________________
परिच्छेदः ]
रुचिराख्यया व्वारुपमा समेतः ।
स्थायिभावस्य स्वशब्दवाच्यत्वं यथा- 'अजायत रतिस्तस्यास्त्वयि लोचनगोचरे ॥' व्यभिचारिणः स्वशब्दवाच्यत्वं यथा- 'जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने ॥' अत्र प्रथमे पादे 'आसीन्मुकुलिताक्षी सा' इति लजाया अनुभावमुखेन कथने युक्तः पाठः ।
चकितचकितं भूयोभूयो निरीक्ष्य बताबला रहसि कमपि ध्यानानीतं रसं पिबति स्म सा ॥ ' ' धातुः शिल्पातिशयनिकपस्था. नमेषा मृगाक्षीरूपे देवोऽप्ययमनुपमो दत्तपत्रः स्मरस्य । जातं दैवात्सदृशमनयोः सङ्गतं यत्तदेतत् शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥' इत्यादौ 'रसशृङ्गारा' दिशब्दैरपि रसस्य स्वशब्दवाच्यत्वं सङ्गच्छते । इति ।
स्थायिव्यभिचारिणोः स्वशब्दवाच्यत्वमुदाहरति-स्थायिभावस्येत्यादिना ।
स्थायिभावस्य स्थायिनो भावस्य । स्वशब्दवाच्यत्वम् । यथा- ' त्वयि सुन्दरे' इति शेषः । लोचनगोचरे सतीत्यर्थः । तस्या मम सख्या इत्यर्थः । रविः शृङ्गारस्थायिभावः । अजायत । 'स्मितेन रुचिरे दृष्टया पीयूषपरिवर्षिणि ।' इति शेषः ।' इत्यत्र 'रतिः' इति शब्दोपादानात् स्थायिभावस्य स्वशब्दवाच्यत्वमिति भावः ॥ यथा वा - 'एकत्र हत विरुवन्ति सुहृज्जनास्ते, निघ्नन्ति तांश्च यमदस्युभटाः परत्र । अन्तः स्वदुष्कृतफलेन पचन्ति तप्तास्तान् पश्यतोऽपि हृदयं न भिनत्ति शोकः ॥ ' इत्यत्र 'शोकः' इति शब्दोपादानात् । द्विधाभूतश्चायं सामान्यविशेषाभ्यां द्विधाऽवतारात् । अत्र न केवलं स्वप्रत्ययान्यथात्वं किन्तु व्याधातोऽपीत्येतन्मूलोऽयम् । 'परिहसतु दुरात्मा दुर्गतिर्वा वृणोतु परिभवतु निकामं
कचिज्जनो वा । छुरतु कुलिशपाणिर्हन्तु मां वा कृतान्तस्तदपि जयतु सोऽन्तः स्थाय्यनन्यः प्रसादः ॥ ' इत्यत्र पुनः स्थायीति प्रसादविशेषणतया प्रतीयते इति न दुष्टः शब्दः । एवं तत्रैव तुय्र्ये पादे 'तदपि नरवरेणोत्साह एवावलम्ब्यः ॥ ' इति पाठवैपरीत्ये 'उत्साह' इति कर्तव्योपदेशमात्रपरतया प्रतीयते इति सङ्गच्छते । तस्मादनित्यं एवेति । व्यभिचारिणो व्यभिचारिभावस्य । स्वशब्दवाच्यत्वं स्वशब्दो व्यभिचारिसञ्चान्यतरो निर्वेदाद्यन्यतमो वा शब्दस्तद्वाच्यत्वम् । तत्राद्यो यथा- 'उपगतमपि निजदयितं दयिते । किमिदं बतेति पृच्छन्तम् । सञ्चारिणः प्रभावात् कस्याप्येषेति नावैति ॥ ' इत्यत्र 'सञ्चारिण' इति शब्दोपादानात् । यथा ('अन्त्यो दोषः । ' इति शेषः) । 