________________
४८
साहित्यदर्पणः ।
[सप्तम:
लङ्कारविशंषावस्थानम् । यथा वा भागवते-'विचित्रीपवनोद्यानैः कुजद्विजकुलाकुलैः । प्रोत्फलकुमुदाम्भोजकहारोत्पलवारिभिः॥जुष्टं'...इत्यत्र भगवदनुग्रहेण कुमुदादीमामेककालिको विरुद्धोऽपि सद्भावः सङ्गच्छते । यथा वा तत्रैव-देवतानि रुदन्तीव विद्यन्ति हयुचलन्ति च ।...' इत्यत्रोत्पातादिना मूर्तीनां रोदनादि विरुद्धमपि सङ्गच्छते । इति । विद्याविरुद्धार्थता शास्त्रविरुद्धार्थत्वम्,विद्यापदस्य शास्त्रोपलक्षकत्वात्; शास्त्राणि चानेकानि, तेनायं दोषोऽप्यनेकात्मा । अस्य च विरुदार्थप्रतीत्या सहृदयहृदयोद्वेगो दूषकताबीजम् । अयं च दोषो नित्यः । केचित् शास्त्राणामनैकान्ये तदेकतरविरुद्धत्वेऽपि तदन्यतरविरुद्धत्वाभावात्तथाऽभिधाने न दोषः । यथा- 'पशुधेनिहतः स्वर्ग ज्योतिष्टोमे गमिष्यनि । स्वपिता यजमानेन तत्र कस्मान हिंस्यते ॥' इत्यादौ । इति । अन्ये वाहुः-'वारिपर्णीचयः साकं घट्वा वृश्चिकमगतः । दातव्यो वानरीरेणुः सद्यः कण्डहरोहि सः ॥' इत्यादावस्य गुणत्वमपि, इत्यनित्य एवायम् । अत एव-'पापसेवाश्रयेदम्मान हत्वैतानाततायिनः । इत्याद्यपि सङ्गच्छते । इति । अन्ये त्वेवमण्याहुः-विद्याविरुद्धार्थत्वन्नाम शास्त्रादिविरुद्धतया प्रतिपाद्यार्थत्वं दोषः । न केवलं विद्यापदेन शास्त्रग्रहणम्, तस्योपलक्षकत्वेन शास्त्रादिग्रहणोपपत्तेः । आदिपदेन पुनर्देशकालादीनां ग्रहणम् । तेन'सुराऐवस्ति नगरी मथुरा नाम विश्रुता । आक्षोटनारिकेलाढया यदुपान्ताद्रिभूमयः ॥' सुराष्ट्र देश मथुरा : आस्ति, यदुपान्ताद्रिभूमय आक्षोटादिसम्पन्ना इति देशविरुद्धार्थत्वम् । 'पद्मिनी नक्तमुन्निद्रा स्फुटत्यहि कुमुद्रुती । मधुरुत्फुलनिचुलो निदाघो मेघनिखनः ॥' पद्मिन्या नक्तं, कुमुद्रत्याश्च दिवा,वसन्ते जलवेतसापरपर्यायाणां निचुलाना,निदाघे च मेघानामुन्निद्रत्वाद्यसम्भवात् कालविरुद्धार्थत्वम्। 'आधूतकेसरो हस्ती तीक्ष्णस्तुरङ्गमः । गुरुसारीऽयमेरण्डा निःसार: खदिरद्रमः ॥' हस्तितुरङ्गमैरण्डखदिराणां सकेसरत्वाद्यनुपलब्धेर्लोकविरुद्धार्थत्वम् । 'यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता । माता च मम वन्ध्याऽऽस्ते सत्यं वच्मि नवै मृषा ॥' इत्यत्र न्यायविरुद्धत्वम् । तत्तत्पदार्थभेदमादायाभिधाने तु दोषाभावः । यथा मम-'रामचन्द्रमवलोक्य सा तदा पद्मिनी विकसति स्म भुमिजा । शुद्धमिद्धममृतात्मकं पदं प्राप्य कस्य हृदयन्न मोदते ? ॥' इत्यत्र पद्मिन्या भूमिजात्वाभिधाने देशविरुद्धार्थत्वं, चन्द्रमवलोक्य तस्याविकासाभिधाने नियमविरुदुत्वं च न दुष्टे, 'रामचन्द्र'मित्यत्र विधेयांशस्याविमृष्टत्वं च निर्दुष्टम् । यथा वा-'भुवनत्रयजेतृणामपि मानवतां मनः । अनङ्गः पुष्पधन्वाऽपि विदारयति तत्क्षणात् ॥' इत्यत्रानङ्गत्वं धनुर्धरत्वं विलक्षणपराक्रमत्वं च युक्तिविरुद्धान्यपि कविसमयाविरुद्धानि । इति दिक । ननु 'रामचन्द्र मित्यत्र राघवं 'समवलोक्य तिपदपरिवृत्तौ दोषाभावादर्थदोषाभावो न कथम् ? इति चेत् ! 