________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । अत्र 'न रावणः' इत्येतावतैव समाप्यम् 'क्क नु' इत्यादि पुनरधिकं, तस्मादस्थानयुक्तार्थता। 'हीरकाणां निधेरस्य सिन्धोः किं वर्णयामहे ।' अत्र 'रत्नानानिधेः' इत्यविशेष एव वाच्यः । 'आवर्त एव नाभिस्ते नेत्रे नीलसरोरुहे। भङ्गाश्च बलयस्तेन त्वं लावण्याम्मुवापिका ॥ २९॥' अत्र 'आवर्त एव नाभि' रिति नियमो न वाच्यः। 'यान्ति नीलनिचोलिन्यो रजनीवभिसारिकाः।'अत्र 'तमित्रासु' इति रजनी विशेषो वाच्यः
'आपातसुरसे भोगे निमग्नाः किन्न कुर्वते ॥' अत्र 'आपातमेव' इति नियमो वाच्यः । दोषेण नालङ्गिध्यतेति भावः । इदं पद्यं वालरामायणस्य । शार्दूलविक्रीडितं च वृत्तं तल्लक्षणं चोक्तं प्राक्॥२८॥'अवास्याम् 'आश्चर्यम् ! एकोऽपि गरीयान् दोषः समग्रमपि गुणग्राम दूषयति, तथाहि-इत्युपक्रम्य जनकं प्रति तत्पुरोहितस्य शतानन्दस्योक्ताविति भावः । 'न रावणः' इत्येतावता 'अर्थाभिधानेन' इति शेषः । समाप्यम् । 'क नु'इत्यादि । पुनः । अधिकमस्थानेऽभिहिततयाऽनुपयुक्तम् । तस्मात्-अस्थानयुक्तार्थत ऽस्थाने विरुद्वे स्थाने युक्तः सम्बद्धोऽर्थो यत्र तस्य भावस्तत्ता । 'दोषः' इति शेषः । अत्रेद बोध्यम्-जगदाक्रन्दकारितया रावणस्य त्याज्यत्वं विवक्षितम्, तच्च 'आश्चर्यम् एकोऽपि गरीयान् दोषः समग्रमपि गुणग्राम दूषयति, तथाहि' इन्युपक्रमानुसन्धानेन 'न रावणः' इत्येतावत्यभिहिते एव सम्पद्यते, 'क्वनु पुनः' इत्यादि पुनर्योजितं तस्य जगदाकन्दकारित्वेन त्याज्यस्यापि विवक्षितविरुद्धमत्याज्यत्वं प्रत्याययति, एतस्य समाधाने एव पर्यवसानात्, अत एवास्थानयुक्तार्थत्वं निर्बाधम् ।
अविशेषे विशेषार्थत्वमुदाहरति-'हीरकेत्यादिना ।
'हिरकाणां हीराणां तदुपलक्षितानी रत्नानामिति यावत् । निधनधानस्य । अस्य । सिन्धोः । कर्मणि षष्ठी। किम् । वर्णयामहे? 'कुबेरस्येव पद्माद्यमुकुन्दोन्मोदकारिणः ।' इति शेषः॥'
अत्रास्मिन् सिन्धोरत्नाकरत्वेनातिशये वर्ण्यमाने । 'रत्नानांनिधेः' इत्यविशेषः । एव न तु हीरकाणां निधेः' इति विशेषः । वापः तस्मादविशेषविशेषार्थत्वम् ।
अनियमनियमार्थत्वमुदाहरति-'आवर्त' इत्यादिना ।।
'ते तव 'सुन्दरि !' इति शेषः । नाभिः। आवत्तों जलाना चक्रवद्रमः स्यादावतॊऽम्भसाम्भ्रमः ।' इत्यमरः । एव। नेत्रे नयने । 'एवेति पूर्ववत् । च । बलयो जठरावयवविशेषाः । भङ्गास्तरङ्गाः । 'एवेति पूर्ववत् त्वं सुन्दरी इत्यर्थः । लावण्याम्बुधापिका लावण्यजलस्य वापिकाभूता। 'एवेति पूर्ववत् । कस्याश्चित् सौन्दर्य निरीक्ष्य तया सङ्गमभिलषत इयमुक्तिः॥२९॥अव आवर्तः। एव । नाभिः । इतीत्येवम् । नियमः । न नैव । वाच्यः। अथापि उक्तः, तस्मात्-अनियमनियमार्थत्वं दोषः' इति शेषः । यथा वा-वक्त्राम्भोज सरस्वत्यधिवसति सदा शोण एवाधरस्ते वाहुः काकुस्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेता क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मानसेऽस्मिन् कथमवनिपते ! तेऽम्बुपानाभिलाषः ? ॥' इत्यत्र 'शोण एवं ति नियमो न वाच्यः, तथाऽऽरोपे नियमासम्भवात् ।
विशेषाविशेषार्थत्वमुदाहरति-'यान्ति'.... इत्यादिना ।
'नीलनिचोलिन्यो नीलाः श्यामा निचोलाः पिधानपटा आसां सन्तीति, ताः । श्यामवर्णैर्वस्त्रैः पिहितावयवा इत्यर्थः 'निचोल: प्रच्छदपटः ।' इत्यमरः । अभिसारिकाः। रजनीष (तिमिराकुलासु) रात्रिष्वित्यर्थः । यान्ति गच्छन्ति । 'परेणालक्ष्यसञ्चारा मूकीकृविभूषणाः । इति शेषः ।'
अत्रोदाहृते पद्यांशे । 'त'मलासु' इतीत्येवम् । रजनीविशेषः। वाच्यो वक्तव्यः। स च नोक्तः, इति विशेषे वक्तव्येऽपि विशेषार्थानभिधानाद्विशेषाविशेषार्थत्वं नाम दोषः' इति शेषः । । नियमानियमार्थत्वमुदाहरति-'आपातरसे' इत्यादिना । .
'आपातसरसे आपातं पतनावधि (एव) सुरसस्तत्र, परिणामविरसे इति भावः । पातम्मादीकृत्येत्यापातम् । 'आइमर्यादाऽभिविध्योः । '२।१।१३' इत्यव्ययीभावः । भोगे विषयसुखानुभवार्थेमुष्ठाने ऐहिके आमुष्मिके वा भोगे