________________
परिच्छेदः ।
हचिराख्यया स्याल्यया समेतः । प्रसिद्धिविरुद्धता यथा-ततश्चचार समरे शितशलधरोहरिः।' . अत्र हरेः शूलं लोकेऽप्रसिद्धम् ।
यथा वा-पादाघातादशोकस्ते सत्राताङकुरकण्टकः ।' ___भत्र पादाघातादशोकेषु पुष्पमेव जायते इति प्रसिद्धं, नत्वाकुरः, इति कविसमयध्यातिविरुद्धता। _ 'अधरे करजक्षतं मृगाक्ष्याः।' इत्यत्र अधरे करजक्षतस्य शृङ्गार (काम) शास्त्रविरुद्धत्वादि द्याविरुद्धता । एवमन्यशास्त्रविरुद्धत्वमपि ।
ख्यातिविरुद्वार्थत्वं लक्षयनुदाहरति-प्रसिद्धिविरुद्धता ख्यातिविरुद्धार्थत्वं दोष इत्यर्थः । यथा-'तत एवं दैत्यानां जितकाशित्वोपपत्त्यनन्तरम्।शितशूलधरः शितं तीक्ष्णं यत् शूलं तस्य धरः।हरिविणुः। समरे सङ्ग्रामे।चचार सञ्चचार 'नयनज्वालया चाशु ददाह दनुजान् क्षणात्। इति शेषः॥'अव हरेर्विष्णोः । शलम। लोके । अप्रसिद्धम् इत्यस्मात् । 'प्रसिद्धिविरुद्धता' इति पूर्वेणान्वयः । रुद्रस्य त्रिशूलं ज्वलनज्वाला च प्रसिद्धा। न तु विष्णोः; तस्मात्-विष्णोः शूलधारित्वे तन्नेत्रज्वालया दैत्यानां दाहे ययेमाने च हारपदार्थो मन्थरायते इति दुष्टत्वम् । यथा वा-'ते तव प्रमदाया इति भावः । पादाघातात् पादाघातं प्राप्येत्यर्थः । अशोकस्तन्नामा वृक्षविशेषः । ससाताकुरकण्टकः सजातोऽङ्कुर एव कण्टको रोमोद्गमो यस्य तादृशः। 'उन्मत्त इव सङ्कद्ध इव हन्ति बताध्वगान्' इति शेषः ॥' अत्र । पादाघातात् प्रमदानामिति शेषः । पुष्पम् । एव । जायते 'अशोकस्ये ति शेषः । इति प्रसिद्धम् । नतु अङकरः। इति कवितमयसपातिविरुद्धता कवीनां समयः सम्प्रदायः सिद्धान्तो या तेन या ख्यातिः प्रसिद्धिस्तस्या विरुद्धो विपरीतोऽर्थ इति तस्य भावस्तत्ता। अत्रेदमभिहितम्-'पादाघातादशोकं विकसती'. त्येवं वक्ष्यमाण: कविसमयः, तेनाशोकपुष्पविकासमात्रं सिद्धम्, नतु अङ्कुरोगमनम् : तस्मात्तस्य विपरीततया पादाघातादशोकस्याङकुरोगमाऽभिधानात् प्रसिद्धिविरुद्धत्वम् । अयं च दोषोऽनिलः । अत एव-'सुसितवसनालङ्कारायां कदाचन कौमुदी महसि मुशि स्वैरं यान्त्यां गतोऽस्तमभूद् विधुः । तदनु भवत: कीर्तिः केनाप्यगीयत, येन सा प्रियगृहमगान्मुताशङ्का, वनासि शभप्रदः ॥'अत्रामाऽपि कीतिर्योत्स्नावत, प्रकाशरूपा कथितेति लोकविरुद्धमपि कविप्रसिद्ध दृष्टम।' इति प्रकाशकाराः । 'असूत सद्यः कुसुमान्यशोकः स्कन्धात् प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां सम्पर्कमाशिजि. तनूपुरेण ॥' अत्राकस्मादेव सर्वात्मना वसन्तस्य प्रवृत्तरत्यन्तचित्तोन्मादकत्वं कालस्यावगम्यते।' इति च सूत्रकाराः प्राहुः । एतेन-वसन्तेऽशोकपुष्पोद्गमस्य लोकप्रसिद्धयविरुद्धतया कविसमयस्य (पादाघातमन्तरेण तदसम्भवाख्यानरूपस्य) विरुद्धत्वम् । इति निष्कृष्टम् । 'मृगाक्ष्याः मृगनयनायाः कान्ताया इति यावत् । अधरे ओष्ठे. । करजक्षत करजानां नखानां क्षतं घातः । कराज्जायते इति करजः, 'अन्येष्वपि दृश्यते ।' ३।२।११ इति डः । 'करज स्याद् व्याघ्रनखे करञ्जमखयोः पुमान् ।' इति गोपालः । 'प्रियसख्या हृदये मुदं ततान । युगपत्स्फुरणं क्षणं गतानां प्रतिपच्चन्द्रमसां रुचिं नु यातम् ॥' इति शेषः । अत्र वैतालीयं छन्दः, लक्षणं चोक्तं प्राक ॥' इत्यत्र । अधरे । करजक्षतस्य नखघातस्य । शृङ्गारशास्त्रविरुद्धत्वाच्छृङ्गारशास्त्रं शृङ्गारस्य शास्त्रं वात्स्यायनादिमुनिप्रणीत कामशास्त्रमिति यावत् । तस्य विरुद्धत्वं तस्मात् । विद्याविरुद्धता। 'दोषः' इति शेषः। अत्रेदं बोद्धव्यम् -'नखक्षतस्य स्थानानि कक्षौ वक्षस्तथा गलः । पाश्चों जघनमूरू च स्तनगण्डललाटिकाः ॥' इति वात्स्यायनादिभिरुक्तषु स्थानेष्वधरस्यान्यतमत्वाभावात्तत्र नखक्षतोक्तिर्वात्स्यायनादिदर्शितशृङ्गारविरुद्धति विद्याविरुद्धार्थत्वम् । 'मूढस्य तस्य नखरक्षतान्यधरपल्लवे । बाला दधाना व्यतनोत् सख्या मनसि सज्वरम् ॥' इत्यादौ तु शास्त्रानभिज्ञस्य विरुद्वाविरुद्धत्वयोरफिञ्चित्करतया न सम्भवति निरुक्तो दोषः । अत एव-'मृढताया अन्यथाऽनुपपत्तयुक्तमेव तथावर्णनम् । तस्माद्विद्याविरुद्धतायास्तथा वर्णने गुणत्वमेव । इत्यन्ये । इति ।
शास्त्राणामनक्यमिति सूचयनाह-श्वम् । अन्यशास्त्रविरुद्धम् । अपि । तथाहि-'अष्टाङ्गयोगपरिशीलनकीलनेन दुःसाधसिद्धिसविधं विदधद्विदूरे । आसादयन्नभिमतामधुना विवेकख्याति समाधिधनमौलिमणिविमुक्तः ॥' इत्यत्र