________________
परिच्छेदः
रुचिराख्यया व्याख्या समेतः ।
ईषत्क्षिप्तकटाक्षा स्मेरमुखी सा निरीक्ष्यतां तन्वी ॥ ३२॥' अब रसस्योद्दीपनालम्बनविभावावनभावपर्यवसायिनौ स्थिताविति कष्टकल्पना । 'परिहरति रति मतिं लुनीते स्खलतितरां परिवर्तते च भूयः। इति बत विषमा दशाऽस्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥ ३३ ॥' अत्र रतिपरिहाराद नां करुणादावपि सम्भवात्कामिनीरूपो विभावः कष्टादाक्षेप्यः ।
अकाण्डे प्रथनं यथा-वणीसंहारे द्वितीयेऽङ्के वर्तमानेऽनेकवीरसङ्क्षयेऽकाले दुर्योधनस्य भानुभत्या सह शृङ्गारप्रथनम् । अकाण्डे छेदो यथा-महावीचारते द्वितीयेऽङ्के राघवभार्गवयोधाराधि.
Fari लोकनिरीक्षणस्य सत्त्वासत्त्वोपात
यस्य तस्मिन् नायके इत्यर्थः । भूव करोतीति,
चिर्विकासो यस्य तस्मिन् । चन्द्रमसीत्यर्थः । यद्वा-लोकलोचनानन्दे लोकलोचनं संसारनिरीक्षणमानन्दयतीति तादृशे । यदन्वयव्यतिरेकाभ्यां लोकनिरीक्षणस्य सत्त्वासत्त्वोपपत्तिस्तथाभूते इति भावः । अत एव- शिशिररोचिषि तद्वत् स्थिते, यद्वा-शिशिरं सर्वमानसिकसन्तापनिवर्तकतया शीतलं रोचिर्दर्शनं यस्य तस्मिन् नायके इत्यर्थः । भुवनतलं संसारम् । धवलयति श्वेतं सुन्दरं वा कुर्वति स्वविकासेन श्वेततां स्मितवितानेन सुन्दरतां वा नयतीत्यर्थः । धवलं करोतीति, धवलयतीति, तस्मिन् । 'अथ धवलो महोक्षे सुन्दरे सिते ।' इति हैमः । ईषत्क्षिप्तकटाक्षेषत् किञ्चित् क्षिप्ताः कटाक्षा यया यस्या वेति सा । स्मेरमखी स्मेरं विकस्मितं मुखं यस्याः सा । सा दुनिरीक्ष्या। तन्बो। निरीक्ष्यतां दृश्यताम् । अत्र गीतिः छन्दस्तल्लक्षणं चोक्तं प्राक् ॥३२॥
, दोषं लक्षयति-अबोदाइते पद्य । रसस्य सम्भोगशृङ्गारस्येत्यर्थः । उद्दीपनालम्बनविभावाबुद्दीपनं (चन्द्रनिरीक्षणादि ) चालम्बनं (नायकः) चेति, ते अम् विभावाविति तथोक्तौ। अनभावपर्यवसायिनावनुभावं नायकनिरीक्षणजन्यमानभङ्गसनाथीकृताहादं पर्यवसाययतः प्रकरणाद्यनुसन्धानसापेक्षतया विलम्बेनावगमयते इति तथोक्तौ । स्थितौ। इतीत्यतः । कटकल्पना कटेन कल्पनाऽऽक्षेपसमर्थनम् । अनुभावस्येति शेषः । अत्रायम्भावः-स्मेरमुखीत्वादि चन्द्रनिरीक्षणादुद्दीपनानायकनिरीक्षणादालम्बनाद्विभावाद्वा भवितुं शक्यमिति तस्य रत्यनुभावरूपत्वमेवेति न वक्तुं शक्यते । वस्तुतस्तु अनुभाव इवालम्बनविभावोऽपि दुबाँध एवेति बोध्यम्। अस्तु वाऽऽलम्बनव्यक्तिः, किन्तु चन्द्रोदये यूनोः परस्परालोकने भवत्येव कटाक्षपातादि, किन्तु आलम्बनस्य नायकस्य शृङ्गारित्वं कथमनुभूयेतेति दुर्वचम् । इत्यभिप्रेत्यैवाहुर्विवृतिकारा:-'नायकस्य शृङ्गारित्वनिश्चायकाभाव इत्यनुभावस्य नायिकायां चक्षुःप्रसारक्स्य कष्टकल्पनयाऽऽक्षेपः । नायकस्याशृङ्गारित्वे दर्शनाभावस्यापि सम्भवात्तादशसमये तादृशनायिकायां मुनेरपि प्रायो मनःक्षोभो भवतीत्यौत्सर्गिकमेव चक्षःप्रसारणमिति कष्टकल्पना।' इति ।
विभावस्य कष्टकल्पिताक्षेपमुदाहरति-'परिभवति...' इत्यादिना ।
'बत कष्टम् । विषमा कठिना दुश्चिकित्स्येतियावत् । दशाऽवस्था । रतिं वस्तुनि स्पृहाम् । रिहरति दुरीकरोति । मतिमर्थावधारणम् । लुनीते छिन्नत्ति । लूज् छेदने । भृशमत्यन्तम् । स्खलति परिपतति । भूयः पुनः । परिवर्तते परिवर्तयते । इतीत्येवम् । अस्य नायकस्य । देहम् । प्रसभम। परिभवति । अत्रास्मिन् विषये। किम् । कम्मः। अत्र पुष्पितामा छन्दः । तल्लक्षणं चोक्तं प्राक ॥१२॥
अत्रेत्यस्मिन्नुदाहृते पद्ये । रतिपरिहारादीनामनुभावानामितिभावः । करुणाऽऽदौ। आदिपदेन भयानकबीभत्सयोर्ग्रहणम् । सम्भवात् । तथा च-'संशयेन तदेकतरनिश्चयाभावे' इति शेषः । कामिनीरूपः । आक्षेपः । कष्टात प्रकरणाद्यनुसन्धानरूपभूतात्क्लेशादित्यर्थः । आक्षेप्यः। इति ।
अथाकाण्डे रसस्य प्रथनच्छेदौ, तथा पुनः पुनर्दीप्तिरित्येतत्रयं क्रमादुदाहरति- अकाण्डे इत्यादिना ।
अकाण्डे प्रकृतप्रतिकूले समये । प्रथनं वर्णनं रसस्य'इति शेषः। यथा-वेणीसंहारे तदाख्ये नाटके । द्वितीये। अड़े। अनेकवीरसक्षये। वर्तमाने । अत एव-अकालेऽनवसरे । दुर्योधनस्य भानुमत्या तदाख्यया राझ्या । RE | शृङ्गारप्रथनंङ्गारस्य प्रथनं विपुलतया वर्णनम् । 'उत्साहस्य शोकस्य वाऽवसरे रतेरवसरासम्भवे तदास्वाद