________________
साहित्यदर्पणः। .
[सप्तमः
अब द्वितीयशस्त्रमोचने हेतुर्भेक्त इति नितुत्वम् । ।
'कुमारस्ते नराधोश ! श्रियं समधिगच्छनु ।' अत्र 'त्वं म्रियस्व' इति विरुद्धार्थप्रकाशनात प्रकाशितविरुद्धत्वम्।
'अचला अवला वा स्युः सेव्या ब्रूत मनीषिणः।' अत्र प्रकरणाभावात् शान्तशृङ्गारिणोः को वक्ता' इति न निश्चीयते, तस्मात् सन्दिग्धत्वम् । .. 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणुते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥ २५॥ अत्र द्वितीयाई व्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता।
द्रोणाचार्येण शस्त्रं च परित्यक्तम्, मारितश्च द्रुपदपुत्रेण द्रोणाचार्य्यः । ततः पितृशोकादश्वत्थाम्नाऽपि शस्त्रं मुमुक्षुणेदमभिहितमित्याख्यायिकाऽनुसन्धेया । इति । वेणीसंहारस्येदं पद्यम् । अन शिखरिणी छन्दः, तल्लक्षणं च प्रागुक्तम् । अश्वस्थानः पितृशोकतुरस्येयमुक्तिः ॥ २४ ॥'
___ लक्ष्य निर्दिशति-अत्रोदाहृते पद्ये । द्वितीयशस्त्रमोचने द्वितीयं यत् शस्त्रमोचनं तत्र। हेतुः। न नैवाउक्तः । इत्यस्मात् नि । अत:-'नदेवास्त्र ! त्यक्षाम्यहमपि वत त्वां पितृशुचा ।' इति पाठे हेत्वर्थाभिधानान्न निरूक्तदोषावकाश इति बोध्यम् ।
प्रकाशितविरुद्धार्थत्वमुदाहरति-'हे नराधीश! ते तव । कुमारः। श्रियं लक्ष्मी 'राज्यस्य' इति शेषः । समधिगच्छतु सम्यगधिकरोतु । 'राज्यभारमयं वोढुं समर्थः प्रतिभाति मे' इति शेषः ॥ त्वं नराधीशः इत्यर्थः । म्रियस्व मृत्युमाप्नुहि ।' इतीत्येवम् । विरुद्धार्थप्रकाशगत् विपरीतार्थस्य व्यञ्जनात् । प्रकाशितविरुद्धवं तन्नामाऽर्थदोष इत्यर्थः । अत्राहु:-'अवार्थसामर्थ्यनिबन्धना विरुद्धा प्रतीतिः, अन्यत्र पुनः शब्दसामर्थ्य निबन्धना; इति भूयान् प्रकाशितविरुद्ध विरुद्धमतिकारित्वयोर्भेदः। अमतपरार्थत्वे व्यङ्गययोरसयोपिरोधित्वमात्रम्, न तु तत्र वियक्षितविरुद्धार्थत्वम् ।' इति।
सन्दिग्धार्थत्वमुदाहरति-हे मनीषिणो बुद्धिमन्त इत्यर्थः । ब्रूत कथयत । अचलाः पर्वताः । सेव्याः सेवनीयाः।'मम'इति शेषः । वा । अवका अवलान्ति गहन्ति वशीकुर्वन्ति मन इति यास्ताः । सेव्या'इति पूर्वतोऽन्वेति ।। 'त्यक्ता कार्यान्तरे प्रेम किमद्य मम तृप्तये।' इति शेषः । अत्र प्रकरणाभावाद । शान्तशृङ्गारिणोः । निर्धारणाथेयं सप्तमी। कः । वक्ता । इतीत्येवम् । न । निश्चीयते, अचलसेवाया अभिमतत्वे शान्तत्वप्रतीतेः, अवलासेवायाः अभिमतत्वे पुनः शृङ्गारित्वप्रतीतेः' इति शेषः । तस्माद । सन्दिग्धत्वम् । यथा वा-'आयुर्नश्यति पश्यतां, प्रतिदिनं याति क्षयं यौवनं, प्रत्यायान्ति गताः पुनर्न दिवसा, नाप्यासतेऽमी क्षणम् । यावज्जीवमुदर्कवृद्धिरुदिता कर्त्तव्यता कर्मणां, किं कुर्यो ? किमु वा सुखाय ? कुह वा स्वान्तं प्रमोदेत वा ? ॥' इत्यत्र प्रकरणाभावात् वक्तः शान्तत्वं शृङ्गारित्वं वेति न निश्चेतुं शक्यते । प्रकरणसद्भावे तु नोक्तदोष इति सुष्टतं प्रकरणाभावादिति च बोध्यम् ।
पुनरुक्तार्थत्वमुदाहरति-सहसा' इत्यादिना ।
'सहसा त्वरित परिणामफलमविमृष्येति यावत् । क्रियां कर्म । न नैव। विदधीत कुर्यात् । अविवेको विवे. काभावः । परमापदां परमाश्च आपदस्तासाम् तहि यतः । गुणलुब्धा गुणेषु विमृध्यकारित्वादिषु लुब्धाः । सम्पदः । स्वयमप्रार्थिताः । एव । विमृष्य त्वरामकृत्वा परिणामफलं वाढमवगम्येति यावत् । कारिणं 'क्रियायाः' इति शेषः । वृणुते स्वीकुर्वन्ति ।असौ भीमसेन प्रति युधिष्ठिरस्योक्तिः, वैतालीयं वृत्तं, तल्लक्षणं च प्रोक्तं प्राक् ॥ २५ ॥'
लक्ष्यं निर्दिशति-अत्र । द्वितीयार्द्ध पद्योत्तरार्द्धम् । व्यतिरेकेण प्रकारान्तरेण । द्वितीयपादस्य 'अविवेकः...'इत्यस्य वाक्यस्य । एव । अर्थः। अतः पुनरुक्तता तन्नामा दोष इति भावः ।