________________
साहित्यदर्पणः ।
.
[सप्तमः
ननु वाच्यस्यानभिधाने 'व्यतिक्रमलवम्' इत्यादी अपेरभावः, इह च-एवकारस्येति कोऽनयोर्भेदः १ अत्राह-नियमस्यावचनमेव पृथग्भूतं नियमपरिवृत्तर्विषयः।' इति, तन्न, तथा सत्यपि द्वयोः शब्दार्थदोषतायान्नियामकाभावात् , तत्का गतिः? इति चेत् ! 'व्यतिक्रमलवं' इत्यादौ शब्दोच्चारणानन्तरमेव दोषप्रतिभासः, इह तु अर्थप्रत्ययानन्तरम्, इति भेदः । एवं च-शब्दपरिवृत्तिसहत्वासहत्वाभ्यां पूर्वगतोऽपि शब्दार्थदोषविभागः पय्य॑वस्यति-यः शब्दपरिवृत्त्य पहः स शब्ददोष एव, यश्च पदार्थान्वयप्रतीतिपूर्वबोध्यः सोऽपि शब्ददोषः, यस्तु अर्थप्रतीत्यनन्तरं बोध्यः सोऽश्रियः इति । एवं च-अनियमपरिवृत्तत्वादेरपि अधिकपदत्वादे दो बोद्धव्यः। अमतपरार्थत्वे च 'राममन्मथशरेण' इत्यादी नियमेन वाक्यव्यापित्वाभिप्रायादाक्यदोषता, अश्लीलत्वादेस्तु न नियमेन वाक्यव्यापित्वम् ।
आनन्दितस्वपक्षोऽसौ परपक्षान् हनिष्यति ।' अब 'परपक्षान हत्वा स्वपक्षानानन्दाय ध्यतीति विधेयम्।
इति यावत् , उभयविधानामपि भोगानामापातमात्रसुरसत्वात् । तथा च श्रुतिः-'यथेह कर्मचितो लोकः क्षीयते एवमेवा. मुत्र।' इति । निमग्नास्तडागादिगः इव पतिता जना इत्यर्थः । किम् । न नैव । कुर्वन्ति, अपि तु सर्वमनर्थजातं कुर्वन्तीति भावः । 'अविवेकेन सन्दष्टाः कृपणा हतलोचनाः। इति शेषः ॥' अत्र 'आगतं पतनावधि। एवनतु नोत्तरम् । इत्येवम् । नियमः । न वाच्यः । तस्मात् 'आपातमात्रभव्येऽर्थे इति युक्तः पाठः । इति शेषः ।
नन्वत्र वाच्यानभिधानमंवाङ्गीक्रियताम् , अप्वयोर्भेदाभावात् , इत्यभिप्रेत्याशङ्कते-नन्वित्यादिना।
ननु । वाच्यानभिधाने । 'व्यतिक्रलवं' इत्यादौ। अपेः । अभावः। इहास्मिन् नियमानियमार्थत्वे सति 'आपातसुरसे इत्यादाविति यावत् । च । एवकारस्य । 'अभावः' इति पूर्वेण । इतीत्येवम् । अनयोः 'दोषयोः' इति शेषः । कः । भेदः 'अप्येवयोोतकत्वेन सामान्ये तदभावमलस्यापि दोषस्य नानात्वानकोकायात्' इति शेषः । इति । चेत् अवास्यां मीमांसायामुपस्थितायामिति यावत् । आह 'कश्चित्' इति शेषः । नियमस्यैवकारस्य । पृथग्भूतम् । अवचनं वचनाभावः । एव । नियमपरिवृने नियमस्य परिवृत्तिः परिवर्तनं तस्याः । विषयः । इति । तत् । न 'युक्त'मिति शेषः । हेतुमाह-तथा सति । अपि । द्वयोर्वा च्यानभिधाननियमपरिवृत्त्योः । शब्दार्थदोषतायां शब्दत्वेन आर्थत्वे विभज्याभिधाने । नियमाभावाद्भेदकानुपलब्धेः । नन्वेवम्-तत् । का। गतिनिर्वाहप्रकारः । इति चेत् ? 'व्यतिक्रमलव'मित्यादौ-अनभिहितवाच्यत्वे। शादोच्चारणानन्तरम् । एव न तु अर्थावगमानन्तरम् । दोषप्रतिभासः। इह 'आपातसुरसे' इत्यादौ परिवतितनियमत्वादी दोष । तु।अर्थप्रत्ययानरम् । 'दोषप्रतिभास'इति पूर्वेणान्वेति। इति भेदः। नन्वेवं किं सिद्धान्तितमित्याह-एवम् । च । शब्दपरिवृत्तिसहत्वालहत्वाभ्यां शब्दपारवृत्तिसहत्वेनार्थपरिवृत्तिसहत्वेव च । पूर्वैः । आहतः स्वीकृतः । अपि । शब्दार्थदोषविभागः शाब्दोऽयमार्थोऽयमिति विभागः। एवं वक्ष्यमाणप्रकारेण पर्य. वायति युज्यते । तमेव प्रकारं निर्दिशति-य: । दोषः । शब्दपरिवृत्यसहः शब्दान्वयव्यतिरेकानुविधायी । सः । शब्ददोषरशब्दं दूषयतीति तथोक्तः । एव नत्वर्थदोषः । यः । च 'दोष' इति शेषः । पदार्थान्वयप्रती. तिपूर्वयोध्यः पदार्थानामन्वयो योग्यताऽऽदिकृतः सम्बन्धस्तस्य प्रतीतिः सा पूर्वा यत्र तद्यथा तथा बोध्यः । सः। अर्थाश्रयोऽर्थान्वयव्यतिरेकानुविधायी दोषः । इति । किमेवं निष्पन्नमित्याह-एवम् । च । अनियमपरिवृत्ति. स्वादेः आवर्त एव नाभिस्ते इत्यादेरर्थदोषस्य । अपि । अधिकपदत्वादेः । 'पल्लावाकृतिरक्तोष्ठी'त्यादेः शब्ददो. षात् । भेदः । बोद्धव्यः । तथा-'राममन्मथशरेण ताडिता' इत्यादौ ( उदाहृतपूर्वे ) । अमतपरार्थत्वेs. नभिमतद्वितीयार्थमूलकतयाऽर्थदोषायमाणे शाब्दे दोषे । तु । नियमेन । वाक्यव्यापित्वं वाक्यान्वयव्यतिरेकानुविधायित्वम् । 'अतो नार्थदोषत्वभ्रमः कार्य' इति शेषः ।
अयुक्तवियर्थतामुदाहरति-'आनन्दित '.. इत्यादिना । स्पष्टोऽर्थः ।