________________
परिच्छेदः ]
रुचिराख्यया व्याख्या समेतः ।
४९
अपुष्टार्थत्वम्मुख्यानुपकारित्वम् । यथा- 'विलोक्य वितते व्योम्नि विधु, मुञ्च रुषं प्रिये ।' इत्यत्र 'वितत' शब्दो मानत्यागं प्रति न किञ्चिदुपकुरुते । अधिकपदत्वे पदार्थान्वयसमकालमेव बाधप्रतिभासः, इहु तु पश्चादिति विशेषः ।
दुष्क्रमता यथा-' देहि मे वाजिनं राजन् ! गजेन्द्रं वा मदालसम् ।' इति, अत्र गजेन्द्रस्य प्रथमं याचनमुचितम् ।
ग्राम्यता यथा - 'स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिये ।' इति अत्रार्थी ग्राम्यः । कस्यचित् प्रागुत्कर्षमपकर्ष वाऽभिधाय पश्चादन्यथाप्रतिपादनं व्याहतत्वम् । यथा'हरन्ति हृदयं यूनां न नवेन्दुकलादयः । वीक्षते यैरियं तन्वी लोकलोचनचन्द्रिका ॥ १९ ॥
(निश्चितत्वेना) भिवेयस्यार्थस्य नियतत्वेना ( निश्चितत्वेना ) भिवानमित्यर्थः । अनियततयाऽभिधेयस्याप्यर्थस्य निय ततयाऽभिधाने अनौचित्यमिति सहृदयोद्वेगो दूषकताबीजम् । अतोऽयं नित्यो दोषः । विशेषा विशेषार्थता नाम विशेषेऽविशेषो यस्य तादृशार्थत्वम्, तथा च विशिष्टतयांऽभिधेयस्यार्थस्याविशिष्टतयाऽभिधानमित्यर्थः, ततश्च सहृदयोद्वेग दूषकताबीजम् । विशेष नियामकप्रकरणादिसद्भावे दोषाभावादस्यानित्यत्वम् । नियमानियमार्थता नाम नियमेsनियमो यस्य तादृशार्थत्वम् । तथा च - नियतत्वेना ( निश्चितत्वेना ) भिधेयस्यार्थस्यानियतत्वेनाभिधानम् । अव्युपत्त्युन्नयनेन सहृदयवैमुख्यं दूषकताबीजम् । नित्यश्चायं दोषः । विध्ययुक्तार्थता विध्यविषयस्यैव विधिविषयत्वेनायुक्त *मत्वेन वा ( विधेः ) अयु तत्वम् । विवक्षितार्था निर्वाहो दूषकताबीजम् । तस्मान्नित्योऽयं दोषः । न चाविमृष्टविधेयांशत्वेन सङ्करः, तत्र हि युक्तस्यैव विधिः, किन्तु तस्य विमर्शाभावः, प्रकृते पुनरयुक्तस्य विधिरिति भेदः । अनुवादायुक्तार्थस्वं सिद्धोपन्यासाननुगुणार्थत्वम् । सिद्धार्थविरुद्धाभिधानं दूषकताबीजम् । नित्योऽयं दोषः । अत्र च प्रकरणानुसन्धानेन सिद्धाभिधानाननुगुणत्वप्रतीतिः, इत्यस्यार्थगतत्वम् । निर्मुक्तपुनरुक्तार्थत्वं क्रियाकारकान्वयेन निराकाङ्क्षतया निर्मुक्तेऽपि वाक्ये पुनः कारकान्तराभिधानेन तदर्थाभिधानम् । निर्मुक्ते समापिते इत्यर्थः । अप्रयोजकत्वं सहृदयवैरस्याधानं वा दूषकताबीजम् । तस्मान्नित्योऽयं दोषः । अत्राहुः - ' त्यक्तं पुनः स्वीकृते एव वाक्यार्थे विशेषणान्तरोपादाने समाप्तपुनरात्तत्वम्, अत्र त्वन्य एव वाक्यार्थ इति भेदः । ' इति ।
एतान् लक्षयन्नदाह प्रवृत्त आह- अपुष्टार्थत्वमित्यादि ।
मुख्यानुपकारित्वं प्रकृतार्था परिपोषकत्वम् । अपुष्टार्थत्वम् । यथा- 'हे प्रिये वितते विस्तृते घ्योनि' । आकाशे‘उदित’मिति शेषः । विधुं चन्द्रम् | विलोक्य । रुषम्मानम् । मुञ्च । 'प्रिययोर्वैमनस्यं हिं कदापि सुशोभते ।' इति शेषः ।' इत्यत्र । विततशब्दो व्योमविशेषणत्वेन न्यस्त इत्यर्थः । मानत्यागं कर्तव्यत्वेन बोध्यमानं कार्यमिति भावः । प्रति । न । किञ्चित् । उपकुरुते । अधिकपदत्वे तदाख्ये दोषे सति । पदार्थान्वयसमकालम् । एव । बाघप्रतिभासो विवक्षितार्थाघातप्रतीतिः । इहास्मिन्नपुष्टार्थत्वे इत्यर्थः । तु । पश्चात् । 'बाधप्रतिभास' इति पूर्वेणान्वेति । इति विशेषः ।
दुष्क्रमत्वं लक्षयमुदाहरति- दुष्क्रमतेत्यादिना । स्पष्टम् ।
इदं तु बोध्यम्-लोके हि विशेषाशक्तौ अल्पं याच्यते इति, न तु आल्पशक्तौ विशेष इति क्रमत्यागः । ग्राम्यार्थत्वं लक्षयन्नुदाहरति ग्राम्यतेत्यादिना । स्पष्टम् ।
व्याहतार्थत्वं लक्षयनुदाहरति कस्यचिदित्यादिना ।
कस्यचित् 'वर्णनीयस्ये' तिशेषः । प्राकू | उत्कर्षम् । वा । अपकर्षम् । अभिधाय वर्णयित्वा । पश्चादनन्तरम् | अन्यथा प्रतिपादितार्थवैपरीत्येन । प्रतिपादनम् । व्याहतत्वम् । यथा- 'हरन्ती' त्यादौ ।
'यैः । इयम् । लोकलोचनचन्द्रिका लोकों जगतस्य लोचनानि तस्य चन्द्रिका तद्वदानन्दाधायिका । वीक्ष्यते । तेषाम् - वृनाम् | मन: ( कर्म. ) | नवेन्दुकलाऽऽदयः । न । हरन्ति आमोदाधायकतया प्रभा