________________
परिच्छेदः ]
रुचिराख्यया स्यारुपया समेतः । 'सदा चरति खे भानुः सदा वहति मारुतः।उदा धत्ते भुवं शेषः सदा धीरोऽविकत्थनः॥२२॥' अब 'सदे' ति न नवीकृतम् । अवास्य पदस्य पर्यायान्तरेणोपादानेऽपि यदि न स्याद्विच्छित्त्यन्तरं, तदाऽस्य दोषस्य सद्भाव इति कथितपदत्वादभेदः। नवीकृतत्वं यथा-भानुः सदा युकतुरङ्ग एव राबिन्दिवं गन्धवहः प्रयाति ।
विभर्ति शेषः सततं धरित्री षष्ठांशवृत्तेरपि धर्म एषः॥ २३॥ इति, 'गृहीतं येनासीः परिभवभयानोचितमपि प्रभावाद्यस्याभून खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्व प्रसि सुतशोकान तु भयाद्विमोक्ष्ये शस्त्र!त्वामहमपि यतः स्वस्ति भवते॥२४॥'
प्रत्येति । इति । यद्वा-स्वाभिधानमविख्यापयतोऽत एव परहस्तेनैव प्रददतो महोदारस्यापि सकाशात् किञ्चिदप्यलभमानस्यात एव खिद्यमानस्य स्वविमशरूपेयमुक्तिः-सूर्यसदृशोऽयमेव नित्यमने कशः पुण्यक्षेत्ररूपधामस्थं धनं जलमिव वित' रति, न तु प्रत्यक्षं तथा प्रतीयमानस्तत्तत्पुण्यक्षेत्रेशः, पुण्यक्षेत्रेषु दानसम्पत्त्या गङ्गापूरोपमस्य विमलस्य यशःपुञ्जस्य प्रवद्विविधातृतया तस्याः सम्पादयिताप्ययमेवेति निश्चितम् , अत-आप्तवचनं तथाभूना किंवदन्ती च नाविश्वासपदमारोढुभर्हतः, तथाऽपि भास्वन्मरीचिषु जलमिव तस्योदारताविकाशेषु तस्मात् साक्षानिराशताया उपपत्तेरर्थलाभं मदीयेयं हारणीसदृशी मुग्धा मनीषा न विश्वसिति ॥ इति । यद्वा-कथमपि विचलचित्तां प्रति सख्या उक्तिरियम्-अहर्पतिसदृशः खपतिरेव स्त्रिया भाग्यरूपधामस्थं शुभफलमुपस्थापयति, न तु धनवन्मलिनात्मा मृषागर्जनशीलः कोऽप्यन्यः, सुरसरित्सदृश्या महाभागाया जीवनं या समुत्रासयति-साऽपि तस्य पत्युरेव विभूतिः । अत्र चाप्तस्य वचनं प्रमाणम्, स्वतः प्रमाणं वेदश्च; न कथं ततस्तत्र सुकृतिजनस्य विश्वासः स्यात्, अथापि मुग्धमतिर्भास्वन्मरीचिषु जलप्रत्यय हारिणीव स्वपतेराराधनेषु ममापि सखी सुखप्रत्ययं न विधत्ते ॥' इति । इत्येवमनेकधा शेमुषीविलसितेष्वर्थस्य दुरवगम्यत्वनिर्बाधम् ।
अनवीकृतार्थत्वमुदाहरति-'सदे' त्यादिना । स्वष्टम् ॥२२॥ यथा वा मम-काव्यं पिबन्तु ललनाऽधरपानलुब्धाः काव्यं श्रयन्तु विषमासु विपत्सु मग्नाः । काव्यं स्तुवन्तु सुचिगय सुखाय यत्ताः काव्यं स्मरन्तु कृतिनो यदि पूर्णकामाः ॥' इत्यत्र 'काव्य'मिति न नवत्वं नीतम् । कथितदोषं निदर्शयति, । अत्र । अस्य 'सदे' त्येतस्य । पर्यायान्तरेण तदर्थकेनान्न पदेनेत्यर्थः । उपादाने प्रयोगे। अपि यदि विच्छित्त्यन्तरं नवीकरणं न । स्यात् । तदा अम्यानवीकृतार्थत्वस्य । सद्धावः। इति कधिनपदत्वात भेदः । स्पष्टमन्यत् । इदं तु बोध्यम् 'एकार्थस्यापि शब्दस्य पुनः पुन: प्रयोगे भड्यन्तरेण पुनस्तदर्थस्य नवीकृतत्वे नानवी कृतत्वं न वा कथितपदत्वम् । नवीकारेण चमत्कारे समुदिते नयोरुभयोरपि तिरोधानात् । इति । - निर्हेत्वर्थत्वमुदाहरति-'गृहीत'मित्यादिना ॥ २३ ॥
'हे शस्त्र ! येन मत्पित्रा द्रोणाचार्येणेति यावत् । नोचितमनुचितं ब्राह्मणस्य खवृत्तिविरोधादग्राह्यमिति यावत् । अपिपरिभवभयात् परिभवस्य द्रुपदादिदुष्टक्षात्रकर्तकस्यानादरस्येति यावत् भयं तस्मात् । गृहीतमङ्गीकृतम् । आसीस्त्वमभूः । तस्य मत्पितुद्रोणाचार्य्यस्येति यावत् । प्रभावात् सामर्थ्यात् । तव (शस्त्रस्य)। खल ( वाक्यालङ्कारे)। कश्चित कोऽपि युयुत्सुदृप्त इति यावत् । विषयो गोचरो लक्ष्य इति यावत् । न । अभूत् । इति न अपि तु सर्वोऽपि, 'द्वौ नौ प्रकृतमर्थ सातिशयं गमयतः' इति नयः । तेन तादृशप्रभावेण मत्पित्रा।सुतशोकात् सुतस्य (ममाश्वत्थाम्नः) यः शोको मरणभ्रान्तिजन्यस्तापस्तस्मात् । न तु । भयात् । परित्यक्तम् । असि । 'अतः' इति शेषः । यतो यत्र । आद्यादिभ्य उपसङ्ख्यानमिति तसिः । भवते । स्वस्ति विश्रामसुखं स्यादिति भावः । 'नमः खस्तिस्वाहास्वधाऽलंबषड्योगाच्च ।' २।३।१६ इति चतुर्थी । 'तत्र' इति शेषः । त्वाम् । अहमश्वस्थामा । अपि । विमोक्ष्ये परित्यक्ष्यामि ॥ अत्रायम्भावः-पुरा किल युद्धे सर्व वीरजातं निघ्नन्तं द्रोणाचार्य्यमवलोक्य यावच्छत्रग्रहणं तावत्तस्याप्रतिद्वन्द्वितां च विज्ञाय अश्वत्थामनाम्नि गजे मृते 'अश्वत्थामा हतः' इति सत्यवादिना युधिष्ठिरेणाभिहितम्, सुतशोकभ्रान्तेन