्ये । उत्तमदेवतयोः । पार्वतीपरमेश्वरयोः। सम्भोगशृङ्गारवर्णनम् । इदम् । एव । 'पित्रोर्मातापित्रोः । सम्भोगवर्णनमिव । अत्यन्तम् । अनुचितम् ।' इतीत्येवम् । आहुः 'काव्यप्रकाशकाराः' इति शेषः । अत्रेदमभिहितम्-न हि सर्वे समस्वभावाः, तत्तत्कारणभुसगुणवैचित्र्येण स्वभावानामपि वैचित्र्यात् । तथा च-केचिद्दिव्यस्वभावा दिव्याः, अदिव्यस्वभावा अदिव्याः, दिव्यादिव्यस्वभावाः पुनर्दिव्यादिव्या इति । तत्र दिव्या देवाः, अदिव्या मनुष्या वत्सराजादयः, दिव्यादिव्याः पुना रामभद्रादयः । एतेऽपि धीरोदात्तादिभेदेन चतुर्विधा, उत्तमत्वादिना पुनस्त्रिविधाः । एवं यस्य यादृशी प्रकृतिस्तस्य तादृशमेव वर्णनमनुरूपम् । छाना बालिवधः, तत्परित्यागस्तदन्यथाकल्पनं वा सङ्गच्छते एव यथोदात्तराघवमहावीरचरितयोः । उक्तमपि-'यत्तत्रा नुचितं किञ्चिन्नायकस्य रसस्य वा । विरुद्धं तत् परित्याज्यमन्यथा वा प्रकल्पयेत् ॥' इति । तथा-पार्वतीपरमेश्वरयोर्विरक्तमूर्धन्ययोः साधारणवत् सम्भोगवर्णनं पित्रोरिवानौचित्यमावहति । इत्ययं नित्यो दोषः । अत एवाह:-रतिस्तथैव हासश्च शोक आश्चर्यमेव च । दिव्यानामुचितं वर्ण्यमदिव्योत्तमनेतृवत् ॥ किन्तु सम्भोगशृङ्गारो वर्यो नोत्तमदेवयोः । सद्यः फल प्रदः क्रोधो भ्रूकुटयादिविवर्जितः ॥ उत्साहः स्वर्गपातालगत्यब्धिलङ्घनादिषु । दिव्यानामेव नेतृणां वर्ण्यते बुधसत्तमैः ॥ पूज्यादौ तु तत्रभवन् भगवनिति चोच्यते। भट्टारकेति राजादौ महाराजेति चोच्यते ॥ इत्याद्यचितमेतेषां विरुद्ध दूषणम्भवेत् ॥' इति । एवं च-दिव्यादिव्यानामुभय, यथाऽर्जुनस्य स्वःपातालादिलङ्घनोत्साहः, एष एवादिव्यानां दोषायेति निष्कृष्टम् । अत एवोक्तम्-'कुलशैलाम्बुनिधीनां न ब्रूयालङ्घनं मनुष्येण | आत्मीययैव शक्त्या सप्तद्वीपावनिक्रमणम् ॥' इति । एवं च-सर्वमुचितं वर्ण्यमानमेव सुशोभतेऽन्यथा प्रकृतिविपर्यासो रसमभिभवेत् । यथास्वर्गाङ्गनासु मानुषीवेषादिवर्णनम् , रसातलादौ मेघादिवर्णनम् , वसन्ते मेघादिवर्णनं, जरायां सम्भोगवर्णनम्, कुलाङ्गनानां स्पष्टमभिप्रायोद्धाटनं चेति दिक। ... अर्थानौचित्यमुदाहर्तुं तत्स्वरूपं विवृणोति-अन्यदित्यादिना ।
अन्यत् । तदिति शेषः । अनौचित्यम् 'अर्थानाम्' इति शेष: । यत् । देशकालादीनाम् ‘रसानुबन्धिनाम्' इति शेषः । अन्यथाऽन्यप्रकारेण यथा भाव्यं तद्वैपरीत्येनेति यावत् । वर्णनम् । हि यतः । तथा यो यथाभूतस्तस्य देशकालादेः तथा वर्णनाभावे इति भावः । सति । काव्यस्य । असत्यताप्रतिभासेन । विनेयानां शिक्षणीयाना राजपुत्रादीनामिति यावत् । उन्मुखीकारासम्भवः । अत्रायम्भावः-ननु निद्राघूर्णितनयने स्पृशति बलात् स्वं रुषा पदं प्रहितम् । दयिताम्मन्येन पुनस्तेनापि तथैव मानिन्याम् ॥ वहति समन्तात् सुरभौ विकसति कमलाकरे ध्वनत्सु भङ्गेषु । गुरुषु च पठत्सु वेदान् कृतिनो विहरन्ति कान्ताभिः ॥' इत्यादौ को दोषः, नात्र विद्याविरुद्धत्वमिति वाच्यम् ? तस्य साक्षाद् रसतिरस्कारकत्वाभावात् ? इति चेत् ? अर्थानौचित्यम् । अर्थानौचित्यनाम यस्थ यथा