________________
[ सप्तमः
साहित्यदर्पणः। 'मानं मा कुरु तन्वङ्गि ! ज्ञात्वा यौवनमस्थिरम् । अत्र यौवनास्थैर्यनिवेदनं शृङ्गाररसपारपन्थिनः शान्तरसस्याङ्गम, शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः।
'धवलयति शिशिररोचिषि भुवनतलं लोकलोचनानन्दे ।
स्वशब्दवाच्यत्वे आस्वादापकर्ष इति दोषः, स च तथा त्रिविधः सन् सामान्यासामान्याभ्यां द्विधा भूय षोढाऽऽत्मा । सति सम्भवेऽनुभावादिनाऽभिव्यक्तो चमत्कारस्योत्कर्षः, नतु वाच्यत्वे; वाच्यत्वे हि अगूढत्वापत्तेस्तस्याप कर्षः । इत्थं च यत्र यस्यानुभावादिना स्फुटतरं नाभिव्यक्तिः तत्र तस्य वाच्यत्वेऽपि नापकर्षः।इति न स्वरूपसन् दोषः । ननु 'तामुवीक्ष्य' इत्यादौ तत्तचर्चेव नेति कथमत्र दोष इति चेत् ? 'तामुद्रीक्ष्य' इत्यादौ उद्वीक्षणादिनैव अनुभावाभिव्यक्ति रिति तदन्याभिव्यक्तिरापसिद्धाऽवसेया। यत्र त्वनुभावाद्यभिव्यक्तावपि चमत्कार विशेषाधानाय अन्यथैव उद्देशस्तत्र निदुः ष्टत्वमेवेति 'उपगत' इत्यादौ केनापि सञ्चारिणोरगेण प्रस्ता नावैति' इति सङ्गच्छते । नात्र सञ्चारिशब्दो ब्यभिचारिपाय एव किन्तु पर्यटनकारिप-योऽपि । एवमन्यत्र । यथा-'न सखी न वा सपत्नी प्यात्मानं न चैव चारित्रम् । व्यभिचारिणं कमप्युपलभ्यासौ गणयते नान्यत् ॥' इत्यत्र 'व्यभिचारिण'मिति शब्दः । इदमभिहितम्-व्यभिचारिणः शन्दवा. च्यत्वनाम दोषोऽनित्य एव, स रससम्बन्धी स्यात्तदन्यसम्बन्धी वा । 'कचित्' इत्यादि तु दिकप्रदर्शनार्थमेव प्राचामनुरोधात् ।' इति।
एवं रसादीनां स्वशब्दवाच्यत्वमुदाहृत्य रसाङ्गानां पारपंथिपारग्रहमुदाहरति-'मानं...' इत्यादिना । ___ हे तन्वनि ! यौवनम् । अस्थिरं चञ्चलम् । ज्ञात्वा । मानमभिमानम् । मा नैव । कुरु । 'नेह किश्चित् सदा स्थायि किं पुनः परिणाम्यदः ॥' इति शेषः।' इति । दोषन्निदर्शयति-अत्र । यौवनास्थैर्यनिवेदनं यौवनस्थास्थैर्ये तनिवेदनम् । शृद्धाररसपरिपन्थिनः शृङ्गाररसस्य (यः) परिपन्थी विरुद्धस्तस्य । शान्तरसस्य । अङ्गमङ्गभूतम् । च पुनः । शान्तस्य शान्तरसस्य । एव न तु शृङ्गाररसस्य । विभावः । इतीत्यस्मात् । शृङ्गारे शृङ्गाररसे । तत्परिग्रहस्तस्य (शान्ताङ्गभूतविभावस्य ) परिग्रहः । न । युक्तः। अत्रायम्भावः-निर्वेदस्थायिनि शान्त एव यौवनादीनामस्थायित्वनिवेदनपुरःसरमभिमानपरित्यागौचित्याशंसनं सङ्गच्छते । शृङ्गारश्च शान्तश्च नितान्तं भिन्नात्मानौ इति परिपन्थिरसाङ्गभूतविभावस्य परिग्रहः । इति । यथा वा-'प्रसादे वर्तस्व, प्रकटय मुदं, सन्त्यज रुषं, प्रियं शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं, न मुग्धे प्रत्येतुं प्रभवति यतः कालहारणः ॥' इत्यत्र प्रकृते शृङ्गारे तत्परिपंथिनः शान्तस्य कालनित्यत्वनिवेदनमुद्दीपनविभावस्तनिवेदिते निर्वेदो भावश्च परिगृहीत इति परिपन्थिन उपस्थितौ प्रकृतचमत्कारापकारमूल: परिपन्थिरसाङ्गपरिग्रहो दोषः । यथा वा-'णिहुअरमणम्मि लोअणपहम्मि पडिए गुरुअणमज्झम्मि । सअलपरिहारहिअआ वणगमणं एव्व महइ बहु ।' इत्यत्र प्रकृते शृङ्गारे व्याजाद्यन्तरा सकलपरिहारवनगमनरूपयो: शान्तानुभावयोः परिपन्थिनोः परिग्रहः । अत्रदं बोध्यम्-यत्र परिपन्थिनोः श्लेष एव तत्रनामतार्थत्वं, यत्र पुनरेकस्मिन्नपरस्य विभावादिस्फुरणमात्रं तत्रायम् । यद्यपि विभावादिस्फुरणेन परिपन्थिनो रसस्यापि स्फुरणे द्वयोरपि परिपन्थिनोः स्फुरणमत्रापि वक्तुं शक्यते, तथापि नात्र अभिमतार्थत्ववत्साधारण्यं, किन्तु प्रकृतस्य प्राधान्यं न परस्येत्यूह्यम् । अत एवास्य अनित्यत्वम्, तस्य नित्यत्वं च । अन्यथा 'विरोधिनोऽपि स्मरण'इत्यादिवश्यमाणनयेन अमतपरार्थत्वसद्भाव एव न भवेत् । काव्यप्रकाशकारा अप्याहः-'अत्र सकल परिहारवनगमने शान्तानुभावौ । इन्धनाद्यानयनव्याजेन उपभोगार्थ वनगमनं चेत् न दोषः ।' इति। एतेनैतस्य 'अमतपरार्थत्वाद्भेदश्चिन्त्य' इति वदन्तः प्रत्युक्ताः।
अथानुभावस्य विभावस्य च कष्टात् कल्प्यमानमाक्षेपमुदाहरति-धवलयति...' इत्यादिना ।
'लोकलोचनानन्दे लोकस्य :लोकानां वा लोचने नत्रे लोचनानि वाऽऽनन्दयतीति तथोक्ते । 'लोकस्तु भुवने जने।' इत्यमरः । पचादित्वादच । शिशिररोचिषि शिशिरं शीतलं तापशमनकतया दाहप्रतिद्वन्द्विभूतमिति यावद्रो
१ 'निभृतरमणे लोचनपथे पतिते गुरुजनमध्ये । सकलपरिहृदया धनगमनमेवेच्छति वधूः ॥' इति संस्कृतम् ।