'रामचन्द्र मित्यर्थकं पदं 'रामसोम'मिति, 'राघवेन्दु मिति वा; तस्मात् 'रामचन्द्र मिति परिवत्त्य 'रामसोम मिति 'राघवेन्दु'मित्यभिधाने वाऽऽशयमानोऽस्त्वेव दोषः, यस्यात्र स्वरूपणावस्थानम् । 'राघव'मिति 'शुद्ध'मित्याद्यर्थेनापि न सङ्घटते । न च 'पद्मिनी'इत्यनभिधाय 'कमलवती' इतिविवक्षया 'अम्भोजिनी' इत्यभिधाने 'रामचन्द्र मित्याद्यभिहितेऽपि नाशयमानस्य दोषस्यावस्थानम् । अतोऽयं नित्य एव दोषः । इति वाच्यम् । 'रामचन्द्र मित्यत्रेवापरत्रापि रूपकस्यैवाभिधेयत्वात, अन्यथा च चमत्कारानुदयात् ।' इति । साकाङ्क्षार्थताऽनुपात्तार्थोपादित्साविषयकार्थत्वम् । अभिधानापर्यवसानं विवक्षितार्थाप्रतीतिर्वां दूषकतावीजम् । नित्यश्चायं दोषः । सहचरभिन्नार्थतात्कृष्टापकृष्टत्वाभ्यां समभिव्याहृतेभ्यो विजातीयार्थत्वम् । अत एवायं द्विविधः तथा च-उत्कृष्टतया समभिव्याहतेभ्योऽपकष्टतया समभिव्याहार्ष्याणाम्, अपकृष्टतया वा रामभिव्याहतेभ्य उत्कृष्टतया समभिन्याहार्थ्याणामर्थानामभिधानेन विजातीयार्थत्वं सहचरभिन्नार्थता । अर्थानामिति बहुवचनमविवक्षितम् । उत्कृष्टापकृष्टभेदाप्रतीत्या हेयस्योपादेयत्वभ्रमः, उपादेयस्याथस्य च हेयत्वभ्रमो वा दूषकताबीजम्। अयं च नित्यो दोषः।अस्थानयुक्तार्थता विवक्षितार्थप्रतीतिविघटकतयाऽभिधानम् । अत्राहः-अनुपयुक्तस्थाने समापितवाक्यार्थत्वमस्थानयुक्तार्थता । तच (समापितवाक्यार्थत्वं च ) द्विविधम् । वाक्यार्थस्याधिकोपयोगे समापनम् , समापनोपयोगे चाधिक्यम् । तथोक्तम्-‘युक्ताधिक्ये विसर्गे (परित्यागी ) स्यादाधिक्ये वा समापने । अर्थ प्रकल्पिते यत्र सोऽस्थाने स्यात् समुज्झितः ॥' इति । तदाद्यं यथा-'मातुलौमाधवौ यस्य पिता यस्य धनन्जयः । स शेते समरे श्रीमानभिमन्युमहाबलः ॥' अत्र'नियतिः केन बाध्यते।' इत्यधिकं वक्तुं योग्यम् । द्वितीयं यथा 'आज्ञा...' इति। अविशेषविशेषार्थताऽविशेषे विशेषो यस्य तादृशार्थत्वम् , अविशिष्टत्वेनाभिधेयस्यार्थस्य विशिष्टत्वेनाभिधानमित्यर्थः । अविशिष्टतया ( सामान्येना )ऽभिधेयस्य विशिष्टतया ( सामान्याभावेना) ऽभिधानेन तदनिर्वाही दषकताबीजम् । अतोऽयं नित्यो दोषः । अनियमनियमार्थता नामानियमे नियमो यस्य तादृशार्थत्वम्।तथाच--अनियतत्वेना