________________
साहित्यदर्पण: ।
[ सप्तम: -
'ऐशस्य धनुषोभ क्षत्रस्य च समुन्नतिम् । श्रीरत्नं च कथनाम मृष्यते भार्गवोऽधुना ॥ २६ ॥ ॥ अत्र 'श्रीरत्नमू' इति 'उपेक्षितुम्' इत्याकाङ्क्षति ।
५४
'सज्जनो दुर्गतौ मनः कामिनी गलितस्तनी । खलः पूज्यः समज्यायां तापाय मम चेतसः॥२७॥' अत्र 'खज्जनः कामिनी च शोभनौ, तत्सहचरः खलोऽशोभनः' इति सहचरभिन्नत्वम् । 'आज्ञाशकशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं, भक्तिर्भुत at पिनाकिनि, पदं लङ्केति दिव्या पुरी । उत्पत्तिर्दुहिणान्वये च तदहो नेदृग्वरो लभ्यते ' स्याच्चैदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥ २८ ॥ '
प्रकृतिपुरुषयोभिन्नत्वावगमात्मिकाया विवेकख्यातेरनन्तरं वितर्कविचारायनुसार्यात्मा सम्प्रज्ञातयोगः, तत् पुनः पुरुषमात्रावलम्बनात्मकोऽसम्प्रज्ञातयोगः, इत्यपेक्ष्यैव मुक्तेर्योगशास्त्रेण सम्मतत्वात्, विवेकख्यातिमात्रतश्च तस्या असम्मतत्वात्, तस्माद्विरुद्धार्थत्वं दोषः । यथा वा - 'अनन्यसदृशं यस्य बलं बाह्वोः समीक्ष्यते । षड्गुण्यानुसृतिस्तस्य सत्यं सा निष्प्रयोजना ॥ ' इत्यत्र महाबलेनापि सन्ध्यादयः षड्गुणा अवश्यमुपादेयाः इति तेषां निष्प्रयोजनत्वाभिधानं नीतिविरुद्धम् । इति दिक। अत्र विद्याशब्देन व्याकरणातिरिक्तं शास्त्रं गृह्यते, व्याकरणविरुद्धत्वे च्युतसंस्कृतित्वस्यैव अभिमतत्वात् । न हि युतसंस्कृतित्वस्यार्थगतत्वं सम्भवति, येन तस्याप्यत्रान्तर्भावो युज्येत । इति बोध्यम् । प्रहसनादावस्योपादेयत्वमपि दृश्यते, तस्मादनित्योऽयं दोषः ।
साकाङ्क्षार्थत्वमुदाहरति- 'ऐशस्य' इत्यादिना ।
'भार्गवः परशुरामः । ऐशस्य महादेवसम्वन्धिनः । धनुषः । भङ्गम् । तेन च क्षत्त्रस्य क्षत्रियकुलोत्पन्नस्य । समुन्नतिम् । श्रीरत्नम् । 'स्त्रीरत्न' मिति पाठान्तरेऽपि सीतारूपं रत्नमित्यर्थः । कथनाम। अधुना मृष्यते । सहते न कथमपीति यावत् ॥ २६ ॥' अत्र | 'श्रीरत्नम्' इति 'पद' मिति शेषः । 'उपेक्षितुम् । इति । 'पद' मिति शेषः । आकङ्क्षति । इत्यतः । साकाङ्क्षत्वम् ।
सहचरभिन्नार्थत्वमुदाहरति- 'सज्जन' इत्यादिना ।
'सज्जनः । दुर्गतौ दारिद्र्यरूपे आवर्त्ते । 'दुर्गतिः । नरके निःस्वतायां च' इति हेमः । मग्नः । कामिनी । गलितस्तनी गलितौ पतितौ स्तनौ यस्याः सा । खलो दुर्जनः । समज्यायां सभायाम् । 'समज्या परिषद्गोटीत्यमरः । पूज्यः । इत्येते त्रयः' इति शेषः । मम । चेतसश्वित्तस्य । तापाय ॥ २७ ॥' अत्र 'सज्जन' स्तपत्दार्थः । च । कामिनी तत्पदार्थः । शोभनौ । तत्सहचरस्तयोः सहचरः । खलः खलपदार्थः । भशोभनः । इत्यतः । सहचरभिन्नत्वम् ।
अस्थानयुक्तार्थत्वमुदाहरति- 'आज्ञा' इत्यादिना ।
'आज्ञा शासनं 'यस्ये 'ति शेषः, तथा च-यस्य ( रावणस्य ) शासनमित्यर्थः । शक्रशिखामणिप्रणयिनी शको देवराजस्तस्य शिखेति तस्याः मणी रत्नं तस्य प्रणयिनी । प्रिया, ( सहधर्मिणीव अनपायिनी, तत्त्वेन रूपणाच दम्पत्योरिवाविच्छेदः सूच्यते ) शास्त्राणि । नवं नूतनं सर्वलोकविलक्षणमिति यावत् । चक्षुनेत्रम् । 'यस्येति शेषः । ( अत्रोद्देश्य विधेयभावाभ्यां वचनव्यत्ययेऽपि नान्वयानुपपत्तिः । ) तथा भूतपतौ प्रमथाधिपे । पिनाकिनि महादेवे । यय-भक्तिः । यस्य च लङ्केति 'प्रसिद्धे 'ति शेषः । दिव्या । पुरी । पदं निवासस्थानम् ।
हान्वये ब्रह्मणो वंशे । च । उत्पत्तिः 'यस्थे 'ति शेषः । तत्तस्मात् । अहो आश्चर्यम् । ईदृगभिहितगुणगणगरिष्टः । वरः । न । लभ्यते । चेत् । एषः । रावणः । न । स्यात् । नु वितयते । पुनः । सर्वत्र । सर्वे । गुणाः । क्क ? न कापीत्यर्थः, रावण एव सकलगुणगणमहिनोत्कृष्टोऽभविष्यत् यदि जगदाक्रन्दकारित्वेन बलवता