________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। ___चण्डीशचूडाभरण! चंन्द्र ! लोकतमोऽपह ! । विरहिप्राणदमन ! कदर्थय न मां वृथा ॥३०॥' अत्र विरहिण उक्तौ तृतीयपादस्यार्थो नानुवाद्यः।
'लग्नं राग़ावृताङ्ग्या सुदृढमिह ययैवासियष्टयारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती। तत्सक्तोऽयं न किश्चिद्गणयति विदितं तेऽस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद्गदितुमिति गतेबाम्बुधिं यस्य कीर्तिः॥ ३१॥" अत्र 'विदितं तेऽस्तु' इत्यनेन समापितमपि वचनं तेन' इत्यादिना पुनरुपात्तम् । अथ रसदोषानाह
६ रसस्योक्तिः स्वशब्देन स्थायिसञ्चारिणोरपि ॥ १२ ॥
इदं बोध्यम्-'आनन्दितस्वपक्षोऽसौ परपक्षान् हनिष्यति । मोदितास्तिकसन्दोहः कल्कीव ननु नास्तिकान् ॥' इति समस्तमिदम् । अत्र स्वपक्षस्यानन्दितत्वाभिधानं परपक्षनिहननपूर्वकमेवेति प्रकृतेऽन्यथाभिधानाद्विध्ययुक्तार्थत्वम् । इति ।
अनुवादायुक्तार्थत्वमुदाहरति-चण्डीशे'त्यादिना । स्पष्टोऽर्थः ॥ ३० ॥
इदं तु बोध्यम्-अत्र विरहिणश्चन्द्रं प्रति 'कदर्थय न मां वृथा' इति प्रार्थनम्, तच्च 'चण्डीशचूडाऽऽभरणे'त्यादि. ना साभिप्रायविशेषणन्यासद्वारा समर्थितमपि तृतीयपादप्रतिपाद्येन 'विरहिप्राणदमने'त्यनेनापाकृतं, तस्य तथा स्वाभाव्योद्भावनात् । इत्ययमनुवादस्यायुक्तत्वमूलोऽर्थदोषः । इति ।
निर्मुक्तपुनरुक्तत्वमुदाहरति -'लग्न'मित्यादिना ।
'इहास्मिन् सङ्ग्रामे । यया । एव । रागावृतान्या रागेण रुधिरलौहित्येन(अन्यत्रानुरागेण)आवृतमजमवयवो विशिष्टलोहरेखाविशेषो ( अन्यत्र नेत्रादि ) यस्याः, तया । असियष्टयाऽसिः खड्ग एव यष्टिस्तया ( अन्यत्र तत्त्वेनाध्यस्तया नायिकया) अरिकण्ठेरीणां शत्रणां कण्ठस्तत्र (अन्यत्रार्छन्त्यागच्छन्तीत्येवंशीलास्तेषामरीणां [आगच्छता जाराणां ] कण्ठे)। सुदृढं यथा भवेत्तथा । लग्नं लग्यते स्म (खण्डनाय रमणायेति वा)। च तथा । याऽसियष्टिः (अन्यत्र तत्त्वेनाध्यवसिता नायिका)। इहास्मिन् सङ्ग्रामे। मातङ्गानां हस्तिनाम्(अन्यत्र तत्सदृशानाम्मदशालिनाम्) अपि किमु परेषाम् । उपरिपतन्ती (स्वयमेव गत्वा खण्डनाय, रमणायेति वा)। परपुरुषैः परेषां शत्रूणां पुरुषाः सैनिकास्तैः (अन्यत्र-परे उदासीनामहान्तो वाऽमी पुरुषास्तैः) । दृष्टा । तत्सक्तस्तस्यामसियष्टयां ( अन्यत्र तत्त्वेनाव्यवसितायो नायिकायां ) सक्तः सम्बद्धो निरन्तरं तद्धारीति भावः (अन्यत्रासक्तः ) । अयं वीरो राजा ( अन्यत्र तव जामाता, मम भर्ता)। किश्चित् किमपि युक्तायुक्तम् न । गणयति विचारयतीत्यर्थः । इदम्-ते तव (मत्पितुः ) 'अम्बुधे!' इति शेषः । विदितं निवेदितम् । अस्तु । इदं किमित्याह-तेन (नामानुल्लेखः क्रोधं व्यक्ति) भृत्येभ्यः सेवकेभ्यः । दत्ता । अस्म्यहमित्यर्थः । इतीत्येवम् । श्रीनियोगात् श्रियो लक्ष्म्या नियोगो नियोजनं तस्मात् । मत्पितयेवं निवेदय, इत्येवंरूपाच्छासनादित्यर्थः । गदितुमिव । यस्य वीरस्य राज्ञः । कीर्तिः । अम्बुधिं समुद्रम् । गता । अत्रासियष्टिरसाध्वीत्वेन, श्री राजपत्नीत्वेन, कीर्तिः पुनक्तीत्वेनाध्यवसिता समुद्रान्तं चैतस्या व्याप्तिरभिहिता । शार्दूलविक्रीडितं वृत्तम् । तल्लक्षणं चोक्तं प्राक् ॥ ३१ ॥'
लक्ष्यं स्पष्टयति-अत्रे त्यादिना ।
अत्र । 'विदितम् । ते । अस्तु ।' इत्यनेनेत्यन्तेनाभिधानेन । समापितम् । अपि । वचनमभिधानम् । 'तेने त्यादिना । पुनरुगत्तम् । अत्रेदं बोध्यम्-'विदितं तेऽस्तु' इत्यनेन समाप्यमपि राजदोषाभिधानं 'तेनास्मि दत्ता भृत्येभ्यः' इत्येतावता पुनरभिधानेनोपात्तम् , तच्च निरर्थमेव, उत्प्रेक्षायास्तेनैव निर्वाहात् । श्रीनियोगात्' इत्यादि तुं न दुष्टम्, अन्यथा वाक्यैकवाक्यत्वमुच्छियेत ।
रसदोषान् लक्षयितुं प्रतिजानीते-अथेत्यादिना । अथ रसदोषान । आह कथयति-६ रसम्योक्तिरित्यादिना । रसस्य । स्वशब्देन खस्य रसस्य शृङ्गारादेर्वा शब्दस्तद्वायकस्तेन तद्द्वारेति यावत् । उक्तिः कथनं वाच्यतेति