'मुग्धाऽप्राप्तयौवना नायिका । प्रियस्य प्रियसम्वन्धिनइत्यर्थ: । 'अधरस्ये 'ति शेषः । परिचुम्बने । 'क्रियमाणे' इति शेषः । लज्जावती । 'जाता । 'पिपासिताऽपि सुचिरादुद्यताऽपि कथचन ।' इति शेषः ।' इत्यत्र 'लज्जा' इति शब्दोपादानान् । इति भावः । इत्थमुदाहृत्य निर्दोषं पाठ निर्दिशति अत्रोदाहृते वाक्ये । प्रथमे पादे । 'सा । मुकुलिताक्षी । भासीत् । ' इतीत्येवम् । लज्जायाः । अनु भाव कथने । पाठः । युक्तो निर्दोषः । यथा वा - 'सत्रीडा दयिताऽऽनने, सकरुणा मातङ्गचर्माम्बरे, सन्त्रासा भुजगे, सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेय जह्नुसुताऽवलोकनविधौ, दीना कपालोदरे, पार्वत्या नवसङ्गमप्रणयिनी दृष्टि: शिवायास्तु वः ॥' इत्यत्र व्रीडाऽऽदिशब्दोपादानात् । अत्राहुः प्रदीपकाराः - ' अत्र व्रीडादयो व्यभिचारिभावाः स्वशब्देनोपात्ताः । न च स्वशब्देनोपात्तेषु व्यभिचार्यादिष्वास्वादसम्भवोऽनुभूयते, किन्तु अनुभावादिमुखेनैव, व्यक्तेषु, तस्मादास्त्रादानुत्पत्तिर्दोषत्वबीजमिति सम्प्रदायः । तत्रेदमालोचनीयम् एतावता शब्दवाच्यताया दोषत्वमेव तावद् दुर्लभम् दूरेपार्थक्येन दूरतरे साक्षात्, तथाहि - अनुभावादीनामुपस्थितावियं रसप्रतिबन्धिकताऽभिमा, तदनुपस्थितौ वा अन्त्ये कारणाभावादेवास्वादाभावो, न तु वाच्यत्वकृतः सत्येव कारणच कार्यानुत्पादस्य प्रतिबन्धकता व्यवस्थापकत्वात्, तथा वन्यूनभिहितवाध्यता वा दोषः, न त्वियम् । आद्येऽनुभावादित एव रसव्यक्तिरिति किं तच्छब्देनेति वैयर्थ्य मात्र दोषः । वयं त्यालोचयामः - अनुभावादीनामुपस्थितावेव भावा ( भावरसा ) दीनां शब्दवाच्यतयाssस्वादोपघातः प्रतीयते इति तस्याः पृथग्दोषत्वम्, अत एवौत्सुक्यादीनां शब्दवाच्यता न दोषः, तत्रास्वादविघाताप्रतीतेः । नच वाच्यमेवानुभावोपादानेऽपि किमिति नोदाहृतमिति, तदुपादानस्थले भावादि ( व्यभिचारिरसस्थायिभाव ) शब्दानां वैयर्थ्यमपीत्यसङ्कराभिप्रायेण तथोदाहरणात्, उदाहृते त्वनुभावाक्षेपकतया वैयर्थ्याभावात् । न चैवमुक्तोदाहरण विरोधस्तत्रानुभावाद्यनुपादानादिति वाच्यम्, 'दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥' इत्यादाविवाक्षेपेण तेषां प्रतीतेः । नहि व्रीडाऽऽदिशब्दैः प्रतिपादिता व्रीडाऽऽदय आस्वाद्यतामिव स्वानुभा वाद्याक्षेपकतामप्यास्वादयितुमक्षमाः, व्रीडाभावात् । इति । एवमप्यपरे प्राहुः - ' रसस्य स्थायिनो व्यभिचारिणश्च