________________
साहित्यदर्पणैः।
[सप्तमःइत्यत्र येषामिन्द्रकला नानन्दहेतुस्तेषामेवानन्दाय चन्द्रिकात्वारोपः।
'हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाऽऽशु जायते पातो न तथा पुनरुन्नतिः॥२०॥' इत्यत्रश्लीलोऽर्थः ।
'वर्षत्येतदहर्पतिर्न तु घतोधामस्थमच्छं पयः सत्यं सा सवितुः सुता सुरसरित्पूरो यया प्लाषितः। व्यासस्योक्तिषु विश्वसित्यपि न कः श्रद्धा न कस्य श्रुतौ न प्रत्येति तथाऽपि मुग्धहरिणी भास्वन्मरीचिष्वपः ॥ २१॥'
इत्यत्र 'यस्मात् सूर्यावृष्टेर्यमुनायाश्च प्रभवस्तस्मात्तयोर्जलमपि सूर्यप्रभवं, ततश्च सूर्यमरी चीनां जलप्रत्ययहेतुत्वमुचितं, तथाऽपि मृगी भ्रान्तत्वात्तत्र जलप्रत्ययं न करोति' इत्ययमप्रस्तुतोऽप्यों दुर्बोधः, दूरे च प्रस्तुतार्थबोध इति कष्टार्थत्वम् ।
त्यर्थः॥१९॥'इत्यत्र । येषां यूनाभिति शेषः । इन्दुकला । न । आनन्दहेतुःतिषाम् । एव । आनन्दायानन्द प्रतिपादयितुम् । चन्द्रिकावागेपः । 'नायिकाया'मिति शेषः । तस्मात् स्फुटमिह व्याहतार्थत्वमिति भावः । 'युगास्तकालप्रतिपहृतात्मनो जगन्ति यस्यां सविकासमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ॥' इत्यत्र तु चमत्कारविशेषकत्वान्न दुष्टत्वम् ।
अश्लीलत्वमुदाहरति-'हन्तुमेवेत्यादिना ।
'हन्तु मारणं सुरतक्रियारूपयोनिताडनं वा कर्तुम् । एव । प्रवृत्तस्य । अत एव--स्तब्धंस्य निर्लजतयोन्नतस्य । विवरैषिणः छिद्रान्वेषिणः । यथा । आश। पातः पतनम् । जायते । तथा । पुनरुन्नतिः । न 'जायते' इति पूर्वेणान्वेति । इदं नीतिशास्त्रस्य वचनम् । अत एवात्र दोषः । अन्यथा तु 'यथैः पदैः पिशुनयेच रहस्यवस्तु' इति सङ्गच्छतैवेति बोध्यम् ॥ २० ॥' इत्यत्र । अश्लीलो जीढाव्य लकः । अर्थः।
कष्टार्थत्वमुदाहरति- 'वर्षती'त्यादिना ।
'अहपतिः सूर्यः । धामस्थं स्वप्रान्तवति । एतत् । अच्छं निर्मलम् । पयो जलम् । वर्षति । नतु । घनो मेघः 'वर्षती'ति पूर्वतोऽन्वेति । अथ-यया (का) । सुरसरित्पूरो गङ्गाप्रवाहः । आप्लावितः समन्ततो वर्धितः । . ला यमुनेत्यर्थः। सत्यम् । सवितुः सूर्यस्य । सुता पुत्री । ननु किमत्र प्रमाणमित्याह-व्यासस्य । उक्तिषु सूर्यस्यपत्नी सज्ञाऽभूत्तनया विश्वकर्मणः । मनुर्यमो यमी ( यमुना ) चैव तदपत्यानि वै मुने ॥'इत्यादिषु वाक्येषु । कः। न । 'आस्तिकः स निति शेषः । विश्वसिति। कस्य । च-श्रुतौ 'आदित्यात् पर्जन्य'इत्यादौ वेदवाक्ये। श्रद्धा सत्यत्वभावना । न । अपि तु सर्वस्यैवास्तीति भावः । तथाऽपि । मुग्धहरिणी (अत्र मुग्धा हरिणीत्यसमस्तमेव वाच्यम्)। भास्वन्मरीचिषु सूर्यकिरणेषु । अपो जलानि । न । प्रत्येति विश्वसिति । शार्दूलविक्रीडितं वृत्तम् ॥२१॥'
दोषं निर्दिशति-इत्यत्रेत्यादिना । स्पष्टम् ।
अत्रेदमभिहितम्-अत्र हि-उत्तरोत्तरं विपद्यमानस्य धार्मिकस्य स्वविमर्शरूपेयमुक्तिः, यद्वा-तादृशस्य कामपि दशामवलोक्य खिद्यमानस्य विस्मयमानस्य वा कमपि प्रत्युक्तिरेषा, तथाहि-अहर्पतित्वेन प्रस्तूयमानो धर्मों भाग्यरूपधामस्थमच्छं ( शुभं ) पयः ( कर्मफल ) वर्षति, न तु घनववृष्टिकर्तृत्वेन प्रतीयमान उद्योग आश्रियमाणो वोपायः कश्चित्) सम्पतेरापातरमणीयतया प्रमादोद्वद्धकतया वा यमुनासदृशत्वं, तयोरुभयोरपि शुद्धस्वरूपत्वाभावात् , तादृश्याऽपि तया सम्पदा प्रयागसदृशं कमपि सज्जनरूपं तीर्थविशेषमुपपद्य गङ्गापूरसदृशः कीर्तिपुञ्जः प्रवृद्धिं नीतः । नन्वत्र किनियामकं प्राक्तनस्य कस्यचिदधर्मस्यापि तादृशफलकल्पनोपात्तरित्याशक्याह-व्यासस्य धर्माधर्मयोः शुभाशुभयोः फलस्यावश्यम्भावि. स्वेन तयोर्मथः प्रभेदमुपन्यस्यत आप्तस्योक्तिषु को न विश्वसिति ? को वा ताशनिर्णायकतया प्रमाणकोटिमुपगतायां श्रुतौ न विश्वसिति, तथाऽपि मुग्धहारिणीसदृशीयं बुद्धिस्तादशभास्वद्रूपधर्ममरीचिरूपभाग्यविलसितेषु अपः (सम्पत्ती:) म